॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

चतुर्विंशोऽध्यायः

शिवकृता पार्वतीविवाहस्वीकृतिः


देवा ऊचुः
नमो रुद्राय देवाय मदनान्तकराय च ॥
स्तुत्याय भूरिभासाय त्रिनेत्राय नमो नमः ॥ १ ॥
शिपिविष्टाय भीमाय भीमाक्षाय नमोनमः ।
महादेवाय प्रभवे त्रिविष्टपतये नमः ॥ २ ॥
त्वं नाथः सर्वलोकानां पिता माता त्वमीश्वरः ।
शम्भुरीशः शंकरोसि दयालुस्त्वं विशेषतः ॥ ३ ॥
त्वं धाता सर्वजगतां त्रातुमर्हसि नः प्रभो ।
त्वां विना कः समर्थोऽस्ति दुःखनाशे महेश्वर ॥ ४ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां सुराणां नन्दिकेश्वरः ।
कृपया परया युक्तो विज्ञप्तुं शम्भुमारभत् ॥ ५ ॥
नन्दिकेश्वर उवाच
विष्ण्वादयःसुरगणा मुनिसिद्धसङ्‌घा-
     स्त्वां द्रष्टुमेव सुरवर्य विशेषयन्ति ।
कार्यार्थिनोऽसुरवरैः परिभर्त्स्य मानाः
     सम्यक् पराभवपदं परमं प्रपन्नाः ॥ ६ ॥
तस्मात्त्वया हि सर्वेश त्रातव्या मुनयः सुराः ।
दीनबन्धुर्विशेषेण त्वमुक्तो भक्तवत्सलः ॥ ७ ॥
ब्रह्मोवाच
एवं दयावता शम्भुर्विज्ञप्तो नन्दिना भृशम् ।
शनैः शनैरुपरमद्ध्यानादुन्मील्य चाक्षिणी ॥ ८ ॥
ईशोऽथोपरतः शम्भुस्तदा परमकोविदः ।
समाधेः परमात्मासौ सुरान्सर्वानुवाच ह ॥ ९ ॥
शम्भुरुवाच
कस्माद्यूयं समायाता मत्समीपं सुरेश्वराः ।
हरिब्रह्मादयःसर्वे ब्रूत कारणमाशु तत् ॥ १० ॥
ब्रह्मोवाच
इति श्रुत्वा वचः शम्भोः सर्वे देवा मुदाऽन्विताः ।
विष्णोर्विलोकयामासुर्मुखं विज्ञप्तिहेतवे ॥ ११ ॥
अथ विष्णुर्महाभक्तो देवानां हितकारकः ।
मदीरितमुवाचेदं सुरकार्यं महत्तरम् ॥ १२ ॥
तारकेण कृतं शम्भो देवानां परमाद्‌भुतम् ।
कष्टात्कष्टतरं देवा विज्ञप्तुं सर्व आगताः ॥ १३ ॥
हे शम्भो तव पुत्रेणौरसेन हि भविष्यति ।
निहतस्तारको दैत्यो नान्यथा मम भाषितम् ॥ १४ ॥
विचार्येत्थं महादेव कृपां कुरु नमोऽस्तु ते ।
देवान्समुद्धर स्वामिन् कष्टात्तारकनिर्मितात् ॥ १५ ॥
तस्मात्त्वया गिरिजा देव शम्भो
     ग्रहीतव्या पाणिना दक्षिणेन ।
पाणिग्रहेणैव महानुभावां
     दत्तां गिरीन्द्रेण च तां कुरुष्व ॥ १६ ॥
विष्णोस्तद्वचनं श्रुत्वा प्रसन्नो ह्यब्रवीच्छिवः ।
दर्शयन् सद्‌गतिं तेषां सर्वेषां योगतत्परः ॥ १७ ॥
शिव उवाच
यदा मे स्वीकृता देवी गिरिजा सर्वसुन्दरी ।
