|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
द्वाविंशोऽध्यायः
पार्वतीतपोवर्णनम्
ब्रह्मोवाच
त्वयि देवमुने याते पार्वती हृष्टमानसा । तपःसाध्यं हरं मेने तपोर्थं मन आदधे ॥ १ ॥ ततः सख्यौ समादाय जयां च विजयां तथा । मातरं पितरं चैव सखीभ्यां पर्यपृच्छत ॥ २ ॥ प्रथमं पितरं गत्वा हिमवन्तं नगेश्वरम् । पर्यपृच्छत्सुप्रणम्य विनयेन समन्विता ॥ ३ ॥ सख्यावूचतुः - हिमवञ्च्छ्रूयतां पुत्री वचनं कथ्यतेऽधुना ॥ सा स्वयं चैव देहस्य रूपस्यापि तथा पुनः । ४ ॥ भवतो हि कुलस्यास्य साफल्यं कर्तुमिच्छति । तपसा साधनीयोऽसौ नान्यथा दृश्यतां व्रजेत् ॥ ५ ॥ तस्माच्च पर्वतश्रेष्ठ देयाऽऽज्ञां भवताधुना । तपः करोतु गिरिजा वनं गत्वेति सादरम् ॥ ६ ॥ ब्रह्मोवाच इत्येवं च तदा पृष्टः सखीभ्यां मुनिसत्तम । पार्वत्या सुविचार्याथ गिरिराजोऽब्रवीदिदम् ॥ ७ ॥ हिमालय उवाच मह्यं च रोचतेऽत्यर्थं मेनायै रुच्यतां पुनः । यथेदं भवितव्यं च किमतः परमुत्तमम् ॥ ८ ॥ साफल्यं तु मदीयस्य कुलस्य च न संशयः । मात्रे तु रुच्यते चेद्वै ततः शुभतरं नु किम् ॥ ९ ॥ ब्रह्मोवाच इत्येवं वचनं पित्रा प्रोक्तं श्रुत्वा तु ते तदा । जग्मतुर्मातरं सख्यौ तदाज्ञप्ते तया सह ॥ १० ॥ गत्वा तु मातरं तस्याः पार्वत्यास्ते च नारद । सुप्रणम्य करो बध्वोचतुर्वचनमादरात् ॥ ११ ॥ सख्यावूचतुः - मातस्त्वं वचनं पुत्र्याः शृणु देवि नमोऽस्तु ते ॥ सुप्रसन्नतया तद्वै श्रुत्वा कर्तुमिहार्हसि । १२ ॥ तप्तुकामा तु ते पुत्री शिवार्थं परमं तपः । प्राप्तानुज्ञा पितुश्चैव तुभ्यं च परिपृच्छति ॥ १३ ॥ इयं स्वरूपसाफल्यं कर्तुकामा पतिव्रते । त्वदाज्ञया यदि जायेत तप्यते च तथा तपः ॥ १४ ॥ ब्रह्मोवाच इत्युक्त्वा च ततःसख्यौ तूष्णीमास्तां मुनीश्वर । नाङ्गीचकार मेना सा तद्वाक्यं खिन्नमानसा ॥ १५ ॥ ततः सा पार्वती प्राह स्वयमेवाथ मातरम् । करौ बद्ध्वा विनीतात्मा स्मृत्वा शिवपदाम्बुजम् ॥ १६ ॥ पार्वत्युवाच मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् । अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् ॥ १७ ॥ ब्रह्मोवाच इत्याकर्ण्य वचः पुत्र्या मेना दुःखमुपागता । सोपाहूय तदा पुत्रीमुवाच विकला सती ॥ १८ ॥ मेनोवाच दुःखितासि शिवे पुत्री तपस्तप्तुं पुरा यदि । तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति ॥ १९ ॥ कुत्र यासि तपः कर्तुं देवाः सन्ति गृहे मम । तीर्थानि च समस्तानि क्षेत्राणि विविधानि च ॥ २० ॥ कर्तव्यो न हठः पुत्रि गन्तव्यं न बहिः क्वचित् । साधितं किं त्वया पूर्वं पुनः किं साधयिष्यसि ॥ २१ ॥ शरीरं कोमलं वत्से तपस्तु कठिनं महत् । एवस्मात्तु त्वया कार्यं तपोऽत्र न बहिर्व्रज ॥ २२ ॥ स्त्रीणां तपोवनगतिर्न श्रुता कामनार्थिनी । तस्मात्त्वं पुत्रि मा कार्षीस्तपोर्थं गमनं प्रति ॥ २३ ॥ ब्रह्मोवाच इत्येवं बहुधा पुत्री तन्मात्रा विनिवारिता । संवेदे न सुखं किञ्चिद्विनाराध्य महेश्वरम् ॥ २४ ॥ तपोनिषिद्धा तपसे वनं गन्तुं च मेनया । हेतुना तेन सोमेति नाम प्राप शिवा तदा ॥ २५ ॥ अथ तां दुखितां ज्ञात्वा मेना शैलप्रिया शिवाम् । निदेशं सा ददौ तस्याः पार्वत्यास्तपसे मुने ॥ २६ ॥ मातुराज्ञां च सम्प्राप्य सुव्रता मुनिसत्तम । ततः स्वान्ते सुखं लेभे पार्वती स्मृतशंकरा ॥ २७ ॥ मातरं पितरं साथ प्रणिपत्य मुदा शिवा । सखीभ्यां च शिवं स्मृत्वा तपस्तप्तुं समुद्गता ॥ २८ ॥ हित्वा मतान्यनेकानि वस्त्राणि विविधानि च । वल्कलानि धृतान्याशु मौञ्जीं बद्ध्वा तु शोभनाम् ॥ २९ ॥ हित्वा हारं तथा चर्म मृगस्य परमं धृतम् । जगाम तपसे तत्र गङ्गावतरणं प्रति ॥ ३० ॥ शम्भुना कुर्वता ध्यानं यत्र दग्धो मनोभवः । गङ्गावतरणो नाम प्रस्थो हिमवतःस च ॥ ३१ ॥ हरशून्योऽथ ददृशे स प्रस्थो हिमभूभृतः । काल्या तत्रेत्य भोस्तात पार्वत्या जगदम्बया ॥ ३२ ॥ यत्र स्थित्वा पुरा शम्भुस्तप्तवान्दुस्तरं तपः । तत्र क्षणं तु सा स्थित्वा बभूव विरहार्दिता ॥ ३३ ॥
हा हरेति शिवा तत्र रुदन्ती सा गिरेः सुता । विललापातिदुःखार्ता चिन्ताशोकसमन्विता ॥ ३४ ॥ ततश्चिरेण सा मोहं धैर्यात्संस्तभ्य पार्वती । नियमायाऽभवत्तत्र दीक्षिता हिमवत्सुता ॥ ३५ ॥ तपश्चकार सा तत्र शृङ्गितीर्थे महोत्तमे । गौरीशिखरनामासीत्तत्तपः करणाद्धि तत् ॥ ३६ ॥ सुन्दराश्च द्रुमास्तत्र पवित्राः शिवया मुने । आरोपिताः परीक्षार्थं तपसः फलभागिनः ॥ ३७ ॥ भूभिशुद्धिं ततः कृत्वा वेदीं निर्माय सुन्दरी । तथा तपःसमारब्धं मुनीनामपि दुष्करम् ॥ ३८ ॥ विगृह्य मनसा सर्वाणीन्द्रियाणि सहाशु सा । समुपस्थानिके तत्र चकार परमं तपः ॥ ३९ ॥ ग्रीष्मे च परितो वह्निं प्रज्वलन्तं दिवानिशम् । कृत्वा तस्थौ च तन्मध्ये सततं जपती मनुम ॥ ४० ॥ सततं चैव वर्षासु स्थण्डिले सुस्थिरासना । शिलापृष्ठे च संसिक्ता बभूव जलधारया ॥ ४१ ॥ शीते जलान्तरे शश्वत्तस्थौ सा भक्तितत्परा । अनाहाराऽतपत्तत्र नीहारेषु निशासु च ॥ ४२ ॥ एवं तपः प्रकुर्वाणा पञ्चाक्षरजपे रता । दध्यौ शिवं शिवा तत्र सर्वकामफलप्रदम् ॥ ४३ ॥ स्वारोपिताच्छुभान्वृक्षान्सखीभिः सिञ्चती मुदा । प्रत्यहं सावकाशे सा तत्रातिथ्यमकल्पयत् ॥ ४४ ॥ वातश्चैव तथा शीतवृष्टिश्च विविधा तथा । दुःसहोऽपि तथा घर्मस्तया सेहे सुचित्तया ॥ ४५ ॥ दुःखं च विविधं तत्र गणितं न तयागतम् । केवलं मन आधाय शिवे सासीत्स्थिता मुने ॥ ४६ ॥ प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः । तपः प्रकुर्वती देवी क्रमान्निन्येऽमिताः समाः ॥ ४७ ॥ ततः पर्णान्यपि शिवा निरस्य हिमवत्सुता । निराहाराभवद्देवी तपश्चरणसंरता ॥ ४८ ॥ आहारे त्यक्तपर्णाभूद्यस्माद्धिमवतः सुतः । तेन देवैरपर्णेति कथिता नामतः शिवा ॥ ४९ ॥ एकपादस्थिता सासीच्छिवं संस्मृत्य पार्वती । पञ्चाक्षरं जपन्ती च मनुं तेपे तपो महत् ॥ ५० ॥ चीरवल्कलसंवीता जटासङ्घातधारिणी । शिवचिन्तनसंसक्ता जिगाय तपसा मुनीम् ॥ ५१ ॥ एवं तस्यास्तपस्यन्त्या चिन्तयन्त्या महेश्वरम् । त्रीणि वर्षसहस्राणि जग्मुः काल्यास्तपोवने ॥ ५२ ॥ षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः । तत्र क्षणमथोषित्वा चिन्तयामास सा शिवा ॥ ५३ ॥ नियमस्थां महादेव किं मां जानासि नाधुना । येनाहं सुचिरं तेन नानुयाता तपोरता ॥ ५४ ॥ लोके वेदे च गिरिशो मुनिभिर्गीयते सदा । शंकरस्य हि सर्वज्ञः सर्वात्मा सर्वदर्शनः ॥ ५५ ॥ सर्वभूतिप्रदो देवःसर्वभावानुभावनः । भक्ताभीष्टप्रदो नित्यं सर्वक्लेशनिवारणः ॥ ५६ ॥ सर्वकामान्परित्यज्य यदि चाहं वृषध्वजे । अनुरक्ता तदा सोऽत्र सम्प्रसीदतु शंकरः ॥ ५७ ॥ यदि नारद तंत्रोक्तमन्त्रो जप्तः शराक्षरः । सुभक्त्या विधिना नित्यं सम्प्रसीदतु शंकरः ॥ ५८ ॥ यदि भक्त्या शिवस्याहं निर्विकारा यथोदितम् । सर्वेश्वरस्य चात्यन्तं सम्प्रसीदतु शंकरः ॥ ५९ ॥ एवं चिन्तयती नित्यं तेपे सा सुचिरं तपः । अधोमुखी निर्विकारा जटावल्कलधारिणी ॥ ६० ॥ तथा तया तपस्तप्तं मुनीनामपि दुष्करम् । स्मृत्वा च पुरुषास्तत्र परमं विस्मयं गताः ॥ ६१ ॥ तत्तपोदर्शनार्थं हि समाजग्मुश्च तेऽखिलाः । धन्यान्निजान्मन्यमाना जगदुश्चेति सम्मताः ॥ ६२ ॥ महतां धर्मवृद्धेषु गमनं श्रेय उच्यते । प्रमाणं तपसो नास्ति मान्यो धर्मःसदा बुधैः ॥ ६३ ॥ श्रुत्वा दृष्ट्वा तपोऽस्यास्तु किमन्यैः क्रियते तपः । अस्मात्तपोऽधिकं लोके न भूतं न भविष्यति ॥ ६४ ॥ जल्पन्त इति ते सर्वे सुप्रशस्य शिवातपः । जग्मुः स्वं धाम मुदिताः कठिनाङ्गाश्च ये ह्यपि ॥ ६५ ॥ अन्यच्छृणु महर्षे त्वं प्रभावं तपसोऽधुना । पार्वत्या जगदम्बायाः पराश्चर्यकरं महत् ॥ ६६ ॥ तदाश्रमगता ये च स्वभावेन विरोधिनः । तेऽप्यासँस्तत्प्रभावेण विरोधरहितास्तदा ॥ ६७ ॥ सिंहा गावश्च सततं रागादिदोषसंयुताः । तन्महिम्ना च ते तत्र नाबाधन्त परस्परम् ॥ ६८ ॥ अथान्ये च मुनिश्रेष्ठ मार्ज्जारा मूषकादयः । निसर्गाद्वैरिणो यत्र विक्रियन्ते स्म न क्वचित् ॥ ६९ ॥ वृक्षाश्च सफलास्तत्र तृणानि विविधानि च । पुष्पाणि च विचित्राणि तत्रासन्मुनिसत्तम ॥ ७० ॥ तद्वनं च तदा सर्वं कैलासेनोपमान्वितम् । जातं च तपसः तस्याः सिद्धिरूपमभूत्तदा ॥ ७१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीतपोवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥ श्रीगौरीशंकरार्पणमस्तु |