|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
चतुस्त्रिंशोऽध्यायः
अनरण्यचरितवर्णनम्
वसिष्ठ उवाच
मनोर्वंशोद्भवो राजा सोऽनरण्यो नृपेश्वर । इन्द्रसावर्णिसञ्ज्ञस्य चतुर्दशमितस्य हि ॥ १ ॥ अनरण्यो नृपश्रेष्ठः सप्तद्वीपमहीपतिः । शम्भुभक्तो विशेषेण मंगलारण्यजो बली ॥ २ ॥ भृगुं पुरोधसं कृत्वा शतं यज्ञांश्चकार सः । न स्वीचकार शक्रत्वं दीयमानं सुरैरपि ॥ ३ ॥ बभूवः शतपुत्राश्च राज्ञस्तस्य हिमालय । कन्यैका सुन्दरी नाम्ना पद्मा पद्मालया समा ॥ ४ ॥ यः स्नेहः पुत्रशतके कन्यायाञ्च ततोऽधिकः । नृपस्य तस्य तस्यां हि बभूव नगसत्तम ॥ ५ ॥ प्राणाधिका प्रियतमा महिष्यः सर्वयोषितः । नृपस्य पत्न्यः पञ्चासन् सर्वाः सौभाग्यसंयुता ॥ ६ ॥ सा कन्या यौवनस्था च बभूव स्वपितुर्गृहे । पत्रं प्रस्थापयामास सुवरानयनाय सः ॥ ७ ॥ एकदा पिप्पलादर्षिर्गर्न्तुं स्वाश्रममुत्सुकः । तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह ॥ ८ ॥ स्त्रीयुतं मग्नचित्तं च शृङ्गारे रससागरे । विहरन्तं महाप्रेम्णा कामशास्त्रविशारदम् ॥ ९ ॥ दृष्ट्वा तं मुनिशार्दूलः सकामः सम्बभूव सः । तपःस्वदत्तचित्तश्चाचिन्तयद्दारसङ्ग्रहम् ॥ १० ॥ एवंवृत्तस्य तस्यैव पिप्पलादस्य सन्मुनेः । कियत्कालो गतस्तत्र कामोन्मथितचेतसः ॥ ११ ॥ एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः । ददर्श पद्मां युवतीं पद्मामिव मनोरमाम् ॥ १२ ॥ केयं कन्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः । जना निवेदयाञ्चक्रुर्नत्वा शापनियन्त्रिताः ॥ १३ ॥ जना ऊचुः अनरण्यसुतेयं वै पद्मा नाम रमापरा । वरारोहा प्रार्थ्यमाना नृपश्रेष्ठैर्गुणालया ॥ १४ ॥ ब्रह्मोवाच तच्छ्रुत्वा स मुनिर्वाक्यं जनानां तथ्यवादिनाम् । चुक्षोभातीव मनसि तल्लिप्सुरभवच्च सः ॥ १५ ॥ मुनिः स्नात्वाभीष्टदेवं सम्पूज्य विधिवच्छिवम् । जगाम कामी भिक्षार्थमनरण्यसभां गिरे ॥ १६ ॥ राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः । मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥ १७ ॥ कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः । मौनी बभूव नृपतिः किञ्चिन्निर्वक्तुमक्षमः ॥ १८ ॥ मुनिर्ययाचे कन्यां स तां देहीति नृपेश्वर । अन्यथा भस्मसात्सर्वं करिष्यामि क्षणेन च ॥ १९ ॥ सर्वे बभूवुराच्छन्ना गणास्तत्तेजसा मुने । रुरोद राजा सगणो दृष्ट्वा विप्रं जरातुरम् ॥ २० ॥
महिष्यो रुरुदुःसर्वा इतिकर्त्तव्यताक्षमाः । मूर्च्छामाप महाराज्ञी कन्यामाता शुचाकुला ॥ २१ ॥ बभूवुस्तनयाः सर्वे शोकाकुलितमानसाः । सर्वं शोकाकुलं जातं नृपसम्बन्धि शैलप ॥ २२ ॥ एतस्मिन्नन्तरे प्राज्ञो द्विजो गुरुरनुत्तमः । पुरोहितश्च मतिमान् आागतो नृपसन्निधिम् ॥ २३ ॥ राजा प्रणम्य सम्पूज्य रुरोद च तयोः पुरः । सर्वं निवेदयाञ्चक्रे पप्रच्छोचितमाशु तत् ॥ २४ ॥ अथ राज्ञो गुरुर्विप्रः पण्डितश्च पुरोहितः । अपि द्वौ शास्त्रनीतिज्ञौ बोधयामासतुर्नृपम् ॥ २५ ॥ शोकाकुलांश्च महिषीर्नृपबालाँश्च कन्यकाम् । उत्तमा नीतिमादृत्य सर्वेषां हितकारिणीम् ॥ २६ ॥ गुरुपुरोधसावूचतुः शृणु राजन्महाप्राज्ञ वचो नौ सद्धितावहम् । मा शुचः सपरीवारः शास्त्रे कुरु मतिं सतीम् ॥ २७ ॥ अद्य वाब्ददिनान्ते वा दातव्या कन्यका नृप । पात्राय विप्रायान्यस्मै कस्मै चिद्वा विशेषतः ॥ २८ ॥ सत्पात्रं ब्राह्मणादन्यं न पश्यावो जगत्त्रये । सुतां दत्त्वा च मुनये रक्ष स्वां सर्वसम्पदम् ॥ २९ ॥ राजन्नेकनिमित्तेन सर्वसम्पद्विनश्यति । सर्वं रक्षति तं त्यक्त्वा विना तं शरणागतम् ॥ ३० ॥ वसिष्ठ उवाच राजा प्राज्ञवचः श्रुत्वा विलप्य च मुहुर्मुहुः । कन्यां सालङ्कृतां कृत्वा मुनीन्द्राय ददौ किल ॥ ३१ ॥ कान्तां गृहीत्वा स मुनिर्विवाह्य विधिवद्गिरे । पद्मां पद्मोपमां तां वै मुदितःस्वालयं ययौ ॥ ३२ ॥ राजा सर्वान्परित्यज्य दत्त्वा वृद्धाय चात्मजाम् । ग्लानिं चित्ते समाधाय जगाम तपसे वनम् ॥ ३३ ॥ तद्भार्यापि वनं याते प्राणनाथे तदा गिरे । भर्तुश्च दुहितुः शोकात्प्राणांस्तत्याज सुन्दरी ॥ ३४ ॥ पूज्याः पुत्राश्च भृत्याश्च मूर्च्छामापुर्नृपं विना । शुशुचुः श्वाससंयुक्ता ज्ञात्वा सर्वेपरे जनाः ॥ ३५ ॥ अनरण्यो वनं गत्वा तपस्तप्त्वाति शंकरम् । समाराध्य ययौ भक्त्या शिवलोकमनामयम् ॥ ३६ ॥ नृपस्य कीर्तिमान्नाम्ना ज्येष्ठपुत्रोथ धार्मिकः । पुत्रवत्पालयामास प्रजा राज्यं चकार ह ॥ ३७ ॥ इति ते कथितं शैलानरण्यचरितं शुभम् । कन्यां दत्त्वा यथारक्षद्वंशं चाप्यखिलं धनम् ॥ ३८ ॥ शैलराज त्वमप्येवं सुतां दत्त्वा शिवाय च । रक्ष सर्वकुलं सर्वान्वशान्कुरु सुरानपि ॥ ३९ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥ श्रीगौरीशंकरार्पणमस्तु |