|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
त्रिंशोऽध्यायः
पार्वतीप्रत्यागमनमहोत्सवः
नारद उवाच -
विधे तात महाभाग धन्यस्त्वं परमार्थदृक् । अद्भुतेयं कथाऽश्रावि त्वदनुग्रहतो मया ॥ १ ॥ गते हरे स्वशैले हि पार्वती सर्वमंगला । किं चकार गता कुत्र तन्मे वद महामते ॥ २ ॥ ब्रह्मोवाच - शृणु सुप्रीतितस्तात यज्जातं तदनन्तरम् । हरे गते निजस्थाने तद्वदामि शिवं स्मरन् ॥ ३ ॥ पार्वत्यपि सखीयुक्ता रूपं कृत्वा तु सार्थकम् । जगाम स्वपितुर्गेहं महादेवेति वादिनी ॥ ४ ॥ पार्वत्यागमनं श्रुत्वा मेना च स हिमाचलः । दिव्यं यानं समारुह्य प्रययौ हर्षविह्वलः ॥ ५ ॥ पुरोहितश्च पौराश्च सख्यश्चैवाप्यनेकशः । सम्बन्धिनस्तथाऽन्ये च सर्वे ते च समाययुः ॥ ६ ॥ भ्रातरः सकला जग्मुर्मैनाकप्रमुखास्तदा । जयशब्दं प्रब्रुवन्तो महाहर्षसमन्विताः ॥ ७ ॥ संस्थाप्य मंगलघटं राजवर्त्मनि राजिते । चन्दनागरुकस्तूरीफलशाखासमन्विते ॥ ८ ॥ सपुरोधा ब्राह्मणैश्च मुनिभिर्ब्रह्मवादिभिः । नारीभिर्नर्तकीभिश्च गजेन्द्राद्रिसुशोभितैः ॥ ९ ॥ परितः परितो रंभास्तम्भवृन्दसमन्विते । पतिपुत्रवतीयोषित्समूहैर्दीपहस्तकैः ॥ १ ० ॥ द्विजवृन्दैश्च संयुक्ते कुर्वद्भिर्मंगलध्वनिम् । नानाप्रकारवाद्यैश्च शङ्खध्वनिभिरन्विते ॥ ११ ॥ एतस्मिन्नन्तरे दुर्गा जगाम स्वपुरान्तिकम् । विशन्ती नगरं देवी ददर्श पितरौ पुनः ॥ १२ ॥ सुप्रसन्नौ प्रधावन्तौ हर्षविह्वलमानसौ । दृष्ट्वा काली सुप्रहृष्टा स्वालिभिः प्रणनाम तौ ॥ १३ ॥ तौ सम्पूर्णाशिषं दत्त्वा चक्रतुस्तौ स्ववक्षसि । हे वत्से त्वेवमुच्चार्य रुदन्तौ प्रेमविह्वलौ ॥ १४ ॥ ततःस्वकीया अप्यस्या अन्या नार्यापि संमुदा । भ्रातृस्त्रियोऽपि सुप्रीत्या दृढालिङ्गनमादधुः ॥ १५ ॥ साधितं हि त्वया सम्यक् सुकार्यं कुलतारणम् । त्वत्सदाचरणेनापि पाविताः स्माखिला वयम् ॥ १६ ॥ इति सर्वे सुप्रशंस्य प्रणेमुस्तां प्रहर्षिताः । चन्दनैः सुप्रसूनैश्च समानर्चुः शिवां मुदा ॥ १७ ॥ तस्मिन्नवसरे देवा विमानस्था मुदाऽम्बरे । पुष्पवृष्टिं शुभां चक्रुर्नत्वा तां तुष्टुवुः स्तवैः ॥ १८ ॥ तदा तां च रथे स्थाप्य सर्वे शोभान्विते वरे । पुरं प्रवेशयामासुःसर्वे विप्रादयो मुदा ॥ १९ ॥ अथ विप्राः पुरोधाश्च सख्योऽन्याश्च स्त्रियः शिवम् । गृहं प्रवेशयामासुर्बहुमानपुरःसरम् ॥ २० ॥ स्त्रियो निर्मञ्छनं चक्रुर्विप्रा युयुजुराशिषः । हिमवान्मेनका माता मुमोदाति मुनीश्वर ॥ २१ ॥ स्वाश्रमं सफलं मेने कुपुत्रात्पुत्रिका वरा । हिमवान्नारदं त्वाञ्च संस्तुवन् साधु साध्विति ॥ २२ ॥ ब्राह्मणेभ्यश्च बन्दिभ्यः पर्वतेन्द्रो धनं ददौ । मंगलं पाठयामास स द्विजेभ्यो महोत्सवम् ॥ २३ ॥ एवं स्वकन्यया हृष्टौ पितरौ भ्रातरस्तथा । जामयश्च महाप्रीत्या समूषुः प्राङ्गणे मुने ॥ २४ ॥ ततःस हिमवान् तात सुप्रहृष्टाः प्रसन्नधीः । सम्मान्य सकलान्प्रीत्या स्नातुं गङ्गां जगाम ह ॥ २२ ॥ एतस्मिन्नन्तरे शम्भुः सुलीलो भक्तवत्सलः । सुनर्तकनटो भूत्वा मेनकासंनिधिं ययौ ॥ २६ ॥ शृङ्गं वामे करे धृत्वा दक्षिणे डमरु तथा । पृष्ठे कंथां रक्तवासा नृत्यगानविशारदः ॥ २७ ॥
ततःसुनटरूपोऽसौ मेनका प्रांगणे मुदा । चक्रे सुनृत्यं विविधं गानं चातिमनोहरम् ॥ २८ ॥ शृङ्गं च डमरुं तत्र वादयामास सुध्वनिम् । महतीं विविधां तत्र स चकार मनोहराम् ॥ २९ ॥ तां द्रष्टुं नागराः सर्वे पुरुषाश्च स्त्रियस्तथा । आजग्मुःसहसा तत्र बाला वृद्धा अपि ध्रुवम् ॥ ३० ॥ श्रुत्वा सुगीतं तद्दृष्ट्वा सुनृत्यं च मनोहरम् । सहसा मुमुहुः सर्वे मेनाऽपि च तदा मुने ॥ ३ ॥ मूर्च्छां संप्राप्य सा दुर्गा सुदृष्ट्वा हृदि शंकरम् । त्रिशूलादिकचिह्नानि बिभ्रतं चातिसुन्दरम् ॥ ३२ ॥ विभूतिभूषितं रम्यमस्थिमालासमन्वितम् । त्रिलोचनोज्ज्वलद्वक्त्रं नागायज्ञोपवीतकम् ॥ ३३ ॥ वरं वृण्वित्युक्तवन्तं गौरवर्णं महेश्वरम् । दीनबन्धु दयासिन्धुं सर्वथा सुमनोहरम् ॥ ३४ ॥ हृदयस्थं हरं दृष्ट्वेदृशं सा प्रणनाम तम् । वरं वव्रे मानसं हि पतिर्मे त्वं भवेति च ॥ ३५ ॥ वरं दत्त्वा शिवं चाथ तादृशं प्रीतितो हृदा । अन्तर्धाय पुनस्तत्र सुननर्त्त स भिक्षुकः ॥ ३६ ॥ ततो मेना सुरत्नानि स्वर्णपात्रस्थितानि च । तस्मै दातुं ययौ प्रीत्या तद्भूति प्रीतमानसः ॥ ३७ ॥ तानि न स्वीचकारासौ भिक्षां याचे शिवां च ताम् । पुनःसुनृत्यं गानश्च कौतुकात्कर्तुमुद्यतः ॥ ३८ ॥ मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता । भिक्षुकं भर्त्सयामास बहिष्कर्तुमियेष सा ॥ ३९ ॥ एतस्मिन्नन्तरे तत्र गङ्गातो गिरिराययौ । ददर्श पुरतो भिक्षुं प्राङ्गणस्थं नराकृतिम् ॥ ४० ॥ श्रुत्वा मेनामुखाद्वृत्तं तत्सर्वं सुचुकोप सः । आज्ञां चकारानुचरान्बहिष्कर्तुञ्च तं नटम् ॥ ४१ ॥ महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् । न शशाक बहिष्कर्तुं कोऽपि तं मुनिसत्तम ॥ ४२ ॥ ततः स भिक्षुकस्तात नानालीलाविशारदः । दर्शयामास शैलाय स्वप्रभावमनन्तकम् ॥ ४३ ॥ शैलो ददर्श तं तत्र विष्णुरूपधरं द्रुतम् । किरीटिनं कुण्डलिनं पीतवस्त्रं चतुर्भुजम् ॥ ४४ ॥ यद्यत्पुष्पादिकं दत्तं पूजाकाले गदाभृते । गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह ॥ ४५ ॥ ततो ददर्श जगतां स्रष्टारं स चतुर्मुखम् । रक्तवर्णं पठन्तञ्च श्रुतिसूक्तं गिरीश्वरः ॥ ४६ ॥ ततःसूर्यस्वरूपञ्च जगच्चक्षुःस्वरूपकम् । ददर्श गिरिराजः स क्षणं कौतुककारिणाम् ॥ ४७ ॥ ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् । पार्वती सहितं रम्यं विहसन्तं सुतेजसम् ॥ ४८ ॥ ततस्तेजःस्वरूपञ्च निराकारं निरञ्जनम् । निरुपाधिं निरीहञ्च महाद्भुतमरूपकम् ॥ ४९ ॥ एवं बहूनि रूपाणि तस्य तन्न ददर्श सः । सुविस्मितो बभूवाशु परमानन्दसंयुतः ॥ ५० ॥ अथासौ भिक्षुवर्यो हि तस्मात्तस्याश्च सूतिकृत् । भिक्षां ययाचे दुर्गां तां नान्यज्जग्राह किञ्चन ॥ ५१ ॥ न स्वीचकार शैलैन्द्रो मोहितः शिवमायया । भिक्षुः किञ्चिन्न जग्राह तत्रैवान्तर्दधे ततः ॥ ५२ ॥ तदा बभूव सुज्ञानं मेनाशैलेशयोरिति । आवां शिवो वञ्चयित्वा स्वस्थानं गतवान्प्रभुः ॥ ५३ ॥ तयोर्विचिन्त्य तत्रैव शिवे भक्तिरभूत्परा । महामोक्षकरी दिव्या सर्वानन्दप्रदायिनी ॥ ५४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीप्रत्यागमनमहोत्सववर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥ श्रीगौरीशंकरार्पणमस्तु |