|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
षड्विंशोऽध्यायः
पार्वती-जटिलसंवादः
ब्रह्मोवाच
गतेषु तेषु मुनिषु स्वं लोकं शंकरः स्वयम् । परीक्षितुं तपो देव्या ऐच्छत्सूतिकरः प्रभुः ॥ १ ॥ परीक्षा छद्मना शम्भुर्द्रष्टुं तां तुष्टमानसः । जाटिलं रूपमास्थाय स ययौ पार्वतीवनम् ॥ २ ॥ अतीव स्थविरो विप्रदेहधारी स्वतेजसा । प्रज्वलन्मनसा हृष्टो दण्डी छत्री बभूव सः ॥ ३ ॥ तत्रापश्यत्स्थितां देवीं सखीभिः परिवारिताम् । वेदिकोपरि शुद्धां तां शिवामिव विधोः कलाम् ॥ ४ ॥ शम्भु निरीक्ष्य तां देवीं ब्रह्मचारिस्वरूपवान् । उपकण्ठं ययौ प्रीत्या तदाऽसौ भक्तवत्सलः ॥ ५ ॥ आगतं तं तदा दृष्ट्वा ब्राह्मणं तेजसाद्भुतम् । अपूजयच्छिवा देवी सर्वपूजोपहारकैः ॥ ६ ॥ सुसत्कृतं संविधाभिः पूजितं परया मुदा । पार्वती कुशलं प्रीत्या पप्रच्छ द्विजमादरात ॥ ७ ॥ पार्वत्युवाच ब्रह्मचारिस्वरूपेण कस्त्वं हि कुत आगतः । इदं वनं भासयसे वद वेदविदां वर ॥ ८ ॥ विप्र उवाच अहमिच्छाभिगामी च वृद्धो विप्रतनुःसुधीः । तपस्वी सुखदोऽन्येषामुपकारी न संशयः ॥ ९ ॥ का त्वं कस्यासि तनया किमर्थं विजने वने । तपश्चरसि दुर्धर्षं मुनिभिः प्रपदैरपि ॥ १० ॥ न बाला न च वृद्धासि तरुणी भासि शोभना । कथं पतिं विना तीक्ष्णं तपश्चरसि वै वने ॥ ११ ॥ कि त्वं तपस्विनी भद्रे कस्यचित्सहचारिणी । तपस्वी स न पुष्णाति देवि त्वां च गतोऽन्यतः ॥ १२ ॥ वद कस्य कुले जाता कः पिता तव का विधा । महासौभाग्यरूपा त्वं वृथा तव तपोरतिः ॥ १३ ॥ किं त्वं वेदप्रसूर्लक्ष्मीः किं सुरूपा सरस्वती । एतासु मध्ये का वा त्वं नाहं तर्कितुमुत्सहे ॥ १४ ॥ पार्वत्युवाच नाहं वेदप्रसूर्विप्र न लक्ष्मीश्च सरस्वती । अहं हिमाचलसुता साम्प्रतं नाम पार्वती ॥ १५ ॥ पुरा दक्षसुता जाता सती नामान्यजन्मनि । योगेन त्यक्तदेहाऽहं यत्पित्रा निन्दितः पतिः ॥ १६ ॥ अत्र जन्मनि सम्प्राप्तः शिवोऽपि विधिवैभवात् । मां त्यक्त्वा भस्मसात्कृत्य मन्मथं स जगाम ह ॥ १७ ॥ प्रयाते शंकरे तापोद्विजिताहं पितुर्गृहात् । आगता तपसे विप्र सुदृढा स्वर्णदीतटे ॥ १८ ॥ कृत्वा तपः कठोरं च सुचिरं प्राणवल्लभम् । न प्राप्याग्नौ विविक्षन्ती त्वां दृष्ट्वा संस्थिता क्षणम् ॥ १९ ॥ गच्छ त्वं प्रविशाम्यग्नौ शिवेनाङ्गीकृता न हि । यत्र यत्र जनुर्लप्स्ये वरिष्यामि शिवं वरम् ॥ २० ॥ ब्रह्मोवाच इत्युक्त्वा पार्वती वह्नौ तत्पुरः प्रविवेश सा । निषिध्यमाना पुरतो ब्राह्मणेन पुनः पुनः ॥ २१ ॥ वह्निप्रवेशं कुर्वत्याः पार्वत्यास्तत्प्रभावतः । बभूव तत्क्षणं सद्यो वह्नि श्चन्दनपङ्कवत् ॥ २२ ॥ क्षणं तदन्तरे स्थित्वा ह्युत्पतन्ती दिवं द्विजः । पुनः पप्रच्छ सहसा विहसन्सुतनुं शिवः ॥ २३ ॥
द्विज उवाच अहो तपस्ते किं भद्रे न बुद्धं किञ्चिदेव हि । न दग्धो वह्निना देहो न च प्राप्तं मनीषितम् ॥ २४ ॥ अतः सत्यं निकामं वै वद देवि मनोरथम् । ममाग्रे विप्रवर्यस्य सर्वानन्दप्रदस्य हि ॥ २५ ॥ यथाविधि त्वया देवि कीर्त्यतां सर्वथात्मना । तस्मान्मैत्री च सञ्जाता कार्यं गोप्यं त्वया न हि ॥ २६ ॥ किमिच्छसि वरं देवि प्रष्टुमिच्छाम्यतः परम् । त्वयेव तदसौ देवि फलं सर्वं प्रदृश्यते ॥ २७ ॥ परार्थे च तपश्चेद्वै तिष्ठेत्तु तप एव तत् । रत्नं हस्ते समादाय हित्वा काचस्तु सञ्चितः ॥ २८ ॥ ईदृशं तव सौन्दर्यं कथं व्यर्थीकृतं त्वया । हित्वा वस्त्राण्यनेकानि चर्मादि च धृतं त्वया ॥ २९ ॥ तत्सर्वं कारणं ब्रूहि तपसस्त्वस्य सत्यतः । तच्छ्रुत्वा विप्रवर्योऽहं यथा हर्षमवाप्नुयाम् ॥ ३० ॥ ब्रह्मोवाच इति पृष्टा तदा तेन सखीं प्रैरयताम्बिका । तन्मुखेनैव तत्सर्वं कथयामास सुव्रता ॥ ३१ ॥ तया च प्रेरिता तत्र पार्वत्या विजयाभिधा । प्राणप्रिया सुव्रतज्ञा सखी जटिलमब्रवीत् ॥ ३२ ॥ सख्युवाच शृणु साधो प्रवक्ष्यामि पार्वतीचरितं परम् । हेतुं च तपसः सर्वं यदि त्वं श्रोतुमिच्छसि ॥ ३३ ॥ सखा मे गिरिराजस्य सुतेयं हिमभूभृतः । ख्याता वै पार्वती नाम्ना सा कालीति च मेनका ॥ ३४ ॥ ऊढेयं न च केनापि न वाञ्छति शिवात्परम् । त्रीणि वर्षसहस्राणि तपश्चरणसाधिनी ॥ ३५ ॥ तदर्थं मेऽनया सख्या प्रारब्धं तप ईदृशम् । तदत्र कारणं वक्ष्ये शृणु साधो द्विजोत्तम ॥ ३६ ॥ हित्वेन्द्रप्रमुखान्देवान् हरिं ब्रह्माणमेव च । पतिं पिनाकपाणिं वै प्राप्तुमिच्छति पार्वती ॥ ३७ ॥ इयं सखी मदीया वै वृक्षानारोपयत्पुरा । तेषु सर्वेषु सञ्जातं फलपुष्पादिकं द्विज ॥ ३८ ॥ रूपसार्थाय जनककुलालङ्करणाय च । समुद्दिश्य महेशानं कामस्यानुग्रहाय च ॥ ३९ ॥ मत्सखी चादराद्देशात्तपस्तपति दारुणम् । मनोरथः कुतस्तस्या न फलिष्यति तापस ॥ ४० ॥ यत्ते पृष्टं द्विजश्रेष्ठ मत्सख्या मनसीप्सितम् । मया ख्यातं च तत्प्रीत्या किमन्यच्छ्रोतुमिच्छसि ॥ ४१ ॥ ब्रह्मोवाच इत्येवं वचनं श्रुत्वा विजयाया यथार्थतः । मुने स जटिलो रुद्रो विहसन्वाक्यमब्रवीत् ॥ ४२ ॥ जटिल उवाच सख्येदं कथितं तत्र परिहासोनुमीयते । यथार्थं चेत्तदा देवी स्वमुखेनाभिभाषताम् ॥ ४३ ॥ ब्रह्मोवाच इत्युक्ते च तदा तेन जटिलेन द्विजन्मना । उवाच पार्वती देवी स्वमुखेनैव तं द्विजम् ॥ ४४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाजटिलसंवादो नाम षड्विंशोध्यायः ॥ २६ ॥ श्रीगौरीशंकरार्पणमस्तु |