तदा सर्वे सुरेन्द्राश्च मुनयो ऋषयस्तदा ॥ १८ ॥
सकामाश्च भविष्यन्ति न क्षमाश्च परे पथि ।
जीवयिष्यति दुर्गा सा पाणिग्रहणतः स्मरम् ॥ १९ ॥
मदनो हि मया दग्धःसर्वेषां कार्यसिद्धये ।
ब्रह्मणो वचनाद्विष्णो नात्र कार्या विचारणा ॥ २० ॥
एवं विमृश्य मनसा कार्याकार्यव्यवस्थितौ ।
सुधीः सर्वैश्च देवेन्द्र हठं नो कर्तुमर्हसि ॥ २१ ॥
दग्धे कामे मया विष्णो सुरकार्यं महत् कृतम् ।
सर्वे तिष्ठन्तु निष्कामा मया सह सुनिश्चितम् ॥ २२ ॥
यथाऽहं च सुराःसर्वे तथा यूयमयत्नतः ।
तपः परमसंयुक्ताः करिष्यध्वं सुदुष्करम् ॥ २३ ॥
यूयं समाधिना तेन मदनेन विना सुराः ।
परमानन्दसंयुक्ता निर्विकारा भवन्तु वै ॥ २४ ॥
पुरावृत्तं स्मरकृतं विस्मृतं यद् विधे हरे ।
महेन्द्र मुनयो देवा यत्तत्सर्वं विमृश्यताम् ॥ २५ ॥
महाधनुर्धरेणैव मदनेन हठात्सुराः ।
सर्वेषां ध्यानविध्वंसः कृतस्तेन पुराऽमराः ॥ २६ ॥
कामो हि नरकायैव तस्मात् क्रोधोभिजायते ।
क्रोधाद्‌भवति संमोहो मोहाच्च भ्रंशते तपः ॥ २७ ॥
कामक्रोधौ परित्याज्यौ भवद्‌भिःसुरसत्तमैः ।
सर्वैरेव च मन्तव्यं मद्वाक्यं नान्यथा क्वचित् ॥ २८ ॥
ब्रह्मोवाच
एवं विश्राव्य भगवान् महादेवो वृषध्वजः ।
सुरान् प्रवाचयामास विधिविष्णू तथा मुनीन् ॥ २९ ॥
तूष्णीम्भूतोऽभवच्छम्भुर्ध्यानमाश्रित्य वै पुनः ।
आस्ते पुरा यथा स्थाणुर्गणैश्च परिवारितः ॥ ३० ॥
स्वात्मानमात्मना शम्भुरात्मन्येव व्यचिन्तयत् ।
निरञ्जनं निराभासं निर्विकारं निरामयम् ॥ ३१ ॥
परात्परतरं नित्यं निर्ममं निरवग्रहम् ।
शब्दातीतं निर्गुणं च ज्ञानगम्यं परात्परम् ॥ ३२ ॥
एवं स्वरूपं परमं चिन्तयन् ध्यानमास्थितः ।
परमानन्दसंमग्नो बभूव बहुसूतिकृत् ॥ ३३ ॥
ध्यानस्थितं च सर्वेशं दृष्ट्‍वा सर्वे दिवौकसः ।
हरि शक्रादयः सर्वे नन्दिनं प्रोचुरानताः ॥ ३४ ॥
देवा ऊचुः
किं वयं करवामाद्य विरक्तो ध्यानमास्थितः ।
शम्भुस्त्वं शंकरसखः सर्वज्ञः शुचिसेवकः ॥ ३५ ॥
केनोपायेन गिरिशः प्रसन्नः स्याद्‌गणाधिप ।
तदुपायं समाचक्ष्व वयं त्वच्छरणं गताः ॥ ३६ ॥
ब्रह्मोवाच
इति विज्ञापितो देवैर्मुने हर्षादिभिस्तदा ।
प्रत्युवाच सुरांस्तान्स नन्दी शम्भुप्रियो गणः ॥ ३७ ॥
नन्दीश्वर उवाच
हे हरे हे विधे शक्रनिर्जरा मुनयस्तथा ।
शृणुध्वं वचनं मे हि शिवसन्तोषकारकम् ॥ ३८ ॥
