|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
एकोनत्रिंशोऽध्यायः
शिवाशिवसंवादः
नारद उवाच -
ब्रह्मन् विधे महाभाग किं जातं तदनन्तरम् । तत्सर्वं श्रोतुमिच्छामि कथय त्वं शिवायशः ॥ १ ॥ ब्रह्मोवाच - देवर्षे श्रूयतां सम्यक् कथयामि कथां मुदा । तां महापापसंहर्त्रीं शिवभक्तिविवर्द्धिनीम् ॥ २ ॥ पार्वती वचनं श्रुत्वा हरःस परमात्मनः । दृष्ट्वानन्दकरं रूपं जहर्षातीव च द्विज ॥ ३ ॥ प्रत्युवाच महा साध्वी स्वोपकण्ठस्थितं विभुम् । अतीव सुखिता देवी प्रीत्युत्फुल्लानना शिवा ॥ ४ ॥ पार्वत्युवाच त्वं नाथो मम देवेश त्वया किं विस्मृतं पुरा । दक्षयज्ञविनाशं हि यदर्थं कृतवान्हठात् ॥ ५ ॥ स त्वं साहं समुत्पन्ना मेनयां कार्यसिद्धये । देवानां देव देदेश तारकाप्तसुखात्मनाम् ॥ ६ ॥ यदि प्रसन्नो देवेश करोषि च कृपां यदि । पतिर्भव ममेशान मम वाक्यं कुरु प्रभो ॥ ७ ॥ पितुर्गेहे मया सम्यग्गम्यते त्वदनुजया । प्रसिद्धं क्रियतां तद्वै विशुद्धं परमं यशः ॥ ८ ॥ गन्तव्यं भवता नाथ हिमवत्पार्श्वतः प्रभो । याचस्व मां ततो भिक्षुर्भूत्वा लीलाविशारदः ॥ ९ ॥ तथा त्वया प्रकर्तव्यं लोकेषु ख्यापयन् यशः । पितुर्मे सफलं सर्वं कुरुष्वैवं गृहाश्रमम् ॥ १० ॥ ऋषिभिर्बोधितः प्रीत्या स्वबन्धुपरिवारितः । करिष्यति न सन्देहस्तव वाक्यं पिता मम ॥ ११ ॥ दक्षकन्या पुराऽहं वै पित्रा दत्ता यदा तव । यथोक्तविधिना तत्र विवाहो न कृतस्त्वया ॥ १२ ॥ न ग्रहाः पूजितास्तेन दक्षेण जनकेन मे । ग्रहाणां विषयस्तेन सच्छिद्रोऽयं महानभूत् ॥ १३ ॥ तस्माद्यथोक्तविधिना कर्तुमर्हसि मे प्रभो । विवाहं त्वं महादेव देवानां कार्यसिद्धये ॥ १४ ॥ विवाहस्य यथा रीतिः कर्तव्या सा तथा ध्रुवम् । जानातु हिमवान् सम्यक् कृतं पुत्र्या शुभं तपः ॥ १५ ॥ ब्रह्मोवाच - इत्येवं वचनं श्रुत्वा सुप्रसन्नः सदाशिवः । प्रोवाच वचनं प्रीत्या गिरिजां प्रहसन्निव ॥ १६ ॥ शिव उवाच - शृणु देवि महेशानि परमं वचनं मम । यथोचितं सुमाङ्गल्यमविकारि तथा कुरु ॥ १७ ॥ ब्रह्मादिकानि भूतानि स्वनित्यानि वरानने । दृष्टं यत्सर्वमेतच्च नश्वरं विद्धि भामिनि ॥ १८ ॥ एकोऽनेकत्वमापन्नो निर्गुणो हि गुणान्वितः । स्वज्योत्स्नया यो विभाति परज्योत्स्नान्वितोऽभवत् ॥ १९ ॥ स्वतन्त्रः परतन्त्रश्च त्वया देवि कृतो ह्यहम् । सर्वकर्त्री च प्रकृतिर्महामाया त्वमेव हि ॥ २० ॥ मायामयं कृतमिदं च जगत्समग्रं सर्वात्मना हि विधृतं परया स्वबुद्ध्या । सवार्त्मभिः सुकृतिभिः परमात्मभावैः संसक्तमात्मनि गणः परिवेष्टितश्च ॥ २१ ॥
के ग्रहाः के ऋतुगणाः के वान्येऽपि त्वया ग्रहाः । किमुक्तं चाधुना देवि शिवार्थं वरवर्णिनि ॥ २२ ॥ गुणकार्यप्रमेदेनावाभ्यां प्रादुर्भवः कृतः । भक्तहेतोर्जगत्यस्मिन्भक्तवत्सलभावतः ॥ २३ ॥ त्वं हि वै प्रकृतिःसूक्ष्मा रजःसत्त्वतमोमयी । व्यापारदक्षा सततं सगुणा निर्गुणापि च ॥ २४ ॥ सर्वेषामिह भूतानामहमात्मा सुमध्यमे । निर्विकारी निरीहश्च भक्तेच्छोपात्तविग्रहः ॥ २५ ॥ हिमालयं न गच्छेयं जनकं तव शैलजे । ततस्त्वां भिक्षुको भूत्वा न याचेयं कथञ्चन ॥ २६ ॥ महागुणैर्गरिष्ठोपि महात्माऽपि गिरीन्द्रजे । देहीतिवचनात्सद्यः पुरुषो याति लाघवम् ॥ २७ ॥ इत्थं ज्ञात्वा तु कल्याणि किमस्माकं वदस्यथ । कार्यं त्वदाज्ञया भद्रे यथेच्छसि तथा कुरु ॥ २८ ॥ ब्रह्मोवाच - तेनोक्तापि महादेवी सा साध्वी कमलेक्षणा । जगाद शंकरं भक्त्या सुप्रणम्य पुनः पुनः ॥ २९ ॥ पार्वत्युवाच - त्वमात्मा प्रकृतिश्चाहं नात्र कार्या विचारणा । स्वतन्त्रौ भक्तवशगौ निर्गुणौ सगुणावपि ॥ ३० ॥ प्रयत्नेन त्वया शम्भो कार्यं वाक्यं मम प्रभो । याचस्व मां हिमगिरेः सौभाग्यं देहि शङ्कर ॥ ३१ ॥ कृपां कुरु महेशान तव भक्तास्मि नित्यशः । तव पत्नी सदा नाथ ह्यहं जन्मनि जन्मनि ॥ ३२ ॥ त्वं ब्रह्म परमात्मा हि निर्गुणः प्रकृतेः परः । निर्विकारी निरीहश्च स्वतन्त्रः परमेश्वरः ॥ ३३ ॥ तथापि सगुणोऽपीह भक्तोद्धारपरायणः । विहारी स्वात्मनि रतो नानालीलाविशारदः ॥ ३४ ॥ सर्वथा त्वामहं जाने महादेव महेश्वर । किमुक्तेन च सर्वज्ञ बहुना हि दयां कुरु ॥ ३५ ॥ विस्तारय यशो लोके कृत्वा लीलां महाद्भुताम् । यत्सुगीय जना नाथाञ्जसोत्तीर्णा भवाम्बुधेः ॥ ३६ ॥ ब्रह्मोवाच इत्येवमुक्त्वा गिरिजा सुप्रणम्य पुनः पुनः । विरराम महेशानं नतस्कन्धा कृताञ्जलिः ॥ ३७ ॥ इत्येवमुक्तः स तया महात्मा महेश्वरो लोकविडम्बनाय । तथेति मत्त्वा प्रहसन् बभूव मुदान्वितः कर्तुमनास्तदेव ॥ ३८ ॥ ततो ह्यन्तर्हितः शम्भुर्बभूव सुप्रहर्षितः । कैलासं प्रययौ काल्या विरहाकृष्टमानसः ॥ ३९ ॥ तत्र गत्वा महेशानो नन्द्यादिभ्यः स ऊचिवान् । वृत्तान्तं सकलं तम्वै परमानन्दनिर्भरः ॥ ४० ॥ तेऽपि श्रुत्वा गणाःसर्वे भैरवाद्याश्च सर्वशः । बभूवुःसुखिनोत्यन्तं विदधुः परमोत्सवम् ॥ ४१ ॥ महत्सुमंगलं तत्र बभूवातीव नारद । सर्वेषां दुःखनाशोभूद्रुद्रः प्रापापि संमुदम् ॥ ४२ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाशिवसम्वादवर्णनं नामैकोनत्रिंशोऽध्यायः २९ श्रीगौरीशंकरार्पणमस्तु |