|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
त्रयस्त्रिंशोऽध्यायः
गिरिसान्त्वनम्
ऋषय ऊचुः
जगत्पिता शिवः प्रोक्तो जगन्माता शिवा मता । तस्माद्देया त्वया कन्या शंकराय महात्मने ॥ १ ॥ एवं कृत्वा हिमगिरे सार्थकं ते भवेज्जनुः । जगद्गुरोर्गुरुस्त्वं हि भविष्यसि न संशयः ॥ २ ॥ ब्रह्मोवाच एवं वचनमाकर्ण्य सप्तर्षीणां मुनीश्वर । प्रणम्य तान्करौ बद्ध्वा गिरिराजोऽब्रवीदिदम् ॥ ३ ॥ हिमालय उवाच सप्तर्षयो महाभागा भवद्भिर्यदुदीरितम् । तत्प्रमाणीकृतं मे हि पुरैव गिरिशेच्छया ॥ ४ ॥ इदानीमेक आगत्य विप्रो वैष्णवधर्मवान् । शिवमुद्दिश्य सुप्रीत्या विपरीतं वचोऽब्रवीत् ॥ ५ ॥ तदारभ्य शिवामाता ज्ञानभ्रष्टा बभूव ह । सुताविवाहं रुद्रेण योगिना तेन नेच्छति ॥ ६ ॥ कोपागारमगात्सा हि सुतप्ता मलिनाम्बरा । कृत्वा महाहठं विप्रा बोध्यमानाऽपि नाबुधत् ॥ ७ ॥ अहं च ज्ञानविभ्रष्टो जातोहं सत्यमीर्यते । दातुं सुतां महेशाय नेच्छामि भिक्षुरूपिणे ॥ ब्रह्मोवाच इत्युक्त्वा शैलराजस्तु शिवमायाविमोहितः । तूष्णीं बभूव तत्रस्थो मुनीनां मध्यतो मुने ॥ ९ ॥ सर्वे सप्तर्षयस्ते हि शिवमायां प्रशस्य वै । प्रेषयामासुरथ तां मेनकां प्रत्यरुन्धतीम् ॥ १ ० ॥ अथ पत्युः समादाय निदेशं ज्ञानदा हि सा । जगामारुन्धती तूर्णं यत्र मेना च पार्वती ॥ ११ ॥ गत्वा ददर्श मेनां तां शयानां शोकमूर्च्छिताम् । उवाच मधुरं साध्वी सावधाना हितं वचः ॥ १२ ॥ अरुन्धत्युवाच उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती । आगता मुनयश्चापि सप्तायाताः कृपालवः ॥ १३ ॥ ब्रह्मोवाच अरुन्धतीस्वरं श्रुत्वा शीघ्रमुत्थाय मेनका । उवाच शिरसा नत्वा तां पद्मामिव तेजसा ॥ १४ ॥ मेनोवाच अहोऽद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् । वधूर्जगद्विधेः पत्नी वसिष्ठस्यागतेह वै ॥ १५ ॥ किमर्थमागता देवि तन्मे ब्रूहि विशेषतः । अहं दासीसमा ते हि ससुता करुणां कुरु ॥ १६ ॥ ब्रह्मोवाच इत्युक्त्वा मेनका साध्वी बोधयित्वा च तां बहु । तथागता च सुप्रीत्या सास्ते यत्रर्षयोऽपि ते ॥ १७ ॥ अथ शैलेश्वरं ते च बोधयामासुरादरात् । स्मृत्वा शिवपदद्वन्द्वं सर्वे वाक्यविशारदाः ॥ १८ ॥ ऋषय ऊचुः शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारणम् । शिवाय पार्वतीं देहि संहर्तुः श्वशुरो भव ॥ १९ ॥ अयाचितारं सर्वेशं प्रार्थयामास यत्नतः । तारकस्य विनाशाय ब्रह्मासम्बन्धकर्मणि ॥ २० ॥ नोत्सुको दारसंयोगे शंकरो योगिनां वरः । विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति ॥ २१ ॥ दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सा । हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति ॥ २२ ॥ ब्रह्मोवाच ऋषीणां वचनं श्रुत्वा प्रहस्य स हिमालयः । उवाच किञ्चिद्भीतस्तु परं विनयपूर्वकम् ॥ २३ ॥ हिमालय उवाच शिवस्य राजसामग्रीं न हि पश्यामि काञ्चन । कञ्चिदाश्रयमैश्वर्यं कं वा स्वजनबान्धवम् ॥ २४ ॥ नेच्छाम्यति विनिर्लिप्तयोगिने स्वां सुतामहम् । यूयं वेदविधातुश्च पुत्रा वदत निश्चितम् ॥ २५ ॥ वरायाननुरूपाय पिता कन्यां ददाति चेत् । कामान्मोहाद्भयाल्लोभात्स नष्टो नरकं यजेत् ॥ २६ ॥ न हि दास्याम्यहं कन्यामिच्छया शूलपाणये । यद्विधानं भवेद्योग्यमृषयस्तद्विधीयताम् ॥ २७ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्य हिमागस्य मुनीश्वर । प्रत्युवाच वसिष्ठस्तं तेषां वाक्यविशारद ॥ २८ ॥ वसिष्ठ उवाच शृणु शैलेश मद्वाक्यं सर्वथा ते हितावहम् । धर्माविरुद्धं सत्यश्च परत्रेह मुदावहम् ॥ २९ ॥ वचनं त्रिविधं शैल लौकिके वैदिकेऽपि च । सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा ॥ ३० ॥
असत्यमहितं पश्चात्साम्प्रतं श्रुतिसुन्दरम् । सुबुद्धिर्वक्ति शत्रुर्हि हितं नैव कदाचन ॥ ३१ ॥ आदावप्रीतिजनकं परिणामे सुखावहम् । दयालुर्धमशीलो हि बोधयत्येव बान्धवः ॥ ३२ ॥ श्रुतिमात्रात्सुधातुल्यं सर्वकालसुखावहम् । सत्यसारं हितकरं वचनं श्रेष्ठमीप्सितम् ॥ ३३ ॥ एवञ्च त्रिविधं शैल नीतिशास्त्रोदितं वचः । कथ्यतां त्रिषु मध्ये किं ब्रुवे वाक्यं त्वदीप्सितम् ॥ ३४ ॥ ब्राह्मसम्पद्विहीनश्च शंकरस्त्रिदशेश्वरः । तत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसः । ३५ ॥ ज्ञानानन्दस्येश्वरस्य ब्राह्मवस्तुषु का स्पृहा । गृही ददाति स्वसुतां राज्यसम्पत्तिशालिने ॥ ३६ ॥ कन्यकां दुःखिने दत्त्वा कन्याघाती भवेत्पिता । को वेद शंकरो दुःखी कुबेरो यस्य किङ्करः ॥ ३७ ॥ भ्रूभङ्गलीलया सृष्टिं स्रष्टुं हर्त्तुं क्षमो हि सः । निर्गुणः परमात्मा च परेशः प्रकृतेः परः ॥ ३८ ॥ यस्य च त्रिविधा मूर्त्तिर्विधातुः सृष्टिकर्मणि । सृष्टिस्थित्यन्तजननी ब्रह्मविष्णुहराभिधा ॥ ३९ ॥ ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत् । हरः कैलासनिलयः सर्वाः शिवविभूतयः ॥ ४० ॥ धत्ते च त्रिविधा मूर्तीः प्रकृतिः शिवसम्भवा । अंशेन लीलया सृष्टौ कलया बहुधा अपि ॥ ४१ ॥ मुखोद्भवा स्वयं वाणी वागधिष्ठातृदेवता । वक्षःस्थलोद्भवा लक्ष्मीः सर्वसम्पत्स्वरूपिणी ॥ ४२ ॥ शिवा तेजःसु देवानामाविर्भावं चकार सा । निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ ॥ ४३ ॥ प्राप कल्पान्तरे जन्म जठरे दक्षयोषितः । नाम्ना सती हरं प्राप दक्षस्तस्मै ददौ च ताम् ॥ ४४ ॥ देहं तत्याज योगेन श्रुत्वा सा भर्तृनिन्दनम् । साद्य त्वत्तस्तु मेनायां जज्ञे जठरतः शिवा ॥ ४५ ॥ शिवा शिवस्य पत्नीयं शैल जन्मनि जन्मनि । कल्पे कल्पे बुद्धिरूपा ज्ञानिनां जननी परा ॥ ४६ ॥ जायते स्म सदा सिद्धा सिद्धिदा सिद्धिरूपिणी । सत्या अस्थि चिताभस्म भक्त्या धत्ते हरः स्वयम् ॥ ४७ ॥ अतस्त्वं स्वेच्छया कन्यां देहि भद्रां हराय च । अथवा सा स्वयं कान्ता स्थाने यास्यत्यदास्यसि ॥ ४८ ॥ कृत्वा प्रतिज्ञां देवेशो दृष्ट्वा क्लेशमसङ्ख्यकम् । दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकः ॥ ४९ ॥ तामाश्वास्य वरं दत्त्वा जगाम निजमन्दिरम् । तत्प्रार्थनावशाच्छम्भुर्ययाचे त्वां शिवां गिरे ॥ ५० ॥ अङ्गीकृतं युवाभ्यां तच्छिवभक्तिरतात्मना । विपरीतमतिर्जाता वद कस्माद्गिरीश्वर ॥ ५१ ॥ तद्गत्वा प्रभुणा देव प्रार्थितेन त्वदन्तिकम् । प्रस्थापिता वयं शीघ्रं ह्यृषयः साप्यरुन्धती ॥ ५२ ॥ शिक्षयामो वयं त्वा हि दत्त्वा रुद्राय पार्वतीम् । एवङ्कृते महानन्दो भविष्यति गिरे तव ॥ ५३ ॥ शिवां शिवाय शैलेन्द्र स्वेच्छया चेन्न दास्यसि । भविता तद्विवाहोऽत्र भवितव्यबलेन हि ॥ ५४ ॥ वरं ददौ शिवायै स तपन्त्यै तात शंकरः । न हीश्वरप्रतिज्ञातं विपरीताय कल्पते ॥ ५५ ॥ अहो प्रतिज्ञा दुर्लङ्घ्या साधूनामीशवर्तिनाम् । सर्वेषां जगतां मध्ये किमीशस्य पुनर्गिरे ॥ ५६ ॥ एको महेन्द्रः शैलानां पक्षांश्चिच्छेद लीलया । पार्वती लीलया मेरोः शृङ्गभङ्गं चकार च ॥ ५७ ॥ एकार्थे नहि शैलेश नाश्याः सर्वा हि सम्पदः । एकं त्यजेत्कुलस्यार्थे श्रुतिरेषा सनातनी ॥ ५८ ॥ दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वर । ब्राह्मणाद्भयमापन्नो ररक्ष निजसम्पदम् ॥ ५९ ॥ तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः । ब्रह्मशापाद्विभीतञ्च गुरवो ज्ञातिसत्तमाः ॥ ६० ॥ शैलराज त्वमप्येव सुतां दत्त्वा शिवाय च । रक्ष सर्वान्बन्धुवर्गान्वशं कुरु सुरानपि ॥ ६१ ॥ ब्रह्मोवाच इत्याकर्ण्य वसिष्ठस्य वचनं स प्रहस्य च । पप्रच्छ नृपवार्त्ताञ्च हृदयेन विदूयता ॥ ६२ ॥ हिमालय उवाच कस्य वंशोद्भवो ब्रह्मन्ननरण्यो नृपश्चसः । सुतां दत्त्वा स च कथं ररक्षाखिलसम्पदः ॥ ६३ ॥ ब्रह्मोवाच इति श्रुत्वा वसिष्ठस्तु शैलवाक्यं प्रसन्नधीः । प्रोवाच गिरये तस्मै नृपवार्त्ता सुखावहाम् ॥ ६४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे गिरिसान्त्वनोनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥ श्रीगौरीशंकरार्पणमस्तु |