यदि वो हठ एवाद्य शिव दारपरिग्रहे ।
अतिदीनतया सर्वे सुनुतिं कुरुतादरात् ॥ ३९ ॥
भक्तेर्वश्यो महादेवो न साधारणतः सुराः ।
अकार्यमपि सद्‌भक्त्या करोति परमेश्वरः ॥ ४० ॥
एवं कुरुत सर्वे हि विधिविष्णुमुखाः सुराः ।
यथागतेन मार्गेणान्यथा गच्छत मा चिरम् ॥ ४१ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य मुने विष्ण्वादयः सुराः ।
तथेति मत्त्वा सुप्रीत्या शंकरं तुष्टुवुर्हि ते ॥ ४२ ॥
देवदेव महादेव करुणासागर प्रभो ।
समुद्धर महाक्लेशात्त्राहि नः शरणागतान् ॥ ४३ ॥
ब्रह्मोवाच
इत्येवं बहुदीनोक्त्या तुष्टुवुः शंकरं सुराः ।
रुरुदुःसुस्वरं सर्वे प्रेमव्याकुलमानसः ॥ ४४ ॥
हरिर्मया सुदीनोक्त्या सुविज्ञप्तं चकार ह ।
संस्मरन्मनसा शम्भुं भक्त्या परमयान्वितः ॥ ४५ ॥
ब्रह्मोवाच
सुरैरेवं स्तुतः शम्भुर्हरिणा च मया भृशम् ।
भक्तवात्सल्यतो ध्यानाद्विरतोभून्महेश्वरः ॥ ४६ ॥
उवाच सुप्रसन्नात्मा हर्यादीन्हर्षयन्हरः ।
विलोक्य करुणादृष्ट्या शंकरो भक्तवत्सलः ॥ ४७ ॥
शंकर उवाच
हे हरे हे विधे देवाः शक्राद्या युगपत्समे ।
किमर्थमागता यूयं सत्यं ब्रूत ममाग्रतः ॥ ४८ ॥
हरिरुवाच
सर्वज्ञस्त्वं महेशान त्वन्तर्याम्यखिलेश्वरः ।
किं न जानासि चित्तस्थं तथा वच्म्यपि शासनात् ॥ ४९ ॥
तारकासुरतो दुःखं सम्भूतं विविधं मृड ।
सर्वेषां नस्तदर्थं हि प्रसन्नोऽकारि वै सुरैः ॥ ५० ॥
शिवा सा जनिता शैलात्त्वदर्थं हि हिमालयात् ।
तस्यां त्वदुद्‌भवात्पुत्रात्तस्य मृत्युर्न चान्यथा ॥ ५१ ॥
इति दत्तो ब्रह्मणा हि तस्मै दैत्याय यद्वरः ।
तदन्यस्मादमृत्युः स बाधते निखिलं जगत् ॥ ५२ ॥
नारदस्य निर्देशात्सा करोति कठिनं तपः ।
तत्तेजसाखिलं व्याप्तं त्रैलोक्यं सचराचरम् ॥ ५३ ॥
वरं दातुं शिवायै हि गच्छ त्वं परमेश्वर ।
देवदुःखं जहि स्वामिन्नस्माकं सुखमावह ॥ ५४ ॥
देवानां मे महोत्साहो हृदये चास्ति शंकर ।
विवाहं तव सन्द्रष्टुं तत्त्वं कुरु यथोचितम् ॥ ५५ ॥
रत्यै यद्‌भवता दत्तो वरस्तस्य परात्पर ।
प्राप्तोऽवसर एवाशु सफलं स्वपणं कुरु ॥ ५६ ॥
ब्रह्मोवाच
इत्युक्त्वा तं प्रणम्यैव विष्णुर्देवा महर्षयः ।
संस्तूय विविधैस्तोत्रैः सन्तस्थुस्तत्पुरोऽखिलाः ॥ ५७ ॥
भक्ताधीनः शंकरोऽपि श्रुत्वा देववचस्तदा ।
विहस्य प्रत्युवाचाशु वेदमर्यादरक्षकः ॥ ५८ ॥
शंकर उवाच
हे हरे हे विधे देवाः शृणुतादरतोऽखिलाः ।
यथोचितमहं वच्मि सविशेषं विवेकतः ॥ ५९ ॥
नोचितं हि विधानं वै विवाहकरणं नृणाम् ।
महानिगडसञ्ज्ञो हि विवाहो दृढबन्धनः ॥ ६० ॥
कुसङ्‌गा बहवो लोके स्त्रीसङ्‌गस्तत्र चाधिकः ।
उद्धरेत्सकलैबन्धैर्न स्त्रीसङ्‌गात्प्रमुच्यते ॥ ६१ ॥
लोहदारुमयैः पाशैर्दृढं बद्धोऽपि मुच्यते ।
स्त्र्यादिपाशसुसम्बद्धो मुच्यते न कदाचन ॥ ६२ ॥
वर्द्धन्ते विषयाः शश्वन्महाबन्धनकारिणः ।
विषयाक्रान्तमनसः स्वप्ने मोक्षोऽपि दुर्लभः ॥ ६३ ॥
सुखमिच्छतु चेत्प्राज्ञो विधिवद्विषयाँस्त्यजेत् ।
विषवद्विषयानाहुर्विषयैर्यैर्निहन्यते ॥ ६४ ॥
जनो विषयिणा साकं वार्तातः पतति क्षणात् ।
विषयं प्राहुराचार्याः सितालितेन्द्रवारुणीम् ॥ ६५ ॥
यद्यप्येवं हि जानामि सर्वं ज्ञानं विशेषतः ।
तथाप्यहं करिष्यामि प्रार्थनां सफलां च वः ॥ ६६ ॥
भक्ताधीनोऽहमेवास्मि तद्वशात्सर्वकार्यकृत् ।
अयथोचितकर्ता हि प्रसिद्धो भुवनत्रये ॥ ६७ ॥
कामरूपाधिपस्यैव पणश्च सफलः कृतः ।
सुदक्षिणस्य भूपस्य मर्मबन्धगतस्य हि ॥ ६८ ॥
गौतमक्लेशकर्ताहं त्र्यम्बकात्मा सुखावहः ।
तत्कष्टप्रददुष्टानां शापदायी विशेषतः ॥ ६९ ॥
विषं पीतं सुरार्थं हि भक्तवत्सलभावधृक् ।
देवकष्टं हृतं यत्नात्सर्वदैव मया सुराः ॥ ७० ॥
भक्तार्थमसहं कष्टं बहुशो बहुयत्नतः ।
विश्वानर मुनेर्दुःखं हृतं गृहपतिर्भवन् ॥ ७१ ॥
किं बहूक्तेन च हरे विधे सत्यं ब्रवीम्यहम् ।
मत्पणोऽस्तीति यूयं वै सर्वे जानीथ तत्त्वतः ॥ ७२ ॥
यदा यदा विपत्तिर्हि भक्तानां भवति क्वचित् ।
तदा तदा हरम्याशु तत्क्षणात्सर्वशःसदा ॥ ७३ ॥
जानेऽहं तारकाद्दुःखं सर्वेषां वः समुत्थितम् ।
असुरात्तद्धरिष्यामि सत्यं सत्यं वदाम्यहम् ॥ ७४ ॥
नास्ति यद्यपि मे काचिद्विहारकरणे रुचिः ।
विवाहयिष्ये गिरिजां पुत्रोत्पादनहेतवे ॥ ७५ ॥
गच्छत स्वगृहाण्येव निर्भयाःसकलाः सुराः ।
कार्यं वः साधयिष्यामि नात्र कार्या विचारणा ॥ ७६ ॥
ब्रह्मोवाच
इत्युक्त्वा मौनमास्थाय समाधिस्थोऽभवद्धरः ।
सर्वे विष्ण्वादयो देवाःस्वधामानि ययुर्मुने ॥ ७७ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे पार्वतीविवाहस्वीकारो नाम चतुर्विशोऽध्यायः ॥ २४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP