॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

त्रिचत्वारिंशोऽध्यायः

मेनामोहनाय शिवकृताद्भुतलीलावर्णनम्


मेनोवाच
निरीक्षिष्यामि प्रथमं मुने तं गिरिजापतिम् ।
कीदृशं शिवरूपं हि यदर्थे तप उत्तमम् ॥ १ ॥
ब्रह्मोवाच
इत्यज्ञानपरा सा च दर्शनार्थं शिवस्य च ।
त्वया मुने समं सद्यश्चन्द्रशालां समागता ॥ २ ॥
शिवोऽपि च तदा तस्यां ज्ञात्वाहङ्‌कारमात्मनः ।
प्राह विष्णुं च मां तात लीलाकृत्वाद्‌भुतां प्रभुः ॥ ३ ॥
शिव उवाच
मदाज्ञया युवां तातौ सदेवौ च पृथक्पृथक् ।
गच्छतं हि गिरिद्वारं वयं पश्चाद्व्रजेमहि ॥ ४ ॥
ब्रह्मोवाच
इत्याकर्ण्य हरिः सर्वानाहूयोवाच तन्मयाः ।
सुराःसर्वे तथैवाशु गमनं चक्रुरुत्सुकाः ॥ ५ ॥
स्थितां शिरोगृहे मेनां मुने विश्वेश्वरस्त्वया ।
तथैव दर्शयामास हृद्‌विभ्रंशो यथा भवेत् ॥ ६ ॥
एतस्मिन्समये मेना सेनां च परमां शुभाम् ।
निरीक्षन्ती मुने दृष्ट्‍वा सामान्यं हर्षिताऽभवत् ॥ ७ ॥
प्रथमं चैव गन्धर्वाः सुन्दराः सुभगास्तदा ।
आयाताः शुभवस्त्राढ्या नानालङ्‌कारभूषिताः ॥ ८ ॥
नानावाहनसंयुक्ता नानावाद्यपरायणाः ।
पताकाभिर्विचित्राभिरप्सरोगणसंयुताः ॥ ९ ॥
अथ दृष्ट्‍वा वसुं तत्र तत्पतिं परमप्रभुम् ।
मेना प्रहर्षिता ह्यासीच्छिवोऽयमिति चाब्रवीत् ॥ १० ॥
शिवस्य गणका एते न शिवोयं शिवापतिः ।
इत्येवं त्वं ततस्तां वै अवोच ऋषिसत्तम ॥ ११ ॥
एवं श्रुत्वा तदा मेना विचारे तत्पराऽभवत् ।
इतश्चाभ्यधिको यो वै स च कीदृग्भविष्यति ॥ १२ ॥
एतस्मिन्नन्तरे यक्षा मणिग्रीवादयश्च ये ।
तेषां सेना तया दृष्टा शोभादि द्विगुणीकृता ॥ १३ ॥
तत्पतिं च मणिग्रीवं दृष्ट्‍वा शोभान्वितं हि सा ।
अयं रुद्रः शिवास्वामी मेना प्राहेति हर्षिता ॥ १४ ॥
नायं रुद्रः शिवास्वामी सेवकोयं शिवस्य वै ।
इत्यवोचोऽगपत्न्यै त्वं तावद्‌वह्निः स आगतः ॥ १५ ॥
ततोऽपि द्विगुणां शोभां दृष्ट्‍वा तस्य च साब्रवीत् ।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ १६ ॥
तावद्यमः समायातः ततोऽपि द्विगुणप्रभः ।
तं दृष्ट्‍वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ १७ ॥
नेति त्वमब्रवीस्तां वै तावन्निर्ऋतिरागतः ।
बिभ्राणो द्विगुणां शोभां शुभः पुण्यजनप्रभुः ॥ १८ ॥
तं दृष्ट्‍वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ।
नेति त्वमब्रवीस्तां वै तावद्वरुण आगतः ॥ १९ ॥
ततोऽपि द्विगुणां शोभां दृष्ट्‍वा तस्य च साब्रवीत् ।
रुद्रोऽयं गिरिजास्वामी तद्वा नेति त्वमब्रवीः ॥ २० ॥
तावद्वायुः समायातः ततोऽपि द्विगुणप्रभः ।
तं दृष्ट्‍वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ २१ ॥
नेति त्वमब्रवीस्तां वै तावद्धनद आगतः ।
ततोऽपि द्विगुणां शोभां बिभ्राणो गुह्यकाधिपः ॥ २२ ॥
तं दृष्ट्‍वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ।
नेति त्वमब्रवीस्तां वै तावदीशान आगतः ॥ २३ ॥
ततोऽपि द्विगुणां शोभां दृष्ट्‍वा तस्य च साब्रवीत् ।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ २४ ॥
तावदिन्द्रः समायातः ततोऽपि द्विगुणप्रभः ।
सर्वामरवरो नानादिव्यभस्त्रिदिवेश्वरः ॥ २५ ॥
तं दृष्ट्‍वा शंकरः सोऽयमिति सा प्राह मेनका ।
शक्रः सुरपतिश्चायं स नेति त्वं तदाब्रवीः ॥ २६ ॥
तावच्चन्द्रः समायातः शोभा तद्‌द्विगुणा दधत् ।
दृष्ट्‍वा तं प्राह रुद्रोऽयं तां तु नेति त्वमब्रवीः ॥ २७ ॥
तावत्सूर्यः समायातः शोभा तद्‌द्विगुणा दधत् ।
दृष्ट्‍वा तं प्राह सा सोयं तां तु नेति त्वमब्रवीः ॥ २८ ॥
तावत्समागतास्तत्र भृग्वाद्याश्च मुनीश्वराः ।
तेजसो राशयः सर्वे स्वशिष्यगणसंयुताः ॥ २९ ॥
तन्मध्ये चैव वागीशं दृष्ट्‍वा सा प्राह मेनका ।
रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ ३० ॥
तावद्‌ब्रह्मा समायातः तेजसां राशिरुत्तमः ।
सर्षिवर्यसुतः साक्षाद्धर्मपुञ्ज इव स्तुतः ॥ ३१ ॥
दृष्ट्‍वा मां तं तदा मेना महाहर्षवती मुने ।
सोऽयं शिवापतिः प्राह तां तु नेति त्वमब्रवीः ॥ ३२ ॥
एतस्मिन्नन्तरे तत्र विष्णुर्देवः समागतः ।
सर्वशोभान्वितः श्रीमान्मेघश्यामश्चतुर्भुजः ॥ ३३ ॥
कोटिकन्दर्प्यलावण्यः पीताम्बरधरः स्वराट् ।
राजीवलोचनः शान्तः पक्षीन्द्रवरवाहनः ॥ ३४ ॥
शङ्‌खादिलक्षणैर्युक्तो मुकुटादिविभूषितः ।
श्रीवत्सवक्षा लक्ष्मीशो ह्यप्रमेय प्रभान्वितः ॥ ३५ ॥
तं दृष्ट्‍वा चकिताक्ष्यासीन्महाहर्षेण साब्रवीत् ।
सोऽयं शिवापतिः साक्षाच्छिवो वै नात्र संशयः ॥ ३६ ॥
अथ त्वं मेनकावाक्यमाकर्ण्योवाच ऊतिकृत् ।
नायं शिवापतिरयं किन्त्वयं केशवो हरिः ॥ ३७ ॥
शंकराखिलकार्यस्य ह्यधिकारी च तत्प्रियः ।
अतोऽधिको वरो ज्ञेयःस शिवः पार्वतीपतिः ॥ ३८ ॥
तच्छोभां वर्णितुं मेने मया नैव हि शक्यते ।
स एवाखिलब्रह्माण्डपतिः सर्वेश्वरः स्वराट् ॥ ३९ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य मेना मेने च तां शुभाम् ।
महाधनां भाग्यवतीं कुलत्रयसुखावहाम् ॥ ४० ॥
उवाच च प्रसन्नास्या प्रीतियुक्तेन चेतसा ।
स्वभाग्यमधिकं चापि वर्णयन्ती मुहुर्मुहुः ॥ ४१ ॥
मेनोवाच
धन्याहं सर्वथा जाता पार्वत्या जन्मनाधुना ।
धन्यो गिरीश्वरोऽप्यद्य सर्वं धन्यतमं मम ॥ ४२ ॥
ये ये दृष्ट्‍वा मया देवा नायकाः सुप्रभान्विताः ।
एतेषां यः पतिः सोऽत्र पतिरस्या भविष्यति ॥ ४३ ॥
