॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

द्विचत्वारिंशोऽध्यायः

देवगिरिमिलापवर्णनम्


ब्रह्मोवाच
अथाकर्ण्य गिरीशश्च निजपुर्युपकण्ठतः ।
प्राप्तमीशं सर्वगं वै मुमुदेऽति हिमालयः ॥ १ ॥
अथ सम्भृतसम्भारः सम्भाषां कर्तुमीश्वरम् ।
शैलान्प्रस्थापयामास ब्राह्मणानपि सर्वशः ॥ २ ॥
स्वयं जगाम सद्‌भक्त्या प्राणेप्सुन्द्रष्टुऽमीश्वरम् ।
भक्त्युद्रुतमनाः शैलः प्रशंसन् स्वविधिं मुदा ॥ ३ ॥
देवसेनां तदा दृष्ट्‍वा हिमवान्विस्मयं गतः ।
जगाम सम्मुखस्तत्र धन्योऽहमिति चिन्तयन् ॥ ४ ॥
देवा हि तद्‌बलं दृष्ट्‍वा विस्मयम्परमं गताः ।
आनन्दं परमं प्रापुर्देवाश्च गिरयस्तथा ॥ ५ ॥
पर्वतानां महासेना देवानां च तथा मुने ।
मिलित्वा विरराजेव पूर्वपश्चिमसागरौ ॥ ६ ॥
परस्परं मिलित्वा ते देवाश्च पर्वतास्तथा ।
कृतकृत्यन्तथात्मानं मेनिरे परया मुदा ॥ ७ ॥
अथेश्वरं पुरो दृष्ट्‍वा प्रणनाम हिमालयः ।
सर्वे प्रणेमुर्गिरयो ब्राह्मणाश्च सदाशिवम् ॥ ८ ॥
वृषभस्थं प्रसन्नास्यं नानाभरणभूषितम् ।
दिव्यावयवलावण्यप्रकाशितदिगन्तरम् ॥ ९ ॥
सुसूक्ष्माहतसत्पट्टवस्त्रशोभितविग्रहम् ।
सद्‌रत्नविलसन्मौलिं विहसन्तं शुचिप्रभम् ॥ १ ० ॥
भूषाभूताहियुक्ताङ्‌गमद्‌भुतावयवप्रभम् ।
दिव्यद्युतिं सुरेशैश्च सेवितं करचामरैः ॥ ११ ॥
वामस्थिताच्युतं दक्षभागस्थितविधिं प्रभुम् ।
पृष्ठस्थितहरिं पृष्ठपार्श्वस्थितसुरादिकम् ॥ १२ ॥
नानाविधिसुराद्यैश्च संस्तुतं लोकशंकरम् ।
स्वहेत्वात्ततनुं ब्रह्म सर्वेशं वरदायकम् ॥ १३ ॥
सगुणं निर्गुणं चापि भक्ताधीनं कृपाकरम् ।
प्रकृतेः पुरुषस्यापि परं सच्चित्सुखात्मकम् ॥ १४ ॥
प्रभोर्दक्षिणभागे तु ददर्श हरिमच्युतम् ।
विनतातनयारूढं नानाभूषणभूषितम् ॥ १५ ॥
प्रभोश्च वामभागे तु मुने मां सन्ददर्श ह ।
चतुर्मुखं महाशोभं स्वपरीवारसंयुतम् ॥ १६ ॥
एतौ सुरेश्वरौ दृष्ट्‍वा शिवस्यातिप्रियौ सदा ।
प्रणनाम गिरीशश्च सपरीवार आदरात् ॥ १७ ॥
तथा शिवस्य पृष्ठे च पार्श्वयोः सुविराजितान् ।
देवादीन् प्रणनामासौ दृष्ट्‍वा गिरिवरेश्वरः ॥ १८ ॥
शिवाज्ञया पुरो भूत्वा जगाम स्वपुरं गिरिः ।
शेषहर्यात्मभूः शीघ्रं मुनिभिर्निर्जरादिभिः ॥ १९ ॥
सर्वे मुनिसुराद्याश्च गच्छन्तः प्रभुणा सह ।
गिरेः पुरं समुदिताः शशंसुर्बहु नारद ॥ २० ॥
रचिते शिखरे रम्ये संस्थाप्य देवतादिकम् ।
जगाम हिमवाँस्तत्र यत्रास्ति विधिवेदिका ॥ २१ ॥
कारयित्वा विशेषेण चतुष्कं तोरणैर्युतम् ।
स्नानदानादिकं कृत्वा परीक्षामकरोत्तदा ॥ २२ ॥
स्वपुत्रान्प्रेषयामास शिवस्य निकटे तथा ।
हिमो विष्ण्वादिसम्पूर्णवर्गयुक्तस्य शैलराट् ॥ २३ ॥
कर्तुमेच्छद्वराचारं महोत्सवपुरःसरम् ।
महाहर्षयुतःसर्वबन्धुयुग्घिमशैलराट् ॥ २४ ॥
अथ ते गिरिपुत्राश्च तत्र गत्वा प्रणम्य तम् ।
सस्ववर्गं प्रार्थनान्तामूचुः शैलेश्वरस्य वै ॥ २५ ॥
ततस्ते स्वालयं जग्मुः शैलपुत्रास्तदाज्ञया ।
शैलराजाय सञ्चख्युः ते चायान्तीति हर्षिताः ॥ २६ ॥
अथ देवाः प्रार्थनान्तां गिरेः श्रुत्वातिहर्षिताः ।
मुने विष्ण्वादयः सर्वे सेश्वरा मुमुदुर्भृशम् ॥ २७ ॥
कृत्वा सुवेषं सर्वेपि निर्जरा मुनयो गणाः ।
गमनं चक्रुरन्येऽपि प्रभुणा गिरिराड्गृहम् ॥ २८ ॥
तस्मिन्नवसरे मेना द्रष्टुकामाभवच्छिवम् ।
प्रभोराह्वाययामास मुने त्वां मुनिसत्तमम् ॥ २९ ॥
अगमस्त्वं मुने तत्र प्रभुणा प्रेरितस्तदा ।
मनसा शिवहृद्धेतुं पूर्णं कर्तुं तमिच्छता ॥ ३० ॥
त्वां प्रणम्य मुने मेना प्राह विस्मितमानसा ।
द्रष्टुकामा प्रभो रूपं शंकरस्य मदापहम् ॥ ३१ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे देवगिरिमेलवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP