|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
त्रयोविंशोऽध्यायः
शिवेन पार्वतीसान्त्वनम्
ब्रह्मोवाच
एवं तपत्यां पार्वत्यां शिवप्राप्तौ मुनीश्वर । चिरकालो व्यतीयाय प्रादुर्भूतो हरो न हि ॥ १ ॥ हिमालयस्तदागत्य पार्वतीं कृतनिश्चयाम् । सभार्यः ससुतामात्य उवाच परमेश्वरीम् ॥ २ ॥ हिमालय उवाच मा खिद्यतां महाभागे तपसानेन पार्वती । रुद्रो न दृश्यते बाले विरक्तो नात्र संशयः ॥ ३ ॥ त्वं तन्वी सुकुमाराङ्गी तपसा च विमोहिता । भविष्यसि न सन्देहः सत्यं सत्यं वदामि ते ॥ ४ ॥ तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं वरवर्णिनि । किं तेन तव रुद्रेण येन दग्धः पुरा स्मरः ॥ ५ ॥ अतो हि निर्विकारत्वात्त्वामादातुं वरां हरः । नागमिष्यति देवेशि तं कथं प्रार्थयिष्यसि ॥ ६ ॥ गगनस्थो यथा चन्द्रो ग्रहीतुं न हि शक्यते । तथैव दुर्गमं शम्भुं जानीहि त्वमिहानघे ॥ ७ ॥ ब्रह्मोवाच तथैव मेनया चोक्ता तथा सह्याद्रिणा सती । मेरुणा मन्दरेणैव मैनाकेन तथैव सा ॥ ८ ॥ एवमन्यैः क्षितिध्रैश्च क्रौञ्चादिभिरनातुरा । तथैव गिरिजा प्रोक्ता नानावादविधायिभिः ॥ ९ ॥ ब्रह्मोवाच एवं प्रोक्ता यदा तन्वी सा सर्वैस्तपसि स्थिता । उवाच प्रहसन्त्येव हिमवन्तं शुचिस्मिता ॥ १० ॥ पार्वत्युवाच पुरा प्रोक्तं मया तात मातः किं विस्मृतं त्वया । अधुनापि प्रतिज्ञां च शृणुध्वं मम बान्धवाः ॥ ११ ॥ विरक्तोसौ महादेवो येन दग्धा रुषा स्मरः । तं तोषयामि तपसा शंकरं भक्तवत्सलम् ॥ १२ ॥ सर्वे भवन्तो गच्छन्तु स्वं स्वं धाम प्रहर्षिताः । भविष्यत्येव तुष्टोऽसौ नात्र कार्या विचारणा ॥ १ ३ ॥ दग्धो हि मदनो येन येन दग्धं गिरेर्वनम् । तमानयिष्ये चात्रैव तपसा केवलेन हि ॥ १४ ॥ तपोबलेन महता सुसेव्यो हि सदाशिवः । जानीध्वं हि महाभागाः सत्यं सत्यं वदामि वः ॥ १५ ॥ आभाष्य चैवं गिरिजा च मेनकां मैनाकबन्धुं पितरं हिमालयम् । तूष्णीं बभूवाशु सुभाषिणी शिवा समन्दरं पर्वतराजबालिका ॥ १६ ॥ जग्मुस्तथोक्ताः शिवया हि पर्वता यथागतेनापि विचक्षणास्ते । प्रशंसमाना गिरिजां मुहुर्मुहुः सुविस्मिता हेमनगेश्वराद्याः ॥ १७ ॥ गतेषु तेषु सूर्येषु सखीभिः परिवारिता । तपस्तेपे तदधिकं परमार्थसुनिश्चया ॥ १८ ॥ तपसा महता तेन तप्तमासीच्चराचरम् । त्रैलोक्यं हि मुनिश्रेष्ठ सदेवासुरमानुषम् ॥ १९ ॥ तदा सुरासुराः सर्वे यक्षकिन्नरचारणाः । सिद्धाःसाध्याश्च मुनयो विद्याधरमहोरगाः ॥ २० ॥ सप्रजापतयश्चैव गुह्यकाश्च तथापरे । कष्टात् कष्टतरं प्राप्ताः कारणं न विदुः स्म तत् ॥ २१ ॥ सर्वे मिलित्वा शक्राद्या गुरुमामन्त्र्य विह्वलाः । सुमेरौ तप्तसर्वाङ्गा विधिं मां शरणं ययुः ॥ २२ ॥ तत्र गत्वा प्रणम्याशु विह्वला नष्टसुत्विषः । ऊचुःसर्वे च संस्तूय ह्यैकपद्येन मां हि ते ॥ २३ ॥ देवा ऊचुः त्वया सृष्टमिदं सर्वं जगदेतच्चराचरम् । सन्तप्तमति कस्माद्वै न ज्ञातं कारणं विभो ॥ २४ ॥ तद्ब्रूहि कारणं ब्रह्मन् ज्ञातुमर्हसि नः प्रभो । दग्धभूततनून्देवान् त्वत्तो नान्योऽस्ति रक्षक ॥ २५ ॥
ब्रह्मोवाच इत्याकर्ण्य वचस्तेषामहं स्मृत्वा शिवं हृदा । विचार्य मनसा सर्वं गिरिजायास्तपः फलम् ॥ २६ ॥ दग्धं विश्वमिति ज्ञात्वा तैः सर्वैरिह सादरात् । हरये तत्कथयितुं क्षीराब्धिमगमं द्रुतम् ॥ २७ ॥ तत्र गत्वा हरिं दृष्ट्वा विलसन्तं सुखासने । सुप्रणम्य सुसंस्तूय प्रावोचं साञ्जलिः सुरैः ॥ २८ ॥ त्राहि त्राहि महाविष्णो तप्तान्नः शरणागतान् । तपसोग्रेण पार्वत्यास्तपत्याः परमेण हि ॥ २९ ॥ इत्याकर्ण्य वचस्तेषामस्मदादि दिवौकसाम् । शेषासने समाविष्टोऽस्मानुवाच रमेश्वरः ॥ ३० ॥ विष्णुरुवाच ज्ञातं सर्वं निदानं मे पार्वती तपसोऽद्य वै । युष्माभिः सहितस्त्वद्य व्रजामि परमेश्वरम् ॥ ३१ ॥ महादेवं प्रार्थयामो गिरिजाप्रापणाय तम् । पाणिग्रहार्थमधुना लोकानां स्वस्तयेऽमराः ॥ ३२ ॥ वरं दातुं शिवायै हि देवदेवः पिनाकधृक् । यथा चैष्यति तत्रैव करिष्यामोऽधुना हि तत् ॥ २३ ॥ तस्माद्वयं गमिष्यामो यत्र रुद्रो महाप्रभुः । तपसोग्रेण संयुक्तोऽद्यास्ते परममंगलः ॥ ३४ ॥ ब्रह्मोवाच विष्णोस्तद्वचनं श्रुत्वा सर्व ऊचुः सुरादयः । महाभीता हठात् क्रुद्धाद्दग्धुकामात् लयङ्करात् ॥ ३५ ॥ देवा ऊचुः महाभयङ्करं क्रुद्धं कालानलसमप्रभम् । न यास्यामो वयं सर्वे विरूपाक्षं महाप्रभुम् ॥ ३६ ॥ यथा दग्धः पुरा तेन मदनो दुरतिक्रमः । तथैव क्रोधयुक्तो नः स धक्ष्यति न संशयः ॥ ३७ ॥ ब्रह्मोवाच - तदाकर्ण्य वचस्तेषां शक्रादीनां रमेश्वरः । सान्त्वयंस्तान्सुरान्सर्वान्प्रोवाच स हरिर्मुने ॥ ३८ ॥ हरिरुवाच हे सुरा मद्वचः प्रीत्या शृणुतादरतोऽखिलाः । न वो धक्ष्यति स स्वामी देवानां भयनाशनः ॥ ३९ ॥ तस्माद्भवद्भिर्गन्तव्यं मया सार्द्धं विचक्षणैः । शम्भुं शुभकरं मत्वा शरणं तस्य सुप्रभोः ॥ ४० ॥ शिवं पुराणं पुरुषमधीशं वरेण्यरूपं हि परं पुराणम् । तपोजुषाणां परमात्मरूपं परात्परं तं शरणं व्रजामः ॥ ४१ ॥ ब्रह्मोवाच एवमुक्तास्तदा देवा विष्णुना प्रभविष्णुना । जग्मुः सर्वे तेन सह द्रष्टुकामाः पिनाकिनम् ॥ ४२ ॥ प्रथमं शैलपुत्र्यास्तत्तपो द्रष्टुं तदाश्रमम् । जग्मुर्मार्गवशात्सर्वे विष्ण्वाद्यःसकुतूहलाः ॥ ४३ ॥ पार्वत्याः सुतपो दृष्ट्वा तेजसा व्यापृतास्तदा । प्रणेमुस्तां जगद्धात्रीं तेजोरूपां तपःस्थिताम् ॥ ४४ ॥ प्रशंसन्तस्तपस्तस्याः साक्षात्सिद्धितनोः सुराः । जग्मुस्तत्र तदा ते च यत्रास्ते वृषभध्वजः ॥ ४५ ॥ तत्र गत्वा च ते देवास्त्वां मुने प्रैषयंस्तदा । पश्यतो दूरतस्तस्थुः कामभस्मकृतो हरात् ॥ ४६ ॥ नारद त्वं शिवस्थानं तदा गत्वाऽभयःसदा । शिवभक्तो विशेषेण प्रसन्नं दृष्टवान् प्रभुम् ॥ ४७ ॥ पुनरागत्य यत्नेन देवानाहूय तांस्ततः । निनाय शंकरस्थानं तदा विष्ण्वादिकान्मुने ॥ ४८ ॥ अथ विष्ण्वादयःसर्वे तत्र गत्वा शिवं प्रभुम् । ददृशुःसुखमासीनं प्रसन्नं भक्तवत्सलम् ॥ ४९ ॥ योगपट्टस्थितं शम्भुं गणैश्च परिवारितम् । तपोरूपं दधानं च परमेश्वररूपिणम् ॥ ५० ॥ ततो विष्णुर्मयाऽन्ये च सुरसिद्धमुनीश्वराः । प्रणम्य तुष्टुवुः सूक्तैर्वेदोपनिषदन्वितैः ॥ ५१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती- खण्डे पार्वतीसान्त्वनशिवदेवदर्शनवर्णनं नाम त्रयोविंशोऽध्यायः श्रीगौरीशंकरार्पणमस्तु |