अस्याः किं वर्ण्यते भाग्यमपि वर्षशतैरपि ।
वर्णितुं शक्यते नैव तत्प्रभुप्राप्तिदर्शनात ॥ ४४ ॥
ब्रह्मोवाच
इत्यवादीच्च सा मेना प्रेमनिर्भरमानसा ।
तावत्समागतो रुद्रोऽद्‌भुतोतिकारकः प्रभुः ॥ ४५ ॥
अद्‌भुतात्मागणास्तात मेनागर्वापहारकाः ।
आत्मानं दर्शयन् मायानिर्लिप्तं निर्विकारकम् ॥ ४६ ॥
तमागतमभिप्रेत्य नारद त्वं मुने तदा ।
मेनामवोचः सुप्रीत्या दर्शयंस्तं शिवापतिम् ॥ ४७ ॥
नारद उवाच
अयं स शंकरः साक्षाद् दृश्यतां सुन्दरि त्वया ।
यदर्थे शिवया तप्तं तपोऽति विपिने महत् ॥ ४८ ॥
ब्रह्मोवाच
इत्युक्त्वा हर्षिता मेना तं ददर्श मुदा प्रभुम् ।
अद्‌भुताकृतिमीशानमद्‌भुतानुगमद्‌भुतम् ॥ ४९ ॥
तावदेव समायाता रुद्रसेना महाद्‌भुता ।
भूतप्रेतादिसंयुक्ता नानागणसमन्विता ॥ ५० ॥
वात्यारूपधराः केचित्पताकामर्मरस्वनाः ।
वक्रतुण्डास्तत्र केचिद्‌विरूपाश्चापरे तथा ॥ ५१ ॥
करालाः श्मश्रुलाः केचित्केचित्खञ्जा ह्यलोचनाः ।
दण्डपाशधराः केचित्केचिन्मुद्‌गरपाणयः ॥ ५२ ॥
विरुद्धवाहनाः केचिच्छृङ्‌गनादनिनादिनः ।
डमरोर्वादिनः केचित्केचिद्‌गोमुखवादिनः ॥ ५३ ॥
अमुखा विमुखाः केचित्केचिद्‌बहुमुखा गणाः ।
अकरा विकराः केचित्केचिद्‌ बहुकरा गणाः ॥ ५४ ॥
अनेत्रा बहुनेत्राश्च विशिराः कुशिरास्तथा ।
अकर्णा बहुकर्णाश्च नानावेषधरा गणाः ॥ ५५ ॥
इत्यादिविकृताकारा अनेके प्रबला गणाः ।
असङ्‌ख्यातास्तथा तात महावीरा भयङ्‌कराः ॥ ५६ ॥
अङ्‌गुल्या दर्शयँस्त्वं तां मुने रुद्रगणाँस्ततः ।
हरस्य सेवकान्पश्य हरं चापि वरानने ॥ ५७ ॥
असङ्‌ख्यातान् गणान् दृष्ट्‍वा भूतप्रेतादिकान् मुने ।
तत्क्षणादभवत्सा वै मेनका त्राससङ्‌कुला ॥ ५८ ॥
तन्मध्ये शंकरं चैव निर्गुणं गुणवत्तरम् ।
वृषभस्थं पञ्चवक्त्रं त्रिनेत्रं भूतिभूषितम् ॥ ५९ ॥
कपर्दिनं चन्द्रमौलिं दशहस्तं कपालिनम् ।
व्याघ्रचर्मोत्तरीयं च पिनाकवरपाणिनम् ॥ ६० ॥
शूलयुक्तं विरूपाक्षं विकृताकारमाकुलम् ।
गजचर्म वसानं हि वीक्ष्य त्रेसे शिवाप्रसूः ॥ ६१ ॥
चकितां कम्पसंयुक्तां विह्वलां विभ्रमद्धियम् ।
शिवोऽयमिति चाङ्‌गुल्या दर्शयंस्तां त्वमब्रवीः ॥ ६२ ॥
त्वदीयं तद्वचः श्रुत्वा वाताहतलता इव ।
सा पपात द्रुतं भूमौ मेना दुःखभरा सती ॥ ६३ ॥
किमिदं विकृतं दृष्ट्‍वा वञ्चिताहं दुराग्रहे ।
इत्युक्त्वा मूर्च्छिता तत्र मेनका साऽभवत्क्षणात् ॥ ६४ ॥
अथ प्रयत्नैर्विविधैः सखीभिरुपसेविता ।
लेभे सञ्ज्ञां शनैर्मेना गिरीश्वरप्रिया तदा ॥ ६५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे शिवाद्‌भुतलीलावर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP