|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
एकचत्वारिंशोऽध्यायः
विवाहमण्डपं दृष्ट्वादेवानां मोहवर्णनम्
ब्रह्मोवाच
ततः सम्मन्त्र्य च मिथः प्राप्याज्ञां शाङ्करीं हरिः । मुने त्वां प्रेषयामास प्रथमं कुधरालयम् ॥ १ ॥ अथ प्रणम्य सर्वेशं गतस्त्वं नारदाग्रतः । हरिणा नोदितः प्रीत्या हिमाचलगृहं प्रति ॥ २ ॥ त्वं मुनेऽपश्य आत्मानं गत्वा तद्व्रीडयान्वितम् । कृत्रिमं रचितं तत्र विस्मितो विश्वकर्मणा ॥ ३ ॥ श्रान्तस्त्वमात्मना तेन कृत्रिमेण महामुने । अवलोकपरः सोऽभूच्चरितं विश्वकर्मणः ॥ ४ ॥ प्रविष्टो मण्डपं तस्य हिमाद्रे रत्नचित्रितम् । सुवर्णकलशैर्जुष्टं रम्भादिबहुशोभितम् ॥ ५ ॥ सहस्रस्तम्भसंयुक्तं विचित्रं परमाद्भुतम् । वेदिकां च तथा दृष्ट्वा विस्मयं त्वं मुने ह्ययाः ॥ ६ ॥ तदावोचश्च स मुने नारद त्वं नगेश्वरम् । विस्मितोऽतीव मनसि नष्टज्ञानो विमूढधीः ॥ ७ ॥ आगतास्ते किमधुना देवा विष्णुपुरोगमाः । तथा महर्षयः सर्वे सिद्धा उपसुरास्तथा ॥ ८ ॥ महादेवो वृषारूढो गणैश्च परिवारितः । आगतः किं विवाहार्थं वद तथ्यं नगेश्वर ॥ ९ ॥ ब्रह्मोवाच इत्येवं वचनं श्रुत्वा तव विस्मित चेतसः । उवाच त्वां मुने तथ्यं वाक्यं स हिमवान् गिरिः ॥ १० ॥ हिमवानुवाच हे नारद महाप्राज्ञागतो नैवाधुना शिवः । विवाहार्थं च पार्वत्याः सगणः सवरातकः ॥ ११ ॥ विश्वकर्मकृतं चित्रं विद्धि नारद सद्धिया । विस्मयं त्यज देवर्षे स्वस्थो भव शिवं स्मर ॥ १२ ॥ भुक्त्वा विश्रम्य सुप्रीतः कृपां कृत्वा ममोपरि । मैनाकादिधरैः सार्द्धं गच्छ त्वं शंकरान्तिकम् ॥ १३ ॥ एभिःसमेतो गिरिभिर्महामते सम्प्रार्थ्य शीघ्रं शिवमत्र चानय । देवैःसमेतं च महर्षिसङ्घैः सुरासुरैरर्चितपादपल्लवम् ॥ १४ ॥ ब्रह्मोवाच तथेति चोक्त्वागम आशु हि त्वं सदैव तैः शैलसुतादिभिश्च । तत्रत्यकृत्यं सुविधाय भुक्त्वा महामनास्त्वं शिवसन्निधानम् ॥ १५ ॥ तत्र दृष्टो महादेवो देवादिपरिवारितः । नमस्कृतस्त्वया दीप्तः शैलैस्तैर्भक्तितश्च वै ॥ १६ ॥ तदा मया विष्णुना च सर्वे देवाः सवासवाः । पप्रच्छुस्त्वां मुने सर्वे रुद्रस्यानुचरास्तथा ॥ १७ ॥ विस्मिताः पर्वतान्दृष्ट्वा सन्देहाकुलमानसाः । मैनाकसह्यमेर्वाद्यान्नानालङ्कारसंयुतान् ॥ १८ ॥ देवा ऊचुः हे नारद महाप्राज्ञ विस्मितस्त्वं हि दृश्यसे । सत्कृतोऽसि हिमागेन किं न वा वद विस्तरात् ॥ १९ ॥ एते कस्मात्समायाताः पर्वता इह सत्तमाः । मैनाकसह्यमेर्वाद्याः सुप्रतापाः स्वलङ्कृताः ॥ २० ॥ कन्यां दास्यति शैलोऽसौ शंभवे वा न नारद । हिमालयगृहे तात किं भवत्यद्य तद्वद ॥ २१ ॥ इति सन्दिग्धमनसामस्माकं च दिवौकसाम् । वद त्वं पृच्छमानानां सन्देहं हर सुव्रत ॥ २२ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तेषां विष्ण्वादीनान्दिवौकसाम् । अवोचस्तान्मुने त्वं हि विस्मितस्त्वाष्ट्रमायया ॥ २३ ॥ एकान्तमाश्रित्य च मां हि विष्णु- मभाषथा वाक्यमिदं मुने त्वम् । शचीपतिं सर्वसुरेश्वरं वै पक्षाच्छिदं पूर्वरिपुन्धराणाम् ॥ २४ ॥ नारद उवाच त्वष्ट्रा कृतन्तद्विकृतं विचित्रं विमोहनं सर्वदिवौकसां हि । येनैव सर्वान्स विमोहितुं सुरान् समिच्छति प्रेमत एव युक्त्या ॥ २५ ॥ पुरा कृतं तस्य विमोहनं त्वया सुविस्मृतं तत् सकलं शचीपते । तस्मादसौ त्वां विजिगीषुरेव गृहे ध्रुवं तस्य गिरेर्महात्मनः ॥ २६ ॥ अहं विमोहितस्तेन प्रतिरूपेण भास्वता । तथा विष्णुः कृतस्तेन ब्रह्मा शक्रोऽपि तादृशः ॥ २७ ॥
किं बहूक्तेन देवेश सर्वदेवगणाः कृताः । कृत्रिमाश्चित्ररूपेण न किञ्चिदवशेषितम् ॥ २८ ॥ विमोहनार्थं सर्वेषां देवानां च विशेषतः । कृता माया चित्रमयी परिहासविकारिणी ॥ २९ ॥ ब्रह्मोवाच तच्छ्रुत्वा वचनं तस्य देवेन्द्रो वाक्यमब्रवीत् । विष्णुम्प्रति तदा शीघ्रं भयाकुलतनुर्हरिम् ॥ ३० ॥ देवेन्द्र उवाच देवदेव रमानाथ त्वष्टा मां निहनिष्यति । पुत्रशोकेन तप्तोऽसौ व्याजेनानेन नान्यथा ॥ ३१ ॥ ब्रह्मोवाच तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः । उवाच प्रहसन् वाक्यं शक्रमाश्वासयंस्तदा ॥ ३२ ॥ विष्णुरुवाच निवातकवचैः पूर्वं मोहितोऽसि शचीपते । महाविद्याबलेनैव दानवैः पूर्ववैरिभिः ॥ ३३ ॥ पर्वतो हिमवानेष तथान्येऽखिलपर्वताः । विपक्षा हि कृताः सर्वे मम वाक्याच्च वासव ॥ ३४ ॥ तेनुस्मृत्या तु वै दृष्ट्वा मायया गिरयो ह्यमी । जेतुमिच्छन्तु ये मूढा न भेतव्यमरावपि ॥ ३५ ॥ ईश्वरो नो हि सर्वेषां शंकरो भक्तवत्सलः । सर्वथा कुशलं शक्र करिष्यति न संशयः ॥ ३६ ॥ ब्रह्मोवाच एवं संवदमानं तं शक्रं विकृतमानसम् । हरिणोक्तश्च गिरिशो लौकिकीं गतिमाश्रितः ॥ ३७ ॥ ईश्वर उवाच हे हरे हे सुरेशान किं ब्रूथोऽद्य परस्परम् । इत्युक्त्वा तौ महेशानो मुने त्वाम्प्रत्युवाच सः ॥ ३८ ॥ किंनु वक्ति महाशैलो यथार्थं वद नारद । वृत्तान्तं सकलं ब्रूहि न गोप्यं कर्तुमर्हसि ॥ ३९ ॥ ददाति वा नैव ददाति शैलः सुतां स्वकीयां वद तच्च शीघ्रम् । किन्ते दृष्टं किं कृतन्तत्र गत्वा प्रीत्या सर्वं तद्वदाश्वद्य तात ॥ ४० ॥ ब्रह्मोवाच हत्युक्तः शम्भुना तत्र मुने त्वन्देवदर्शनः । सर्वं रहस्यवोचो वै यद् दृष्टं तत्र मण्डपे ॥ ४१ ॥ नारद उवाच देवदेव महादेव शृणु मद्वचनं शुभम् । नास्ति विघ्नभयं नाथ विवाहे किञ्चिदेव हि ॥ ४२ ॥ अवश्यमेव शैलेशस्तुभ्यं दास्यति कन्यकाम् । त्वामानयितुमायाता इमे शैला न संशयः ॥ ४३ ॥ किन्तु ह्यमरमोहार्थं माया विरचिताद्भुता । कुतूहलार्थं सर्वज्ञ न कश्चिद्विघ्नसम्भवः ॥ ४४ ॥ विचित्रं मण्डपं गेहेऽकार्षीत्तस्य तदाज्ञया । विश्वकर्मा महामायी नानाश्चर्यमयं विभो ॥ ४५ ॥ सर्वदेवसमाजश्च कृतस्तत्र विमोहनः । तं दृष्ट्वा विस्मयं प्राप्तोहं तन्मायाविमोहितः ॥ ४६ ॥ ब्रह्मोवाच तच्छ्रुत्वा तद्वचस्तात लोकाचारकरः प्रभुः । हर्षादीन्प्रहसन् शम्भुरुवाच सकलान्सुरान् ॥ ४७ ॥ ईश्वर उवाच कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमाचलः । मायया मम किं कार्यं वद विष्णो यथातथम् ॥ ४८ ॥ हे ब्रह्मन् शक्र मुनयः सुरा ब्रूत यथार्थतः । मायया मम किं कार्यं कन्यां दास्यति चेद्गिरिः ॥ ४९ ॥ केनाप्युपायेन फलं हि साध्य- मित्युच्यते पण्डितैर्न्यायविद्भिः । तस्मात्सर्वैर्गम्यतां शीघ्रमेव कार्यार्थिभिर्विष्णुपुरोगमैश्च ॥ ५० ॥ ब्रह्मोवाच एवं संवदमानोऽसौ देवैः शम्भुरभूत्तदा । कृतः स्मरेणैव वशी वशं वा प्राकृतो नरः ॥ ५१ ॥ अथ शम्भ्वाज्ञया सर्वे विष्ण्वाद्या निर्जरास्तदा । ऋषयश्च महात्मानो ययुर्मोहभ्रमावहम् ॥ ५२ ॥ पुरस्कृत्य मुने त्वां च पर्वतांस्तान्सविस्मयाः । हिमाद्रेश्च तदा जग्मुर्मन्दिरं परमाद्भुतम् ॥ ५३ ॥ अथ विष्ण्वादिसंयुक्तो मुदितैःस्वबलैर्युतः । आजगामोपहैमागपुरं प्रमुदितो हरः ॥ ५४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपरचनावर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥ श्रीगौरीशंकरार्पणमस्तु |