॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

एकोनविंशोऽध्यायः

शिवेन कामदेवविनाशः


नारद उवाच
ब्रह्मन्विधे महाभाग किं जातं तदनन्तरम् ।
कथय त्वं प्रसादेन तां कथां पापनाशिनीम् ॥ १ ॥
ब्रह्मोवाच
श्रूयतां सा कथा तात यज्जातं तदनन्तरम् ।
तव स्नेहात्प्रवक्ष्यामि शिवलीलां मुदावहाम् ॥ २ ॥
धैर्यस्य व्यसनं दृष्ट्‍वा महायोगी महेश्वरः ।
विचिचिन्त मनस्येवं विस्मितोऽतिततः परम् ॥ ३ ॥
शिव उवाच
किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम् ।
केन मे विकृतं चित्तं कृतमत्र कुकर्मिणा ॥ ४ ॥
कुवर्णनं मया प्रीत्या परस्त्र्युपरि वै कृतम् ।
जातो धर्मविरोधोऽत्र श्रुतिसीमा विलङ्‌घिता ॥ ५ ॥
ब्रह्मोवाच
विचिन्त्येत्थं महायोगी परमेशः सतां गतिः ।
दिशो विलोकयामास परितः शङ्‌कितस्तदा ॥ ६ ॥
वामभागे स्थितं कामं ददर्शाकृष्टबाणकम् ।
स्वशरं क्षेप्तुकामं हि गर्वितं मूढचेतसम् ॥ ७ ॥
तं दृष्ट्‍वा तादृशं कामं गिरीशस्य परात्मनः ।
सञ्जातः क्रोधसंमर्दस्तत्क्षणादपि नारद ॥ ८ ॥
कामः स्थितोऽन्तरिक्षे स धृत्वा तत्सशरं धनुः ।
चिक्षेपास्त्रं दुर्निवारममोघं शंकरे मुने ॥ ९ ॥
बभूवामोघमस्त्रं तु मोघं तत्परमात्मनि ।
समशाम्यत्ततस्तस्मिन्सङ्‌कुद्धं परमेश्वरे ॥ १० ॥
मोघीभूते शिवे स्वेऽस्त्रे भयमापाशु मन्मथः ।
चकम्पे च पुरः स्थित्वा दृष्ट्‍वा मृत्युञ्जयं प्रभुम् ॥ ११ ॥
सस्मार त्रिदशान्सर्वान्छक्रादीन्भयविह्वलः ।
स स्मरो मुनिशार्दूल स्वप्रयासे निरर्थके ॥ १२ ॥
कामेन सुस्मृता देवाः शक्राद्यास्ते मुनीश्वर ।
आययुः सकलास्ते हि शम्भुं नत्वा च तुष्टुवुः ॥ १३ ॥
स्तुतिं कुर्वत्सु देवेषु कुद्धस्याति हरस्य हि ।
तृतीयात्तस्य नेत्राद्वै निःससार ततो महान् ॥ १४ ॥
ललाट मध्यगात्तस्मात्सवह्निर्द्रुतसम्भवः ।
जज्वालोर्ध्वशिखो दीप्तः प्रलयाग्निसमप्रभः ॥ १५ ॥
उत्पत्य गगने तूर्णं निष्पत्य धरणी तले ।
भ्रामं भ्रामं स्वपरितः पपात मेदिनीं परि ॥ १६
भस्मसात्कृतवान्साधो मदनं तावदेव हि ।
यावच्च मरुतां वाचः क्षम्यतां क्षम्यतामिति ॥ १७ ॥
हते तस्मिन्स्मरे वीरे देव दुःखमुपागताः ।
रुरुदुर्विह्वलाश्चातिक्रोशंतः किमभूदिति ॥ १८ ॥
श्वेताङ्‌गा विकृतात्मा च गिरिराजसुता तदा ।
जगाम मन्दिरं स्वं च समादाय सखीजनम् ॥ १९ ॥
क्षणमात्रं रतिस्तत्र विसञ्ज्ञा साऽभवत्तदा ।
भर्तृमृत्युजदुःखेन पतिता सा मृता इव ॥ २० ॥
जातायां चैव सञ्ज्ञायां रतिरत्यन्तविह्वला ।
विललाप तदा तत्रोच्चरन्ती विविधं वचः ॥ २१ ॥
रतिरुवाच
किं करोमि क्व गच्छामि किं कृतं दैवतैरिह ।
मत्स्वामिनं समाहूय नाशयामासुरुद्धतम् ॥ २२ ॥
हा हा नाथ स्मर स्वामिन्प्राणप्रिय सुखप्रद ।
इदं तु किमभूदत्र हा हा प्रिय प्रियेति च ॥ २३ ॥
ब्रह्मोवाच
इत्थं विलपती सा तु वदन्ती बहुधा वचः ।
हस्तौ पादौ तदास्फाल्य केशानत्रोटयत्तदा ॥ २४ ॥
तद्विलापं तदा श्रुत्वा तत्र सर्वे वनेचराः ।
अभवन्दुःखिताःसर्वे स्थावरा अपि नारद ॥ २५ ॥
एतस्मिन्नन्तरे तत्र देवाः शक्रादयोऽखिलाः ।
रतिमूचुः समाश्वास्य संस्मरन्तो महेश्वरम् ॥ २६ ॥
देवा ऊचुः
किञ्चिद्‌भस्म गृहीत्वा तु रक्ष यत्नाद्‌भयं त्यज ।
जीवयिष्यति स स्वामी लप्स्यसे त्वं पुनः प्रियम् ॥ २७ ॥
सुखदाता न कोप्यस्ति दुःखदाता न कश्चन ।
सर्वोऽपि स्वकृतं भुङ्‌क्ते देवाञ्शोचसि वै वृथा ॥ २८ ॥
ब्रह्मोवाच
इत्याश्वास्य रतिं देवाः सर्वे शिवमुपागताः ।
सुप्रसाद्य शिवं भक्त्या वचनं चेदमब्रुवन् ॥ २९ ॥
देवा ऊचुः
भगवञ्छ्रूयतोमेतद्वचनं नः शुभं प्रभो ।
कृपां कृत्वा महेशान शरणागतवत्सल ॥ ३० ॥
सुविचारय सुप्रीत्या कृतिं कामस्य शंकर ।
कामेनैतत्कृतं यत्र न स्वार्थं तन्महेश्वर ॥ ३१ ॥
दुष्टेन पीडितैर्देवैस्तारकेणाऽखिलैर्विभो ।
कर्म तत्कारितं नाथ नान्यथा विद्धि शंकर ॥ ३२ ॥
रतिरेकाकिनी देव विलापं दुःखिता सती ।
करोति गिरिश त्वं च तामाश्वासय सर्वदा ॥ ३३ ॥
संहारं कर्तुकामोऽसि क्रोधेनानेन शंकर ।
दैवतैः सह सर्वेषां हतवांस्तं यदि स्मरम् ॥ ३४ ॥
दुःखं तस्या रतेर्दृष्ट्‍वा नष्टप्रायाश्च देवताः ।
तस्मात्त्वया च कर्त्तव्यं रत्या शोकापनोदनम् ॥ ३५ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां प्रसन्नो भगवाञ्छिवः ।
देवानां सकलानां च वचनं चेदमब्रवीत् ॥ ३६ ॥
शिव उवाच
देवाश्च ऋषयः सर्वे मद्वचः शृणुतादरात् ।
मत्कोपेन च यज्जातं तत्तथा नान्यथा भवत् ॥ ३७ ॥
अनङ्‌गस्तावदेव स्यात्कामो रतिपतिः प्रभुः ।
यावच्चावतरेत्कृष्णो धरण्यां रुक्मिणीपतिः ॥ ३८ ॥
द्वारकायां यदा स्थित्वा पुत्रानुत्पादयिष्यति ।
तदा कृष्णस्तु रुक्मिण्यां काममुत्पादयिष्यति ॥ ३९ ॥
प्रद्युम्ननाम तस्यैव भविष्यति न संशयः ।
जातमात्रं तु तं पुत्रं शम्बरः संहरिष्यति ॥ ४० ॥
हृत्वा प्रास्य समुद्रे तं शम्बरो दानवोत्तमः ।
मृतं ज्ञात्वा वृथा मूढो नगरं स्वं गमिष्यति ॥ ४१ ॥
तावच्च नगरं तस्य रते स्थेयं यथासुखम् ।
तत्रैव स्वपतेः प्राप्तिः प्रद्युम्नस्य भविष्यति ॥ ४२ ॥
तत्र कामो मिलित्वा तं हत्वा शम्बरमाहवे ।
भविष्यति सुखी देवाः प्रद्युम्नाख्यः स्वकामिनीम् ॥ ४३ ॥
तदीयं चैव यद्द्रव्यं नीत्वा स नगरं पुनः ।
गमिष्यति तया सार्द्धं देवाः सत्यं वचो मम ॥ ४४ ॥
ब्रह्मोवाच
इति श्रुत्वा वचः शम्भोर्देवा ऊचुः प्रणम्य तम् ।
किञ्चिदुच्छ्‍वसिताश्चित्ते करौ बद्ध्वा नताङ्‌गकाः ॥ ४५ ॥
देवा ऊचुः
देवदेव महादेव करुणासागर प्रभो ।
शीघ्रं जीवय कामं त्वं रक्ष प्राणान् रतेर्हर ॥ ४६ ॥
ब्रह्मोवाच
इत्याकर्ण्यामरवचः प्रसन्नः परमेश्वरः ।
पुनर्बभाषे करुणासागरः सकलेश्वरः ॥ ४७ ॥
शिव उवाच
हे देवाःसुप्रसन्नोऽस्मि जीवयिष्यामि चान्तरे ।
कामः स मद्‌गणो भूत्वा विहरिष्यति नित्यशः ॥ ४८ ॥
नाख्येयमिदमाख्यानं कस्यचित्पुरतःसुराः ।
गच्छत स्वस्थलं दुःखं नाशयिष्यामि सर्वतः ॥ ४९ ॥
ब्रह्मोवाच
इत्युक्त्वान्तर्दधे रुद्रो देवानां स्तुवतां तदा ।
सर्वे देवाः सुप्रसन्ना बभूवुर्गतविस्मयाः ॥ ५० ॥
ततस्तां च समाश्वास्य रुद्रस्य वचने स्थिताः ।
उक्त्वा वचस्तदीयं च स्वं स्वं धाम ययुर्मुने ॥ ५१ ॥
कामपत्नी समादिष्टं नगरं सा गता तदा ।
प्रतीक्षमाणा तं कालं रुद्रादिष्टं मुनीश्वर ॥ ५२ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे कामनाशवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP