॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

सप्तविंशोऽध्यायः

ब्रह्मचारिप्रतारणवाक्यवर्णनम्


पार्वत्युवाच
शृणु द्विजेन्द्र जटिल मद्वृत्तं निखिलं खलु ।
सख्युक्तं मेऽद्य यत्सत्यं तत्तथैव न चान्यथा ॥ १ ॥
मनसा वचसा साक्षात्कर्म्मणा यति भावतः ।
सत्यं ब्रवीमि नोऽसत्यं वृतो वै शंकरो या ॥ २ ॥
जानामि दुर्लभं वस्तु कथम्प्राप्यं मया भवेत् ।
तथापि मन औत्सुक्यात्तप्यतेऽद्य तपो मया ॥ ३ ॥
ब्रह्मोवाच
इत्युक्त्वा वचनं तस्मै स्थिता सा गिरिजा तदा ।
उवाच ब्राह्मणस्तत्र तच्छ्रुत्वा पार्वतीवचः ॥ ४ ॥
ब्राह्मण उवाच
एतावत्कालपर्यन्तम्ममेच्छा महती ह्यभूत् ।
किं वस्तु काङ्‌क्षती देवी कुरुते सुमहत्तपः ॥ ५ ॥
तज्ज्ञात्वा निखिलं देवि श्रुत्वा त्वन्मुखपङ्‌कजात् ।
इतो गच्छाम्यहं स्थानाद्यथेच्छसि तथा कुरु ॥ ६ ॥
न कथ्यते त्वया मह्यं मित्रत्वं निष्फलम्भवेत् ।
यथा कार्यं तथा भावि कथनीयं सुखेन च ॥ ७ ॥
ब्रह्मोवाच
इत्युक्त्वा वचनं तस्य यावद्‌गन्तुमियेष सः ।
तावच्च पार्वती देवी प्रणम्योवाच तं द्विजम् ॥ ८ ॥
पार्वत्युवाच
किं गमिष्यसि विप्रेन्द्र स्थितो भव हितं वद ।
इत्युक्ते च तया तत्र स्थित्वोवाच स दण्डधृक् ॥ ९ ॥
द्विज उवाच
यदि श्रोतुमना देवि मां स्थापयसि भक्तितः ।
वदामि तत्त्वं तत्सर्वं येन ते वयुनम्भवेत् ॥ १० ॥
जानाम्यहं महादेवं सर्वथा गुरुधर्मतः ।
प्रवदामि यथार्थं हि सावधानतया शृणु ॥ ११ ॥
वृषध्वजो महादेवो भस्मदिग्धो जटाधरः ।
व्याघ्रचर्माम्बरधरः संवीतो गजकृत्तिना ॥ १२ ॥
कपालधारी सर्पौघैः सर्वगात्रेषु वेष्टितः ।
विषदिग्धोऽभक्ष्यभक्षो विरूपाक्षो विभीषणः ॥ १३ ॥
अव्यक्तजन्मा सततं गृहभोगविवर्जितः ।
दिगम्बरो दशभुजो भूत प्रेतान्वितःसदा ॥ १४ ॥
केन वा कारणेन त्वं तं भर्तारं समीहसे ।
क्व ज्ञानं ते गतं देवि तद्वदाद्य विचारतः ॥ १५ ॥
पूर्वं श्रुतं मया चैव व्रतन्तस्य भयङ्‌करम् ।
शृणु ते निगदाम्यद्य यदि ते श्रवणे रुचिः ॥ १६ ॥
दक्षस्य दुहिता साध्वी सती वृषभवाहनम् ।
वव्रे पतिं पुरा दैवात्तत्सम्भोगः परिश्रुतः ॥ १७ ॥
कपालिजायेति सती दक्षेण परिवर्जिता ।
यज्ञे भागप्रदानाय शम्भुश्चापि विवर्जितः ॥ १८ ॥
सा तथैवापमानेन भृशं कोपाकुला सती ।
तत्याजासून्प्रियांस्तत्र तया त्यक्तश्च शंकरः ॥ १९ ॥
त्वं स्त्रीरत्नं तव पिता राजा निखिल भूभृताम् ।
तथाविधं पतिं कस्मादुग्रेण तपसेहसे ॥ २० ॥
दत्त्वा सुवर्णमुद्रां च ग्रहीतुं काचमिच्छसि ।
हित्वा च चन्दनं शुभ्रं कर्दमं लेप्तुमिच्छसि ॥ २१ ॥
सूर्यतेजः परित्यज्य खद्योतद्युतिमिच्छसि ।
चीनांशुकं विहायैव चर्म्माम्बरमिहेच्छसि ॥ २२ ॥
गृहवासम्परित्यज्य वनवासं समीहसे ।
लोहमिच्छसि देवेशि त्यक्त्वा शेवधिमुत्तमम् ॥ २३ ॥
इन्द्रादिलोकपालांश्च हित्वा शिवमनु व्रता ।
नैतत्सूक्तं हि लोकेषु विरुद्धं दृश्यतेऽधुना ॥ २४ ॥
क्व त्वं कमलपत्राक्षी क्वासौ वै त्रिविलोचनः ।
शशाङ्‌कवदना त्वं च पञ्चवक्त्रः शिवः स्मृतः ॥ २५ ॥
वेणी शिरसि ते दिव्या सर्पिणीव विभासिता ।
जटाजूटं शिवस्येव प्रसिद्धं परिचक्षते ॥ २६ ॥
चन्दनं च त्वदीयाङ्‌गे चिताभस्म शिवस्य च ।
क्व दुकूलं त्वदीयं वै शाङ्‌करं क्व गजाजिनम् ॥ २७ ॥
क्व भूषणानि दिव्यानि क्व सर्पाः शंकरस्य च ।
क्व चरा देवताःसर्वाः क्व च भूतबलिप्रियः ॥ २८ ॥
क्व वा मृदङ्‌गवादश्च क्व च तड्डमरुस्तथा ।
क्व च भेरीकलापश्च क्व च शृङ्‌गरवोऽशुभः ॥ २९ ॥
क्व च ढक्कामयः शब्दो गलनादः क्व चाशुभः ।
भवत्याश्च शिवस्यैव न युक्तं रूपमुत्तमम् ॥ ३० ॥
यदि द्रव्यं भवेत्तस्य कथं स्यात्स दिगम्बरः ।
वाहनं च बलीवर्दः सामग्री कापि तस्य न ॥ ३१ ॥
वरेषु ये गुणाः प्रोक्ता नारीणां सुखदायकाः ।
तन्मध्ये हि विरूपाक्षे एकोपि न गुणः स्मृतः ॥ ३२ ॥
तवापि कामो दयितो दग्धस्तेन हरेण च ।
अनादरस्तदा दृष्टो हित्वा त्वामन्यतो गतः ॥ ३३ ॥
जातिर्न दृश्यते तस्य विद्याज्ञानं तथैव च ।
सहायाश्च पिशाचा हि विषं कण्ठे हि दृश्यते ॥ ३४ ॥
एकाकी च सदा नित्यं विरागी च विशेषतः ।
तस्मात्त्वं हि हरेणैव मनो योक्तुं तु चार्हसि ॥ ३५ ॥
क्व च हारस्त्वदीयो वै क्व च तन्मुण्डमालिका ।
अङ्‌गरागः क्व ते दिव्यः चिताभस्म क्व तत्तनौ ॥ ३६ ॥
सर्वं विरुद्धं रूपादि तव देवि हरस्य च ।
मह्यं न रोचते ह्येतद्यदिच्छसि तथा कुरु ॥ ३७ ॥
असद्वस्तु च यत्किञ्चित् तत्सर्वं स्वयमीहसे ।
निर्वर्तय मनस्तस्मान्नो चेदिच्छसि तत्कुरु ॥ ३८ ॥
ब्रह्मोवाच
इत्येवं वचनं श्रुत्वा तस्य विप्रस्य पार्वती ।
उवाच क्रुद्धमनसा शिवनिन्दापरं द्विजम् ॥ ३९ ॥
इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे ब्रह्मचारिप्रतारणवाक्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ २७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP