॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

अष्टादशोध्यायः

कामविकारवर्णनम्


ब्रह्मोवाच
तत्र गत्वा स्मरो गर्वी शिवमायाविमोहितः ।
मोहकस्य मधोश्चादौ धर्मं विस्तारयन्स्थितः ॥ १ ॥
वसन्तस्य च यो धर्मः प्रससार स सर्वतः ।
तपस्थाने महेशस्यौषधिप्रस्थे मुनीश्वर ॥ २ ॥
वनानि च प्रफुल्लानि पादपानां महामुने ।
आसन्विशेषतस्तत्र तत्प्रभावान्मुनीश्वर ॥ ३ ॥
पुष्पाणि सहकाराणामशोकवनिकासु वै ।
विरेजुः सुस्मरोद्दीपकाराणि सुरभीण्यपि ॥ ४ ॥
कैरवाणि च पुष्पाणि भ्रमराकलितानि च ।
बभूवुर्मदनावेशकराणि च विशेषतः ॥ ५ ॥
सुकामोद्दीपनकरं कोकिलाकलकूजितम् ।
आसीदति सुरम्यं हि मनोहरमतिप्रियम् ॥ ६ ॥
भ्रमराणां तथा शब्दा विविधा अभवन्मुने ।
मनोहराश्च सर्वेषां कामोद्दीपकरा अपि ॥ ७ ॥
चन्द्रस्य विशदा कान्तिर्विकीर्णा हि समन्ततः ।
कामिनां कामिनीनां च दूतिका इव साऽभवत् ॥ ८ ॥
मानिनां प्रेरणायासीत्तत्काले कालदीपिका ।
मारुतश्च सुखः साधो ववौ विरहिणोऽप्रियः ॥ ९ ॥
एवं वसन्तविस्तारो मदनावेशकारकः ।
वनौकसां तदा तत्र मुनीनां दुःसहोऽत्यभूत् ॥ १० ॥
अचेतसामपि तदा कामासक्तिरभून्मुने ।
सुचेतसां हि जीवानां सति किं वर्ण्यते कथा ॥ ११ ॥
एवं चकार स मधुः स्वप्रभावं सुदुःसहम् ।
सर्वेषां चैव जीवानां कामोद्दीपनकारकः ॥ १२ ॥
अकालनिर्मितं तात मधोर्वीक्ष्य हरस्तदा ।
आश्चर्यं परमं मेने स्वलीलात्ततनुः प्रभुः ॥ १३ ॥
अथ लीलाकरस्तत्र तपः परमदुष्करम् ।
तताप स वशीशो हि हरो दुःखहरः प्रभुः ॥ १४ ॥
वसन्ते प्रसृते तत्र कामो रतिसमन्वितः ।
चूतं बाणं समाकृष्य स्थितस्तद्वामपार्श्वतः ॥ १५ ॥
स्वप्रभावं वितस्तार मोहयन्सकलाञ्जनान् ।
रत्या युक्तं तदा कामं दृष्ट्‍वा को वा न मोहितः ॥ १६ ॥
एवं प्रवृत्तसुरतौ शृङ्‌गारोऽपि गणैः सह ।
हावभावयुतस्तत्र प्रविवेश हरान्तिकम् ॥ १७ ॥
मदनः प्रकटस्तत्र न्यवसच्चित्तगो बहिः ।
न दृष्टवांस्तदा शम्भोश्छिद्रं येन प्रविश्यते ॥ १८ ॥
यदा चाप्राप्तविवरस्तस्मिन्योगिवरे स्मरः ।
महादेवस्तदा सोऽभून्महाभयविमोहितः ॥ १९ ॥
ज्वलज्ज्वालाग्निसङ्‌काश भालनेत्रसमन्वितम् ।
ध्यानस्थं शंकरं को वा समासादयितुं क्षमः ॥ २० ॥
एतस्मिन्नन्तरे तत्र सखीभ्यां संयुता शिवा ।
जगाम शिवपूजार्थं नीत्वा पुष्पाण्यनेकशः ॥ २१ ॥
पृथिव्यां यादृशं लोकैः सौन्दर्यं वर्ण्यते महत् ।
तत्सर्वमधिकं तस्यां पार्वत्यामस्ति निश्चितम् ॥ २२ ॥
आर्तवाणि सुपुष्पाणि धृतानि च तया यदा ।
तत्सौन्दर्यं कथं वर्ण्यमपि वर्षशतैरपि ॥ २३ ॥
यदा शिवसमीपे तु गता सा पर्वतात्मजा ।
तदैव शंकरो ध्यानं त्यक्त्वा क्षणमवस्थितः ॥ २४ ॥
तच्छिद्रं प्राप्य मदनः प्रथमं हर्षणेन तु ।
बाणेन हर्षयामास पार्श्वस्थं चन्द्रशेखरम् ॥ २५ ॥
शृङ्‌गारैश्च तदा भावैः सहिता पार्वती हरम् ।
जगाम कामसाहाय्ये मुने सुरभिणा सह ॥ २६ ॥
तदेवाकृष्य तच्चापं रुच्यर्थं शूलधारिणः ।
द्रुतं पुष्पशरं तस्मै स्मरोऽमुञ्चत्सुसंयतः ॥ २७ ॥
यथा निरन्तरं नित्यमागच्छति तथा शिवम् ।
तन्नमस्कृत्य तत्पूजां कृत्वा तत्पुरतः स्थिता ॥ २८ ॥
सा दृष्टा पार्वती तत्र प्रभुणा गिरिशेन हि ।
विवृण्वती तदाङ्‌गानि स्त्रीस्वभावात्सुलज्जया ॥ २९ ॥
सुसंस्मृत्य वरं तस्या विधिदत्तं पुरा प्रभुः ।
शिवोपि वर्णयामास तदङ्‌गानि मुदा मुने ॥ ३० ॥
शिव उवाच
कि मुखं किं शशाङ्‌कश्च किं नेत्रे चोत्पले च किम् ।
भ्रुकुट्यौ धनुषी चैते कन्दर्पस्य महात्मनः ॥ ३१ ॥
अधरः किं च बिम्बं किं किं नासा शुकचञ्चुका ।
किं स्वरः कोकिलालापः किं मध्यं चाथ वेदिका ॥ ३२ ॥
किं गतिर्वर्ण्यते ह्यस्याः किं रूपं वर्ण्यते मुहुः ।
पुष्पाणि किं च वर्ण्यन्ते वस्त्राणि च तथा पुनः ॥ ३३ ॥
लालित्यं चारु यत्सृष्टौ तदेवात्र विनिर्मितम् ।
सर्वथा रमणीयानि सर्वाङ्‌गानि न संशयः ॥ ३४ ॥
अहो धन्यतरा चेत्रं पार्वत्यद्‌भुतरूपिणी ।
एतत्समा न त्रैलोक्ये नारी कापि सुरूपिणी ॥ ३५ ॥
सुलावण्यनिधिश्चेयमद्‌भुताङ्‌गानि बिभ्रती ।
विमोहिनी मुनीनां च महासुखविवर्द्धिनी ॥ ३६ ॥
ब्रह्मोवाच
इत्येवं वर्णयित्वा तु तदङ्‌गानि मुहुर्मुहुः ।
विधिदत्तवराध्यासाद्धरस्तु विरराम ह ॥ ३७ ॥
हस्तं वस्त्रान्तरे यावदचालयत शंकरः ।
स्त्रीस्वभावाच्च सा तत्र लज्जिता दूरतो गता ॥ ३८ ॥
विवृण्वती निजाङ्‌गानि पश्यन्ती च मुहुर्मुहुः ।
सुवीक्षणैर्महामोदात्सुस्मिताभूच्छिवा मुने ॥ ३९ ॥
एवं चेष्टां तदा दृष्ट्‍वा शम्भुर्मोहमुपागतः ।
उवाच वचनं चैवं महालीलो महेश्वरः ॥ ४० ॥
अस्या दर्शनमात्रेण महानन्दो भवत्यलम् ।
यदालिङ्‌गनमेतस्याः कुर्यां किन्तु ततः सुखम् ॥ ४१ ॥
क्षणमात्रं विचार्येत्थं सम्पूज्य गिरिजां ततः ।
प्रबुद्धः स महायोगी सुविरक्तो जगाविति ॥ ४२ ॥
किं जातं चरितं चित्रं किमहं मोहमागतः ।
कामेन विकृतश्चाद्य भूत्वापि प्रभुरीश्वरः ॥ ४३ ॥
ईश्वरोहं यदीच्छेयं पराङ्‌गस्पर्शनं खलु ।
तर्हि कोऽन्योऽक्षमः क्षुद्रः किं किं नैव करिष्यति ॥ ४४ ॥
एवं वैराग्यमासाद्य पर्यङ्‌कासादनं च तत् ।
वारयामास सर्वात्मा परेशः किं पतेदिह ॥ ४५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितान्तर्गततृतीये
पार्वतीखण्डे कामकृतविकारवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP