॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

द्वात्रिंशोऽध्यायः

सप्तर्ष्यागमनम्


ब्रह्मोवाच
ब्राह्मणस्य वचः श्रुत्वा मेनोवाच हिमालयम् ।
शोकेन साश्रुनयना हृदयेन विदूयता ॥ १ ॥
मेनोवाच
शृणु शैलेन्द्र मद्वाक्यं परिणामे सुखावहम् ।
पृच्छ शैववरान्सर्वान्किमुक्तं ब्राह्मणेन ह ॥ २ ॥
निन्दाऽनेन कृता शम्भोर्वैष्णवेन द्विजन्मना ।
श्रुत्वा तां मे मनोऽतीव निर्विण्णं हि नगेश्वर ॥ ३ ॥
तस्मै रुद्राय शैलेश न दास्यामि सुतामहम् ।
कुरूपशीलनाम्ने हि सुलक्षणयुतां निजाम् ॥ ४ ॥
न मन्यसे वचो चेन्मे मरिष्यामि न संशयः ।
त्यक्ष्यामि च गृहं सद्यो भक्षयिष्यामि वा विषम् ॥ ५ ॥
गले बद्ध्वाम्बिकां रज्ज्वा यास्यामि गहनं वनम् ।
महाम्बुधौ मज्जयिष्ये तस्मै दास्यामि नो सुताम् ॥ ६ ॥
इत्युक्त्वाशु तथा गत्वा मेना कोपालयं शुचा ।
त्यक्त्वा हारं रुदन्ती सा चकार शयनं भुवि ॥ ७ ॥
एतस्मिन्नन्तरे तात शम्भुना सप्त एव ते ।
संस्मृता ऋषयः सद्यो विरहव्याकुलात्मना ॥ ८ ॥
ऋषयश्चैव ते सर्वे शम्भुना संस्मृता यदा ।
तदाऽऽजग्मुः स्वयं सद्यः कल्पवृक्षा इवापरे ॥ ९ ॥
अरुन्धती तथाऽऽयाता साक्षात्सिद्धिरिवापरा ।
तान्द्रष्ट्‍वा सूर्यसङ्‌काशान्विजहौ स्वजपं हरः ॥ १० ॥
स्थित्वाग्रे ऋषयः श्रेष्ठं नत्वा स्तुत्वा शिवं मुने ।
मेनिरे च तदात्मानं कृतार्थं ते तपस्विनः ॥ ११ ॥
ततो विस्मयमापन्ना नमस्कृत्य स्थिताः पुनः ।
प्रोचुः प्राञ्जलयस्ते वै शिवं लोकनमस्कृतम् ॥ १२ ॥
ऋषय ऊचुः
सर्वोत्कृष्टं महाराज सार्वभौम दिवौकसाम् ।
स्वभाग्यं वर्ण्यतेऽस्माभिः किं पुनःसकलोत्तमम् ॥ १३ ॥
तपस्तप्तं त्रिधा पूर्वं वेदाध्ययनमुत्तमम् ।
अग्नयश्च हुताः पूर्वं तीर्थानि विविधानि च ॥ १४ ॥
वाङ्मनःकायजं किञ्चित्पुण्यं स्मरणसम्भवम् ।
तत्सर्वं सङ्‌गतं चाद्य स्मरणानुग्रहात्तव ॥ १५ ॥
यो वै भजति नित्यं त्वां कृतकृत्यो भवेन्नरः ।
किं पुण्यं वर्ण्यते तेषां येषां च स्मरणं तव ॥ १६ ॥
सर्वोत्कृष्टा वयं जाताः स्मरणात्ते सदाशिव ।
मनोरथपथं नैव गच्छसि त्वं कथञ्चन ॥ १७ ॥
वामनस्य फलं यद्वज्जन्मान्धस्य दृशौ यथा ।
वाचालत्वञ्च मूकस्य रङ्‌कस्य निधिदर्शनम् ॥ १८ ॥
पङ्‌गोर्गिरिवराक्रान्तिर्वन्ध्यायाः प्रसवस्तथा ।
दर्शनं भवतस्तद्वज्जातं नो दुर्लभं प्रभो ॥ १९ ॥
अद्य प्रभृति लोकेषु मान्याः पूज्या मुनीश्वराः ।
जातास्ते दर्शनादेव स्वमुच्चैः पदमाश्रिताः ॥ २० ॥
अत्र किं बहुनोक्तेन सर्वथा मान्यतां गताः ।
दर्शनात्तव देवेश सर्वदेवेश्वरस्य हि ॥ २१ ॥
पूर्णानां किञ्च कर्तव्यमस्ति चेत्परमा कृपा ।
सदृशं सेवकानां तु देयं कार्यं त्वया शुभम् ॥ २२ ॥
ब्रह्मोवाच
इत्येवं वचनं श्रुत्वा तेषां शम्भुर्महेश्वरः ।
लौकिकाचारमाश्रित्य रम्यं वाक्यमुपाददे ॥ २३ ॥
शिव उवाच
ऋषयश्च सदा पूज्या भवन्तश्च विशेषतः ।
युष्माकं कारणाद्विप्राः स्मरणं च मया कृतम् ॥ २४ ॥
ममावस्था भवद्‌भिश्च ज्ञायते ह्युपकारिका ।
साधनीया विशेषेण लोकानां सिद्धिहेतवे ॥ २५ ॥
देवानां दुःखमुत्पन्नं तारकात्सुदुरात्मनः ।
ब्रह्मणा च वरौ दत्तः किं करोमि दुरासदः ॥ २६ ॥
मूर्तयोऽष्टौ च याः प्रोक्ता मदीयाः परमर्षयः ।
ताःसर्वा उपकाराय न तु स्वार्थाय तत्स्फुटम् ॥ २७ ॥
तथा च कर्तुकामोहं विवाहं शिवया सह ।
तया वै सुतपस्तप्तं दुष्करं परमर्षिभिः ॥ २८ ॥
तस्यै परं फलं देयमभीष्टं तद्धितावहम् ।
एतादृशः पणो मे हि भक्तानन्दप्रदः स्फुटम् ॥ २९ ॥
पार्वतीवचनाद्‌भिक्षुरूपो यातो गिरेर्गृहम् ।
अहं पावितवान्कालीं यतो लीलाविशारदः ॥ ३० ॥
मां ज्ञात्वा तौ परं ब्रह्म दम्पती परभक्तितः ।
दातुकामावभूतां च स्वसुतां वेदरीतितः ॥ ३१ ॥
देवप्रेरणयाऽहं वै कृतवानस्मि निन्दनम् ।
तदा स्वस्य च तद्‌भक्तिं विहन्तुं वैष्णवात्मना ॥ ३२ ॥
तच्छ्रुत्वा तौ सुनिर्विण्णो तद्धीनौ सम्बभूवतुः ।
स्वकन्यां नेच्छतो दातुं मह्यं हि मुनयोऽधुना ॥ ३३ ॥
तस्माद्‌भवन्तो गच्छन्तु हिमाचलगृहं ध्रुवम् ।
तत्र गत्वा गिरिवरं तत्पत्नीञ्च प्रबोधय ॥ ३४ ॥
कथनीयं प्रयत्नेन वचनं वेदसम्मितम् ।
सर्वथा करणीयं तद्यथा स्यात्कार्यमुत्तमम् ॥ ३५ ॥
उद्वाहं कर्तुमिच्छामि तत्पुत्र्या सह सत्तमाः ।
स्वीकृतस्तद्विवाहो मे वरो दत्तश्च तादृशः ॥ ३६ ॥
अत्र किं बहुनोक्तेन बोधनीयो हिमालयः ।
तथा मेना च बोद्धव्या देवानां स्याद्धितं यथा ॥ ३७ ॥
भवद्‌भिः कल्पितो यो वै विधिः स्यादधिकस्ततः ।
भवताञ्चैव कार्यं तु भवन्तः कार्यभागिनः ॥ ३८ ॥
ब्रह्मोवाच
इत्येवं वचनं श्रुत्वा मुनयस्तेऽमलाशयाः ।
आनन्दं लेभिरे सर्वे प्रभुणाऽनुग्रहीकृताः ॥ ३९ ॥
वयं धन्या अभूवँश्च कृतकृत्याश्च सर्वथा ।
वन्द्या याताश्च सर्वेषां पूजनीया विशेषतः ॥ ४० ॥
ब्रह्मणा विष्णुना यो वै वन्द्यः सर्वार्थसाधकः ।
सोस्मान्प्रेषयते प्रेष्यान्कार्ये लोकसुखावहे ॥ ४१ ॥
अयं वै जगतां स्वामी पिता सा जननी मता ।
अयं युक्तश्च सम्बन्धो वर्द्धतां चन्द्रवत्सदा ॥ ४२ ॥
ब्रह्मोवाच
इत्युक्त्वा ऋषयो दिव्या नमस्कृत्य शिवं तदा ।
गता आकाशमार्गेण यत्रास्ति हिमवत्पुरम् ॥ ४३ ॥
दृष्ट्‍वा तां च पुरं दिव्यामृषयस्तेऽतिविस्मिताः ।
वर्णयन्तश्च स्वं पुण्यमब्रुवन्वै परस्परम् ॥ ४४ ॥
ऋषय ऊचुः
पुण्यवन्तो वयं धन्या दृष्ट्वैतद्धिमवत्पुरम् ।
यस्मादेवंविधे कार्ये शिवेनैव नियोजिताः ॥ ४५ ॥
अलकायाश्च स्वर्गाच्च भोगवत्यास्तथा पुनः ।
विशेषेणामरावत्या दृश्य ते पुरमुत्तमम् ॥ ४६ ॥
सुगृहाणि सुरम्याणि स्फटिकैर्विविधैर्वरैः ।
मणिभिर्वा विचित्राणि रचितान्यङ्‌गणानि च ॥ ४७ ॥
सूर्यकान्ताश्च मणयश्चन्द्रकान्तास्तथैव च ।
गृहे गृहे विचित्राश्च वृक्षाः स्वर्गसमुद्‌भवाः ॥ ४८ ॥
तोरणानां तथा लक्ष्मीर्दृश्यते च गृहेगृहे ।
विविधानि विचित्राणि शुकहंसैर्विमानकैः ॥ ४९ ॥
वितानानि विचित्राणि चैलवत्तोरणैः सह ।
जलाशयान्यनेकानि दीर्घिका विविधाः स्थिताः ॥ ५० ॥
उद्यानानि विचित्राणि प्रसन्नैः पूजितान्यथ ।
नराश्च देवताः सर्वे स्त्रियश्चाप्सरसस्तथा ॥ ५१ ॥
कर्मभूमौ याज्ञिकाश्च पौराणाःस्वर्गकाम्यया ।
कुर्वन्ति ते वृथा सर्वे विहाय हिमवत्पुरम् ॥ ५२ ॥
यावन्न दृष्टमेतच्च तावत्स्वर्गपरा नराः ।
दृष्ट्रमेतद्यदा विप्राः किं स्वर्गेण प्रयोजनम् ॥ ५३ ॥
ब्रह्मोवाच
इत्येवमृषिवर्यास्ते वर्णयन्तः पुरञ्च तत् ।
गता हैमालयं सर्वे गृहं सर्वसमृद्धिमत् ॥ ५४ ॥
तान्द्रष्ट्‍वा सूर्यसङ्‌काशान् हिमवान्विस्मितोऽब्रवीत् ।
दूरादाकाशमार्गस्थान्मुनीन्सप्त सुतेजसः ॥ ५५ ॥
हिमवानुवाच
सप्तैते सूर्यसङ्‌काशाः समायान्ति मदन्तिके ।
पूजा कार्या प्रयत्नेन मुनीनां च मयाऽधुना ॥ ५६ ॥
वयं धन्या गृहस्थाश्च सर्वेषां सुखदायिनः ।
येषां गृहे समायान्ति महात्मानो यदीदृशाः ॥ ५७ ॥
ब्रह्मोवाच
एतस्मिन्नन्तरे चैवाकाशादेत्य भुवि स्थितान् ।
सन्मुखे हिमवान्दृष्ट्‍वा ययौ मानपुरःसरम् ॥ ५८ ॥
कृताञ्जलिर्नतस्कन्धः सप्तर्षीन्सुप्रणम्य सः ।
पूजां चकार तेषां वै बहुमानपुरःसरम् ॥ ५९ ॥
हिताःसप्तर्षयस्ते च हिमवन्तं नगेश्वरम् ।
गृहीत्वोचुः प्रसन्नास्या वचनं मंगलालयम् ॥ ६० ॥
यथाग्रतश्च तान्कृत्वा धन्या मम गृहाश्रमः ।
इत्युक्त्वासनमानीय ददौ भक्तिपुरःसरम् ॥ ६१ ॥
आसनेषूपविष्टेषु तदाज्ञप्तः स्वयं स्थितः ।
उवाच हिमवाँस्तत्र मुनीञ्ज्योतिर्मयास्तदा ॥ ६२ ॥
हिमालय उवाच
धन्यो हि कृतकृत्योहं सफलं जीवितं मम ।
लोकेषु दर्शनीयोऽहं बहुतीर्थसमो मतः ॥ ६३ ॥
यस्माद्‌भवन्तो मद्‌गेहमागता विष्णुरूपिणः ।
पूर्णानां भवतां कार्यं कृपणानां गृहेषु किम् ॥ ६४ ॥
तथापि किञ्चित्कार्यं च सदृशं सेवकस्य मे ।
कथनीयं सुदयया सफलं स्याज्जनुर्मम ॥ ६५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये
पार्वतीखण्डे सप्तर्ष्यागमनवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP