॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

सप्तदशोऽध्यायः

इन्द्रकामदेवसंवादः


ब्रह्मोवाच
गतेषु तेषु देवेषु शक्रः सस्मार वै स्मरम् ।
पीडितस्तारकेनाति दैत्येन च दुरात्मना ॥ १ ॥
आगतस्तत्क्षणात्कामः सवसन्तो रतिप्रियः ।
सावलेपो युतो रत्या त्रैलोक्य विजयी प्रभुः ॥ २ ॥
प्रणामं च ततः कृत्वा स्थित्वा तत्पुरतः स्मरः ।
महोन्नतमनास्तात साञ्जलिः शक्रमब्रवीत् ॥ ३ ॥
काम उवाच
किं कार्यं ते समुत्पन्नं स्मृतोऽहं केन हेतुना ।
तत्त्वं कथय देवेश तत्कर्तुं समुपागतः ॥ ४ ॥
ब्रह्मोवाच
तच्छ्रुत्वा वचनं तस्य कन्दर्पस्य सुरेश्वरः ।
उवाच वचनं प्रीत्या युक्तं युक्तमिति स्तुवन् ॥ ५ ॥
शक्र उवाच
तव साधु समारम्भो यन्मे कार्यमुपस्थितम् ।
तत्कतुर्मुद्यतोऽसि त्वं धन्योऽसि मकरध्वज ॥ ६ ॥
प्रस्तुतं शृणु मद्वाक्यं कथयामि तवाग्रतः ।
मदीयं चैव यत्कार्यं त्वदीयं तन्न चान्यथा ॥ ७ ॥
मित्राणि मम सन्त्येव बहूनि सुमहान्ति च ।
परं तु स्मर सन्मित्रं त्वत्तुल्यं न हि कुत्रचित् ॥ ८ ॥
जयार्थं मेऽद्वयं तात निर्मितं वज्रमुत्तमम् ।
वज्रं च निष्फलं स्याद्वै त्वं तु नैव कदाचन ॥ ९ ॥
यतो हितं प्रजायेत ततः को नु प्रियः परः ।
तस्मान्मित्रवरस्त्वं हि मत्कार्यं कर्तुमर्हसि ॥ १० ॥
मम दुःखं समुत्पन्नमसाध्यं चापि कालजम् ।
केनापि नैव तच्छक्यं दूरीकर्तुं त्वया विना ॥ ११ ॥
दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते ।
आपत्काले तु मित्रस्याशक्तौ स्त्रीणां कुलस्य हि ॥ १२ ॥
विनये सङ्‌कटे प्राप्तेऽवितथस्य परोक्षतः ।
सुस्नेहस्य तथा तात नान्यथा सत्यमीरितम् ॥ १३ ॥
प्राप्तायां वै ममापत्ताववार्यायां परेण हि ।
परीक्षा च त्वदीयाऽद्या मित्रवर्य भविष्यति ॥ १४ ॥
न केवलं मदीयं च कार्यमस्ति सुखावहम् ।
किं तु सर्वसुरादीनां कार्यमेतन्न संशयः ॥ १५ ॥
ब्रह्मोवाच
इत्येतन्मघवद्वाक्यं श्रुत्वा तु मकरध्वजाः ।
उवाच प्रेमगंभीरं वाक्यं सुस्मितपूर्वकम् ॥ १६ ॥
काम उवाच
किमर्थमित्थं वदसि नोत्तरं वच्म्यहं तव ।
उपकृत्कृत्रिमं लोके दृश्यते कथ्यते न च ॥ १७ ॥
सङ्कटे बहु यो ब्रूते स किं कार्यं करिष्यति ।
तथापि च महाराज कथयामि शृणु प्रभो ॥ १८ ॥
पदं ते कर्षितुं यो वै तपस्तपति दारुणम् ।
पातयिष्याम्यहं तं च शत्रुं ते मित्र सर्वथा ॥ १९ ॥
क्षणेन भ्रंशयिष्यामि कटाक्षेण वरस्त्रियाः ।
देवर्षिदानवादींश्च नराणां गणना न मे ॥ २० ॥
वज्रं तिष्ठतु दूरे वः शस्त्राण्यन्यान्यनेकशः ।
किं ते कार्यं करिष्यन्ति मयि मित्र उपस्थिते ॥ २१ ॥
ब्रह्माणं वा हरिं वापि भ्रष्टं कुर्यां न संशयः ।
अन्येषां गणना नास्ति पातयेयं हरं त्वपि ॥ २२ ॥
पञ्चैव मृदवो बाणास्ते च पुष्पमया मम ।
चापस्त्रिधा पुष्पमयः शिञ्जिनी भ्रमरार्ज्जिता ॥ २३ ॥
बलं सुदयिता मे वै वसन्तः सचिवः स्मृतः ।
अहं पञ्चबलो देवा मित्रं मम सुधानिधिः । २४ ॥
सेनाधिपश्च शृङ्‌गारो हावभावाश्च सैनिकाः ।
सर्वे मे मृदवः शक्र अहं चापि तथाविधः ॥ २५ ॥
यद्येन पूर्यते कार्यं धीमांस्तत्तेन योजयेत् ।
मम योग्यं तु यत्कार्यं सर्वं तन्मे नियोजय ॥ २६ ॥
ब्रह्मोवाच
इत्येवं तु वचस्तस्य श्रुत्वा शक्रः सुहर्षितः ।
उवाच प्रणमन्वाचा कामं कान्तासुखावहम् ॥ २७ ॥
शक्र उवाच
यत्कार्यं मनसोद्दिष्टं मया तात मनोभव ।
कर्त्तुं तत्त्वं समर्थोऽसि नान्यस्मात्तस्य सम्भवः ॥ २८ ॥
शृणु काम प्रवक्ष्यामि यथार्थं मित्रसत्तम ।
यदर्थे च स्पृहा जाता तव चाद्य मनोभव ॥ २९ ॥
तारकाख्यो महादैत्यो ब्रह्मणो वरमद्‌भुतम् ।
अभूदजेयः सम्प्राप्य सर्वेषामपि दुःखदः ॥ ३० ॥
तेन सम्पीड्यते लोको नष्टा धर्मा ह्यनेकशः ।
दुःखिता निर्जराः सर्वे ऋषयश्च तथाखिलाः ॥ ३१ ॥
देवैश्च सकलैस्तेन कृतं युद्धं यथाबलम् ।
सर्वेषां चायुधान्यत्र विफलान्यभवन्पुरा ॥ ३२ ॥
भग्नः पाशो जलेशस्य हरिं चक्रं सुदर्शनम् ।
तत्कुण्ठितमभूत्तस्य कण्ठे क्षिप्तं च विष्णुना ॥ ३३ ॥
एतस्य मरणं प्रोक्तं प्रजेशेन दुरात्मनः ।
शम्भोर्वीर्योद्‌भवाद्‌बालान्महायोगीश्वरस्य हि ॥ ३४ ॥
एतत्कार्यं त्वया साधु कर्तव्यं सुप्रयत्नतः ।
ततःस्यान्मित्रवर्याति देवानां नः परं सुखम् ॥ ३५ ॥
ममापि विहितं तस्मात्सर्वलोकसुखावहम् ।
मित्रधर्मं हृदि स्मृत्वा कर्तुमर्हसि साम्प्रतम् ॥ ३६ ॥
शम्भुःस गिरिराजे हि तपः परममास्थितः ।
स प्रभुर्नापि कामेन स्वतन्त्रः परमेश्वरः ॥ ३७ ॥
तत्समीपे च देवार्थं पार्वती स्वसखीयुता ।
सेवमाना तिष्ठतीति पित्राज्ञप्ता मया श्रुतम् ॥ ३८ ॥
यथा तस्यां रुचिस्तस्य शिवस्य नियतात्मनः ।
जायते नितरां मार तथा कार्यं त्वया ध्रुवम् ॥ ३९ ॥
इति कृत्वा कृती स्यास्त्वं सर्वं दुःखं विनङ्‌क्ष्यति ।
लोके स्थायी प्रतापस्ते भविष्यति न चान्यथा ॥ ४० ॥
ब्रह्मोवाच
इत्युक्तस्य तु कामो हि प्रफुल्लमुखपङ्‌कजः ।
प्रेम्णोवाचेति देवेशं करिष्यामि न संशयः ॥ ४१ ॥
इत्युक्त्वा वचनं तस्मै तथेत्योमिति तद्वचः ।
अग्रहीत्तरसा कामः शिवमायाविमोहितः ॥ ४२ ॥
यत्र योगीश्वरःसाक्षात्तप्यते परमं तपः ।
जगाम तत्र सुप्रीतः सदारः सवसन्तकः ॥ ४३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे शक्रकामसंवादवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP