|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
एकत्रिंशोऽध्यायः
शिवमायावर्णनम्
ब्रह्मोवाच
तयोर्भक्तिं शिवे ज्ञात्वा परामव्यभिचारिणीम् । सर्वे शक्रादयो देवाश्चिचिन्तुरिति नारद ॥ १ ॥ देवा ऊचुः एकान्तभक्त्या शैलश्चेत्कन्यां तस्मै प्रदास्यति । ध्रुवं निर्वाणता सद्यः स प्राप्स्यति च भारते ॥ २ ॥ अनन्तरत्नाधारश्चेत्पृथ्वीं त्यक्त्वा प्रयास्यति । रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम् ॥ ३ ॥ स्थावरत्वं परित्यज्य दिव्यरूपं विधाय सः । कन्यां शूलभृते दत्त्वा शिवलोकं गमिष्यति ॥ ४ ॥ महादेवस्य सारूप्यं लप्स्यते नात्र संशयः । तत्र भुक्त्वा वरान्भोगांस्ततो मोक्षमवाप्स्यति ॥ ५ ॥ ब्रह्मोवाच इत्यालोच्य सुराःसर्वे कृत्वा चामन्त्रणं मिथः । प्रस्थापयितुमैच्छंस्ते गुरुं तत्र सुविस्मिताः ॥ ६ ॥ ततः शक्रादयो देवाःसर्वे गुरुनिकेतनम् । जग्मुः प्रीत्या सविनया नारद स्वार्थसाधकाः ॥ ७ ॥ गत्वा तत्र गुरुं नत्वा सर्वे देवाः सवासवाः । चक्रुर्निवेदनं तस्मै गुरवे वृत्तमादरात् ॥ ८ ॥ देवा ऊचुः गुरो हिमालयगृहं गच्छास्मत्कार्यसिद्धये । तत्र गत्वा प्रयत्नेन कुरु निन्दाञ्च शूलिनः ॥ ९ ॥ पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति । अनिच्छया सुतां दत्त्वा फलं तूर्णं लभिष्यति ॥ १० ॥ कालेनैवाधुना शैलमिदानीं भुवि तिष्ठतु । अनेकरत्नाधारं तं स्थापय त्वं क्षितौ गुरौ ॥ ११ ॥ ब्रह्मोवाच इति देववचः श्रुत्वा प्रददौ कर्णयोः करम् । न स्वीचकार स गुरुः स्मरन्नाम शिवेति च ॥ १२ ॥ अथ स्मृत्वा महादेवं बृहस्पतिरुदारधीः । उवाच देववर्यांश्च धिक्कृत्वा च पुनः पुनः ॥ १३ ॥ बृहस्पतिरुवाच सर्वे देवाः स्वार्थपराः परार्थध्वंसकारकाः । कृत्वा शंकरनिन्दा हि यास्यामि नरकं ध्रुवम् ॥ १४ ॥ कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः । सम्पादयेत्स्वाभिमतं शैलेन्द्रं प्रतिबोध्य च ॥ १५ ॥ अनिच्छया सुतां दत्त्वा सुखं तिष्ठतु भारते । तस्मै भक्त्या सुतां दत्त्वा मोक्षं प्राप्स्यति निश्चितम् ॥ १६ ॥ पश्चात्सप्तर्षयः सर्वे बोधयिष्यन्ति पर्वतम् । पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति ॥ १७ ॥ अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः । वृत्तं कथयत स्वं तत्स वः कार्यं करिष्यति ॥ १८ ॥ ब्रह्मोवाच तच्छ्रुत्वा ते समालोच्याजग्मुर्मम सभां सुराः । सर्वे निवेदयाञ्चक्रुर्नत्वा तद्गतमादरात् ॥ १९ ॥ देवानां तद्वचः श्रुत्वा शिवनिन्दाकरं तदा । वेदवक्ता विलप्याहं तानवोचं सुरान्मुने ॥ २० ॥ ब्रह्मोवाच नाहं कर्तुं क्षमो वत्साः शिवनिन्दां सुदुःसहाम् । संपद्विनाशरूपाञ्च विपदां बीजरूपिणीम् ॥ २१ ॥ सुरा गच्छत कैलासं सन्तोषयत शंकरम् । प्रस्थापयत तं शीघ्रं हिमालयगृहं प्रति ॥ २२ ॥ स गच्छेदुपशैलेशमात्मनिन्दां करोतु यै । परनिन्दाविनाशाय स्वनिन्दा यशसे मता ॥ २३ ॥ ब्रह्मोवाच श्रुत्वेति मद्वचो देवा मां प्रणम्य मुदा च ते । कैलासं प्रययुः शीघ्रं शैलानामधिपं गिरिम् ॥ २४ ॥ तत्र गत्वा शिवं दृष्ट्वा प्रणम्य नतमस्तकाः । सुकृताञ्जलयः सर्वे तुष्टुवुस्तं सुरा हरम् ॥ २५ ॥
देवा ऊचुः देवदेव महादेव करुणाकर शंकर । वयं त्वां शरणापन्नाः कृपां कुरु नमोऽस्तु ते ॥ २६ ॥ त्वं भक्तवत्सलः स्वामिन्भक्तकार्यकरः सदा । दीनोद्धरः कृपासिन्धुर्भक्तापद्विनिमोचकः ॥ २७ ॥ ब्रह्मोवाच इति स्तुत्वा महेशानं सर्वे देवाःसवासवाः । सर्वं निवेदयाञ्चक्रुस्तद्वृत्तं तत आदरात् ॥ २८ ॥ तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः । देवान् सुयापयामास तानाश्वास्य विहस्य सः ॥ २९ ॥ देवा मुमुदिरे सर्वे शीघ्रं गत्वा स्वमन्दिरम् । सिद्धं मत्वा स्वकार्यं हि प्रशंसन्तः सदाशिवम् ॥ ३० ॥ ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः । प्रययौ शैलभूपञ्च मायेशो निर्विकारवान् ॥ ३१ ॥ यदा शैलः सभामध्ये समुवास मुदान्वितः । बन्धुवर्गैः परिवृतः पार्वतीसहितः स्वयम् ॥ ३२ ॥ एतस्मिन्नन्तरे तत्र ह्याजगाम सदाशिवः । दण्डी छत्री दिव्यवासा बिभ्रत्तिलकमुज्ज्वलम् ॥ ३३ ॥ करे स्फटिकमालाञ्च शालग्रामं गले दधत् । जपन्नाम हरेर्भक्त्या साधुवेषधरौ द्विजः ॥ ३४ ॥ तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः । ननाम दण्डवद्भूमौ भक्त्याऽतिथिमपूर्वकम् ॥ ३५ ॥ ननाम पार्वती भक्त्या प्राणेशं विप्ररूपिणम् । ज्ञात्वा तं मनसा देवी तुष्टाव परया मुदा ॥ ३६ ॥ आशिषं युयुजे विप्रः सर्वेषां प्रीतितः शिवः । शिवाया अधिकं तात मनोभिलषितं हृदा ॥ ३७ ॥ मधुपर्कादिकं सर्वं जग्राह ब्राह्मणो मुदा । दत्तं शैलाधिराजेन हिमाङ्गेन महादरात् ॥ ३८ ॥ पप्रच्छ कुशलं चास्य हिमाद्रिः पर्वतोत्तमः । तं द्विजेन्द्रं महाप्रीत्या सम्पूज्य विधिवन्मुने ॥ ३९ ॥ पुनः पप्रच्छ शैलेशस्तं ततः को भवानिति । उवाच शीघ्रं विप्रेन्द्रो गिरीद्रं सादरं वचः ॥ ४० ॥ विप्रेन्द्र उवाच ब्राह्मणोऽहं गिरिश्रेष्ठ वैष्णवो बुधसत्तमः । घटिकीं वृतिमाश्रित्य भ्रमामि धरणीतले ॥ ४१ ॥ मनोयायी सर्वगामी सर्वज्ञोहं गुरोर्बलात् । परोपकारी शुद्धात्मा दयासिन्धुर्विकारहा ॥ ४२ ॥ मया ज्ञातं हराय त्वं स्वसुतां दातुमिच्छसि । इमां पद्मसमां दिव्यां वररूपां सुलक्षणाम् ॥ ४३ ॥ निराश्रयायासङ्गाय कुरूपायागुणाय च । श्मशानवासिने व्यालग्राहिरूपाय योगिने ॥ ४४ ॥ दिग्वाससे कुगात्राय व्यालभूषणधारिणे । अज्ञातकुलनाम्ने च कुशीलायाविहारिणे ॥ ४५ ॥ विभूतिदिग्धदेहाय सङ्क्रुद्धायाविवेकिने । अज्ञातवयसेऽतीव कुजटाधारिणे सदा ॥ ४६ ॥ सर्वाश्रयाय भ्रमिणे नागहाराय भिक्षवे कुमार्गनिरतायाथ वेदाऽध्वत्यागिने हठात् । ४७ ॥ इयं ते बुद्धिरचल न हि मंगलदा खलु । विबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव ॥ ४८ ॥ न ते पात्रानुरूपश्च पार्वतीदानकर्मणि । महाजनः स्मेरमुखः श्रुतमात्राद्भविष्यति ॥ ४९ ॥ पश्य शैलाधिप त्वं च न तस्यैकोस्ति बान्धवः । महारत्नाकरस्त्वञ्च तस्य किञ्चिद्धनं न हि ॥ ५० ॥ बान्धवान्मेनकां कुध्रपते शीघ्रं सुता तथा । सर्वान्पृच्छ प्रयत्नेन पण्डितान्पार्वतीं विना ॥ ५१ ॥ रोगिणो नौषधं शश्वद्रोचते गिरिसत्तम । कुपथ्यं रोचतेऽभीक्ष्णं महादोषकरं सदा ॥ ५२ ॥ ब्रह्मोवाच इत्युक्त्वा ब्राह्मणः शीघ्रं स वै भुक्त्वा मुदान्वितः । जगाम स्वालयं शान्तो नानालीलाकरः शिवः ॥ ५३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवमायावर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥ श्रीगौरीशंकरार्पणमस्तु |