॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

चत्वारिंशोऽध्यायः

हिमगिरिगृहेशिवस्यागमनवर्णनम्


ब्रह्मोवाच
अथ शम्भुः समाहूय नन्द्यादीन् सकलान्गणान् ।
आज्ञापयामास मुदा गन्तुं स्वेन च तत्र वै ॥ १ ॥
शिव उवाच
अपि यूयं सह मया सङ्‌गच्छध्वं गिरेः पुरम् ।
कियद्‌गणानिहास्थाप्य महोत्सवपुरःसरम् ॥ २ ॥
ब्रह्मोवाच
अथ ते समनुज्ञप्ता गणेशा निर्ययुर्मुदा ।
स्वं स्वं बलमुपादाय तान् कथञ्चिद्वदाम्यहम् ॥ ३ ॥
अभ्यगाच्छङ्‌खकर्णश्च गणकोट्या गणेश्वरः ।
शिवेन सार्द्धं सङ्‌गन्तुं हिमाचलपुरं प्रति ॥ ४ ॥
दशकोट्या केकराक्षो गणानां समहोत्सवः ।
अष्टकोट्या च विकृतो गणानां गणनायकः ॥ ५ ॥
चतुष्कोट्या विशाखश्च गणानां गणनायकः ।
पारिजातश्च नवभिः कोटिभिर्गणपुङ्‌गवः ॥ ६ ॥
षष्टिः सर्वान्तकः श्रीमान् तथैव विकृताननः ।
गणानान्दुन्दुभोऽष्टाभिः कोटिभिर्गणनायकः ॥ ७ ॥
पञ्चभिश्च कपालाख्यो गणेशः कोटिभिस्तथा ।
षड्भिःसन्दारको वीरो गणानां कोटिभिर्मुने ॥ ८ ॥
कोटिकोटिभिरेवेह कन्दुकः कुण्डकस्तथा ।
विष्टम्भो गणपोऽष्टाभिर्गणानां कोटिभिस्तथा ॥ ९ ॥
सहस्रकोट्या गणपः पिप्पलो मुदितो ययौ ।
तथा सनादको वीरो गणेशो मुनिसत्तम ॥ १० ॥
आवेशनस्तथाष्टाभिः कोटिभिर्गणनायकः ।
महाकेशः सहस्रेण कोटीनां गणपो ययौ ॥ ११ ॥
कुण्डो द्वादशकोट्या हि तथा पर्वतको मुने ।
अष्टाभिः कोटिभिर्वीरःसमगाच्चन्द्रतापनः ॥ १२ ॥
कालश्च कालकश्चैव महाकालः शतेन वै ।
कोटीनां गणनाथो हि तथैवाग्निकनामकः ॥ १३ ॥
कोट्यग्निमुख एवागाद् गणानां गणनायकः ।
आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ॥ १४ ॥
सन्नाहः शतकोट्या हि कुमुदो गणपस्तथा ।
अमोघः कोकिलश्चैव शतकोट्या गणाधिपः ॥ १५ ॥
सुमन्त्रः कोटिकोट्या च गणानां गणानायकः ।
काकपादोदरः कोटिषष्ट्या सन्तानकस्तथा ॥ १६ ॥
महाबलश्च नवभिर्मधुपिङ्‌गश्च कोकिलः ।
नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ १७ ॥
सप्तकोट्या चतुर्वक्त्रः करणो विंशकोटिभिः ।
ययौ नवतिकोट्या तु गणेशानोऽहिरोमकः ॥ १८ ॥
यज्वाक्षः शतमन्युश्च मेघमन्युश्च नारद ।
तावत्कोट्या ययुः सर्वे गणेशा हि पृथक् पृथक् ॥ १९ ॥
काष्ठाङ्‌गुष्ठश्चतुष्षष्ट्या कोटीनां गणनायकः ।
विरूपाक्षः सुकेशश्च वृषभश्च सनातनः ॥ २० ॥
तालकेतुः षडास्यश्च चञ्च्वास्यश्च सनातनः ।
संवर्तकस्तथा चैत्रो लकुलीशः स्वयम्प्रभुः ॥ २१ ॥
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ।
देवो भृङ्‌गिरिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २२ ॥
अशनिर्भानुकश्चैव चतुष्षष्ट्या सहस्रशः ।
ययुः शिवविवाहार्थं शिवेन सहसोत्सवाः ॥ २३ ॥
भूतकोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः ।
वीरभद्रश्चतुःषष्ट्या रोमजानान्त्रिकोटिभिः ॥ २४ ॥
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृताः ।
तत्र जग्मुश्च नन्द्याद्या गणपाः शंकरोत्सवे ॥ २५ ॥
क्षेत्रपालो भैरवश्च कोटिकोटिगणैर्युतः ।
उद्वाहः शंकरस्येत्याययौ प्रीत्या महोत्सवः ॥ २६ ॥
एते चान्ये च गणपा असङ्ख्याता महाबलाः ।
तत्र जग्मुर्महाप्रीत्या सोत्साहाः शंकरोत्सवे ॥ २७ ॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।
चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ २८ ॥
रुद्राक्षाभरणाःसर्वे तथा सद्‌भस्मधारिणः ।
हारकुण्डलकेयूरमुकुटाद्यैरलङ्‌कृताः ॥ २९ ॥
ब्रह्मविष्ण्विन्द्रसङ्‌काशा अणिमादिगुणैर्युताः ।
सूर्यकोटिप्रतीकाशास्तत्र रेजुर्गणेश्वराः ॥ ३० ॥
पृथिवीचारिणः केचित् केचित्पातालचारिणः ।
केचिद्‌व्योमचराः केचित्सप्तस्वर्गचरा मुने ॥ ३१ ॥
किं बहूक्तेन देवर्षे सर्वलोकनिवासिनः ।
आययुःस्वगणाः शम्भोः प्रीत्या वै शङ्करोत्सवे ॥ ३२ ॥
इत्थं देवैर्गणैश्चान्यैःसहितः शङ्करः प्रभुः ।
ययौ हिमगिरिपुरं विवाहार्थं निजस्य वै ॥ ३३ ॥
यदाजगाम सर्वेशो विवाहार्थे सुरादिभिः ।
तदा तत्र ह्यभूद्वृत्तं तच्छृणु त्वं मुनीश्वर ॥ ३४ ॥
रुद्रस्य भगिनी भूत्वा चण्डी सूत्सवसंयुता ।
तत्राजगाम सुप्रीत्या परेषां सुभयावहा ॥ ३५ ॥
प्रेतासनसमारूढा सर्पाभरणभूषिता ।
पूर्णं कलशमादाय हैमं मूर्ध्नि महाप्रभम् ॥ ३६ ॥
स्वपरीवारसंयुक्ता दीप्तास्या दीप्तलोचना ।
कुतूहलं प्रकुर्वन्ती जातहर्षा महाबला ॥ ३७ ॥
तत्र भूतगणा दिव्या विरूपाः कोटिशो मुने ।
विराजन्ते स्म बहुशस्तथा नानाविधास्तदा ॥ ३८ ॥
तैःसमेताग्रतश्चण्डी जगाम विकृतानना ।
कुतूहलान्विता प्रीता प्रीत्युपद्रवकारिणी ॥ ३९ ॥
चण्ड्या सर्वे रुद्रगणाः पृष्ठतश्च कृतास्तदा ।
कोट्येकादशसङ्‌ख्याका रौद्ररुद्रप्रियाश्च ते ॥ ४० ॥
तदा डमरुनिर्घोषैर्व्याप्तमासीज्जगत्त्रयम् ।
भेरीझङ्‌कारशब्देन शङ्‌खानां निनदेन च ॥ ४१ ॥
तथा दुन्दुभिनिर्घोषैः शब्दः कोलाहलोऽभवत् ।
कुर्वञ्जगन्मंगलं च नाशयेन्मंगलेतरत् ॥ ४२ ॥
गणानां पृष्ठतो भूत्वा सर्वे देवाःसमुत्सुकाः ।
अन्वयुःसर्वसिद्धाश्च लोकपालादिका मुने ॥ ४३ ॥
मध्ये व्रजन् रमेशोऽथ गरुडासनमाश्रितः ।
शुशुभे ध्रियमाणेन क्षत्रेण महता मुने ॥ ४४ ॥
चामरैर्वीज्यमानोऽसौ स्वगणैः परिवारितः ।
पार्षदैर्विलसद्‌भिश्च स्वभूषाविधिभूषितः ॥ ४५
तथाहमप्यशोभं वै व्रजन्मार्गे विराजितः ।
वेदैर्मूर्तिधरैः शास्त्रैः पुराणैरागमैस्तथा ॥ ४६ ॥
सनकादिमहासिद्धैः सप्रजापतिभिः सुतैः ।
परिवारैः संयुतो हि शिवसेवनतत्परः ॥ ४७ ॥
स्वसैन्यमध्यगः शक्र ऐरावतगजस्थितः ।
नानाविभूषितोऽत्यन्तं व्रजन् रेजे सुरेश्वरः ॥ ४८ ॥
तदा तु व्रजमानास्ते ऋषयो बहवश्च ते ।
विरेजुरतिसोत्कण्ठः शिवस्योद्वाहनं प्रति ॥ ४९ ॥
शाकिन्यो यातुधानाश्च वेतालाब्रह्मराक्षसाः ।
भूतप्रेतपिशाचाश्च तथान्ये प्रमथादयः ॥ ५० ॥
तुम्बुरुर्नारदो हाहहूहूश्चेत्यादयो वराः ।
गन्धर्वाः किन्नरा जग्मुर्वाद्यानाध्माय हर्षिताः ॥ ५१ ॥
जगतो मातरः सर्वा देवकन्याश्च सर्वशः ।
गायत्री चैव सावित्री लक्ष्मीरन्याः सुरस्त्रियः ॥ ५२ ॥
एताश्चान्याश्च देवानां पत्नयो भवमातरः ।
उद्वाहः शंकरस्येति जग्मुःसर्वा मुदान्विताः ॥ ५३ ॥
शुद्धस्फटिकसङ्‌काशो वृषभः सर्वसुन्दरः ।
यो धर्म उच्यते वेदैः शास्त्रैःसिद्धमहर्षिभिः ॥ ५४ ॥
तमारूढो महादेवो वृषभं धर्मवत्सलः ।
शुशुभेतीव देवर्षिसेवितः सकलैर्व्रजन् ॥ ५५ ॥
एभिःसमेतैःसफलैमहर्षिभि-
     र्बभौ महेशो बहुशोऽत्यलङ्‌कृतः ।
हिमालयाह्वस्य धरस्य संव्रजन्
     पाणिग्रहार्थं सदनं शिवायाः ॥ ५६ ॥
इत्युक्तं शम्भुचरितं गमनं परमोत्सवम् ।
हिमालयपुरोद्‌भूतं सद्वृत्तं शृणु नारद ॥ ५७ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
तृतीये पार्वतीखण्डे यात्रावर्णनं नाम चत्वारिशोऽध्यायः ॥ ४० ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP