|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
पञ्चविंशोऽध्यायः
सप्तर्षिकृता पार्वतीपरीक्षा
नारद उवाच
गतेषु तेषु देवेषु विधि विष्ण्वादिकेषु च । सर्वेषु मुनिषु प्रीत्या किं बभूव ततः परम् ॥ १ ॥ किं कृतं शम्भुना तात वरं दातुं समागतः । कियत्कालेन च कथं तद्वद प्रीतिमावह ॥ २ ॥ ब्रह्मोवाच गतेषु तेषु देवेषु ब्रह्मादिषु निजाश्रमम् । तत्तपःसु परीक्षार्थं समाधिस्थोऽभवद्भवः ॥ ३ ॥ स्वात्मानमात्मना कृत्वा स्वात्मन्येव व्यचिन्तयत् । परात्परतरं स्वस्थं निर्माय निरवग्रहम् ॥ ४ ॥ तद्वस्तुभूतो भगवानीश्वरो वृषभध्वजः । अविज्ञातगतिःसूतिःस हरः परमेश्वरः ॥ ५ ॥ ब्रह्मोवाच गिरिजा हि तदा तात तताप परमं तपः । तपसा तेन रुद्रोऽपि परं विस्मयमागतः ॥ ६ ॥ समाधेश्चलितः सोऽभूद्भक्ताधीनोऽपि नान्यथा । वसिष्ठादीन्मुनीन्सप्त सस्मार सूतिकृद्धरः ॥ ७ ॥ सप्तापि मुनयः शीघ्रमाययुःस्मृति मात्रतः । प्रसन्नवदनाः सर्वे वर्णयन्तो विधिं बहु ॥ ८ ॥ प्रणम्य तं महेशानं तुष्टुवुर्हर्षनिर्भराः । वाण्या गद्गदया बद्धकरा विनतकन्धराः ॥ ९ ॥ सप्तर्षय ऊचुः देवदेव महादेव करुणासागर प्रभो । जाता वयं सुधन्या हि त्वया यदधुना स्मृताः ॥ १० ॥ किमर्थं संस्मृता वाथ शासनं देहि तद्धि नः । स्वदाससदृशीं स्वामिन्कृपां कुरु नमोऽस्तु ते ॥ ११ ॥ ब्रह्मोवाच इत्याकर्ण्य नीनां तु विज्ञप्तिं करुणानिधिः । प्रोवाच विहसन्प्रीत्या प्रोत्फुल्लनयनाम्बुजः ॥ १२ ॥ महेश्वर उवाच हे सप्तमुनयस्ताताः शृणुतारं वचो मम । अस्मद्धितकरा यूयं सर्वज्ञानविचक्षणाः ॥ १३ ॥ तपश्चरति देवेशी पार्वती गिरिजाऽधुना । गौरीशिखरसञ्ज्ञे हि पर्वते दृढमानसा ॥ १४ ॥ मां पतिं प्राप्तुकामा हि सा सखीसेविता द्विजाः । सर्वान्कामान्विहायान्यान्परं निश्चयमागता ॥ १५ ॥ तत्र गच्छत यूयं मच्छासनान्मुनिसत्तमाः । परीक्षां दृढतायास्तत्कुरुत प्रेमचेतसः ॥ १६ ॥ सर्वथा छलसंयुक्तं वचनीयं वचश्च वः । न संशयः प्रकर्तव्यः शासनान्मम सुव्रताः ॥ १७ ॥ ब्रह्मोवाच इत्याज्ञप्ताश्च मुनयो जग्मुस्तत्र द्रुतं हि ते । यत्र राजति सा दीप्ता जगन्माता नगात्मजा ॥ १८ ॥ तत्र दृष्ट्वा शिवा साक्षात्तपःसिद्धिरिवापरा । मूर्ता परमतेजस्का विलसन्ती सुतेजसा ॥ १९ ॥ हृदा प्रणम्य तां ते तु ऋषयः सप्त सुव्रताः । सन्नता वचनं प्रोचुः पूजिताश्च विशेषतः ॥ २० ॥ ऋषय ऊचुः शृणु शैलसुते देवी किमर्थं तप्यते तपः । इच्छसि त्वं सुरं कं च किं फलं तद्वदाधुना ॥ २१ ॥ ब्रह्मोवाच इत्युक्ता सा शिवा देवी गिरीन्द्रतनया द्विजैः । प्रत्युवाच वचःसत्यं सुगूढमपि तत्पुरः ॥ २२ ॥ पार्वत्युवाच मुनीश्वराःसंशृणुत मद्वाक्यं प्रीतितो हृदा । ब्रवीमि स्वविचारं वै चिन्तितो यो धिया स्वया ॥ २३ ॥ करिष्यथ प्रहासं मे श्रुत्वा वाचो ह्यसम्भवाः । सङ्कोचो वर्णनाद्विप्रा भवत्येव करोमि किम् ॥ २४ ॥ इदं मनो हि सुदृढमवशं परकर्मकृत् । जलोपरि महाभित्तिं चिकीर्षति महोन्नताम् ॥ २५ ॥ सुरर्षेः शासनं प्राप्य करोमि सुदृढं तपः । रुद्रः पतिर्भवेन्मे हि विधायेति मनोरथम् ॥ २६ ॥ अपक्षो मन्मनः पक्षी व्योम्नि उड्डीयते हठात् । तदाशां शंकरस्वामी पिपर्त्तु करुणानिधिः ॥ २७ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्या विहस्य मुनयश्च ते । संमान्य गिरिजां प्रीत्या प्रोचुश्छलवचो मृषा ॥ २८ ॥ ऋषय ऊचुः न ज्ञातं तस्य चरितं वृथापण्डितमानिनः । देवर्षेः क्रूरमनसः सुज्ञा भूत्वाप्यगात्मजे ॥ २९ ॥ नारदः कूटवादी च परचित्तप्रमंथकः । तस्य वार्त्ताश्रवणतो हानिर्भवति सर्वथा ॥ ३० ॥ तत्र त्वं शृणु सद्बुध्या चेतिहासं सुशोभितम् । क्रमात्त्वां बोधयन्तो हि प्रीत्या तमुपधारय ॥ ३१ ॥ ब्रह्मपुत्रो हि यो दक्षःसुषुवे पितुराज्ञया । स्वपत्न्यामयुतं पुत्रानयुङ्क्त तपसि प्रियान् ॥ ३२ ॥ ते सुताः पश्चिमदिशि नारायणसरो गताः । तपोऽर्थे ते प्रतिज्ञाय नारदस्तत्र वै ययौ ॥ ३३ ॥ कूटोपदेशमाश्राव्य तत्र तान्नारदो मुनिः । तदाज्ञया च ते सर्वे पितुर्न गृहमाययुः ॥ ३४ ॥ तच्छ्रुत्वा कुपितो दक्षः पित्राश्वासितमानसः । उत्पाद्य पुत्रान्प्रायुङ्क्त सहस्रप्रमितांस्ततः ॥ ३५ ॥
तेऽपि तत्र गताः पुत्रास्तपोर्थं पितुराज्ञया । नारदोऽपि ययौ तत्र पुनस्तत्स्वोपदेशकृत् ॥ ३६ ॥ ददौ तदुपदेशं ते तेभ्यो भ्रातृपथं ययुः । आययुर्न पितुर्गेहं भिक्षुवृत्तिरताश्च ते ॥ ३७ ॥ इत्थं नारदसद्वृत्तिर्विश्रुत्ता शैलकन्यके । अन्यां शृणु हि तद्वृत्तिं वैराग्यकरणीं नृणाम् ॥ ३८ ॥ विद्याधरश्चित्रकेतुर्यो बभूव पुराऽकरोत् । स्वोपदेशमयं दत्त्वा तस्मै शून्यं च तद्गृहम् ॥ ३९ ॥ प्रह्लादाय स्वोपदेशान्हिरण्यकशिपोः परम् । दत्त्वा दुखं ददौ चायं परबुद्धिप्रभेदकः ॥ ४० ॥ मुनिना निजविद्या यच्छ्राविता कर्णरोचना । स स्वगेहं विहायाशु भिक्षां चरति प्रायशः ॥ ४१ ॥ नारदो मलिनात्मा हि सर्वदो ज्ज्वलदेहवान् । जानीमस्तं विशेषेण वयं तत्सहवासिनः ॥ ४२ ॥ बकं साधुं वर्णयन्ति न मत्स्यानत्ति सर्वथा । सहवासी विजानीयाच्चरित्रं सहवासिनाम् ॥ ४३ ॥ लब्ध्वा तदुपदेशं हि त्वमपि प्राज्ञसंमता । वृथैव मूर्खीभूता तु तपश्चरसि दुष्करम् ॥ ४४ ॥ यदर्थमीदृशं बाले करोषि विपुलं तपः । सदोदासी निर्विकारो मदनारिर्न संशयः ॥ ४५ ॥ अमंगलवपुर्धारी निर्लज्जोऽसदनोऽकुली । कुवेषी प्रेतभूतादिसङ्गी नग्नौ हि शूलभृत् ॥ ४६ ॥ स धूर्तस्तव विज्ञानं विनाश्य निजमायया । मोहयामास सद्युक्त्या कारयामास वै तपः ॥ ४७ ॥ ईदृशं हि वरं लब्ध्वा किं सुखं सम्भविष्यति । विचारं कुरु देवेशि त्वमेव गिरिजात्मजे ॥ ४६ ॥ प्रथमं दक्षजां साध्वी विवाह्य सुधिया सतीम् । निर्वाहं कृतवान्नैव मूढः किञ्चिद्दिनानि हि ॥ ४९ ॥ तां तथैव स वै दोषं दत्त्वात्याक्षीत्स्वयं प्रभुः । ध्यायन्स्वरूपमकलमशोकमरमत्सुखी ॥ ५० ॥ एकलः परनिर्वाणो ह्यसङ्गोऽद्वय एव च । तेन नार्याः कथं देवि निर्वाहः सम्भविष्यति ॥ ५१ ॥ अद्यापि शासनं प्राप्य गृहमायाहि दुर्मतिम् । त्यजास्माकं महाभागे भविष्यति च शं तव ॥ ५२ ॥ त्वद्योग्यो हि वरो विष्णुःसर्वसद्गुणवान्प्रभुः । वैकुण्ठवासी लक्ष्मीशो नानाक्रीडाविशारदः ॥ ५३ ॥ तेन ते कारयिष्यामो विवाहं सर्वसौख्यदम् । इतीदृशं त्यज हठं सुखिता भव पार्वति ॥ ५४ ॥ ब्रह्मोवाच इत्येदं वचनं श्रुत्वा पार्वती जगदम्बिका । विहस्य च पुनः प्राह मुनीन्ज्ञान विशारदान् ॥ ५५ ॥ पार्वत्युवाच सत्यं भवद्भिः कथितं स्वज्ञानेन मुनीश्वराः । परन्तु मे हठो नैव मुक्तो भवति वै द्विजाः ॥ ५६ ॥ स्वतनोः शैलजातत्वात्काठिन्यं सहजं स्थितम् । इत्थं विचार्य सुधिया मां निषेद्धुं न चार्हथ ॥ ५७ ॥ सुरर्षेर्वचनं पथ्यं त्यक्ष्ये नैव कदाचन । गुरूणां वचनं पथ्यमिति वेदविदो विदुः ॥ ५८ ॥ गुरूणां वचनं सत्यमिति येषां दृढा मतिः । तेषामिहामुत्र सुखं परमं नासुखं क्वचित् ॥ ५९ ॥ गुरूणां वचनं सत्यमिति यद्धृदये न धीः । इहामुत्रापि तेषां हि दुखं न च सुखं क्वचित् ॥ ६० ॥ सर्वथा न परित्याज्यं गुरूणां वचनं द्विजाः । गृहं वसेद्वा शून्यं स्यान्मे हठः सुखदः सदा ॥ ६१ ॥ यद्भवद्भिः सुभणितं वचनं मुनिसत्तमाः । तदन्यथा तद्विवेकं वर्णयामि समासतः ॥ ६२ ॥ गुणालयो विहारी च विष्णुःसत्यं प्रकीर्तितः । सदाशिवोऽगुणः प्रोक्तस्तत्र कारण मुच्यते ॥ ६३ ॥ शिवो ब्रह्माविकारः स भक्तहेतोर्धृताकृतिः । प्रभुतां लौकिकीं नैव सन्दर्शयितुमिच्छति ॥ ६४ ॥ अतः परमहंसानां धार्यये सुप्रिया गतिः । अवधूतस्वरूपेण परानन्देन शम्भुना ॥ ६५ ॥ भूषूणादिरुचिर्मायार्लिप्तानां ब्रह्मणो न च । स प्रभुर्निर्गुणोऽजो निर्मायोऽलक्ष्यगतिर्विराट् ॥ ६६ ॥ धर्मजात्यादिभिःशम्भुर्नानुगृह्णाति वै द्विजाः । गुरोरनुग्रहेणैव शिवं जानामि तत्त्वतः ॥ ६७ ॥ चेच्छिवः स हि मे विप्रा विवाहं न करिष्यति । अविवाहा सदाहं स्यां सत्यं सत्यं वदाम्यहम् ॥ ६८ ॥ उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वह्निः । विकसति यदि पद्मं पर्वताग्रे शिलायां न हि चलति हठो मे सत्यमेतद्ब्रवीमि ॥ ६९ ॥ ब्रह्मोवाच इत्युक्त्वा तान्प्रणम्याशु मुनीन्सा पर्वतात्मजा । विरराम शिवं स्मृत्वा निर्विकारेण चेतसा ॥ ७० ॥ ऋषयोऽपीत्थमाज्ञाय गिरिजायाः सुनिश्चयम् । प्रोचुर्जयगिरं तत्र ददुश्चाशिषमुत्तमाम् ॥ ७१ अथ प्राणम्य तां देवीं मुनयो हृष्टमानसाः । शिवस्थानं द्रुतं जग्मुस्तत्परीक्षाकरा मुने ॥ ७२ ॥ तत्र गत्वा शिवं सर्वं वृत्तान्तं विनिवेद्य तम् । तदाज्ञां समनुप्राप्य स्वर्लोकं जग्मुरादरात् ॥ ७३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे सप्तर्षिकृतपरीक्षावर्णनो नाम पञ्चविशोऽध्याय ॥ २५ ॥ श्रीगौरीशंकरार्पणमस्तु |