॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

विंशोऽध्यायः

वडवानलचरितम्


नारद उवाच
विधे नेत्रसमुद्‌भूतवह्निज्वाला हरस्य सा ।
गता कुत्र वद त्वं तच्चरित्रं शशिमौलिनः ॥ १ ॥
ब्रह्मोवाच
यदा भस्म चकाराशु तृतीयनयनानलः ।
शम्भोः कामं प्रजज्वाल सर्वतो विफलस्तदा ॥ २ ॥
हाहाकारो महानासीत्त्रैलोक्ये सचराचरे ।
सर्वदेवर्षयस्तात शरणं मां ययुर्द्रुतम् । ३ ॥
सर्वे निवेदयामासुस्तद्दुखं मह्यमाकुलाः ।
सुप्रणम्य सुसंस्तुत्य करौ बद्ध्वा नताननाः ॥ ४ ॥
तच्छ्रुत्वाहं शिवं स्मृत्वा तद्धेतुं सुविमृश्य च ।
गतस्तत्र विनीतात्मा त्रिलोकावनहेतवे ॥ ५ ॥
सन्दग्धुकामः स शुचिज्वालामालातिदीपितः ।
स्तम्भितोऽरं मया शम्भुप्रसादाप्तसुतेजसा ॥ ६ ॥
अथ क्रोधमयं वह्निं दग्धुकामं जगत्त्रयम् ।
वाडवान्तकमार्षं च सौम्यज्वालामुखं मुने ॥ ७ ॥
तं वाडवतनुमहं समादाय शिवेच्छया ।
सागरं समगां लोकहिताय जगतां पतिः ॥ ८ ॥
आगतं मां समालोक्य सागरः साञ्जलिर्मुने ।
धृत्वा च पौरुषं रूपमागतः संनिधिं मम ॥ ९ ॥
सुप्रणम्याथ मां सिन्धुः संस्तूय च यथा विधि ।
स मामुवाच सुप्रीत्या सर्वलोकपितामहम् ॥ १० ॥
सागर उवाच
किमर्थमागतोऽसि त्वं ब्रह्मन्नत्राखिलाधिप ।
तन्निदेशय सुप्रीत्या मत्वा मां च स्वसेवकम् ॥ ११ ॥
अथाहं सागरवचः श्रुत्वा प्रीतिपुरःसरम् ।
प्रावोचं शंकरं स्मृत्वा लौकिकं हितमावहन् ॥ १२ ॥
ब्रह्मोवाच
शृणु तात महाधीमन्सर्वलोकहितावह ।
वच्म्यहं प्रीतितःसिन्धो शिवेच्छाप्रेरितो हृदा ॥ १३ ॥
अयं क्रोधो महेशस्य वाडवात्मा महाप्रभुः ।
दग्ध्वा कामं द्रुतं सर्वं दग्धुकामोऽभवत्ततः ॥ १४ ॥
प्रार्थितोऽहं सुरैः शीघ्रं पीडितैः शंकरेच्छया ।
तत्रागत्य द्रुतं तं वै तात स्तम्भितवाञ्शुचिम् ॥ १५ ॥
वाडवं रूपमाधत्त तमादायागतोऽत्र ह ।
निर्दिशामि जलाधार त्वामहं करुणाकरः ॥ १६ ॥
अयं क्रोधी महेशस्य वाडवं रूपमाश्रितः ।
ज्वालामुखस्त्वया धार्यो यावदाभूतसम्प्लवम् ॥ १७ ॥
यदात्राहं समागम्य वत्स्यामि सरितां पते ।
तदा त्वया परित्याज्यः क्रोधोऽयं शाङ्‌करोऽद्‌भुतः ॥ १८ ॥
भोजनं तोयमेतस्य तव नित्यं भविष्यति ।
यत्नादेवावधार्योऽयं यथा नोपैति चान्तरम् ॥ १९ ॥
ब्रह्मोवाच
इत्युक्तो हि मया सिन्धुरङ्‌गीचक्रे तदा ध्रुवम् ।
ग्रहीतुं वाडवं वह्निं रौद्रं चाशक्यमन्यतः ॥ २० ॥
ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः ।
वार्योघान्सुदहंस्तस्य ज्वालामालाभिदीपितः ॥ २१ ॥
ततःसन्तुष्टचेतस्कः स्वं धामाहं गतो मुने ।
अन्तर्धानमगात्सिन्धुर्दिव्यरूपः प्रणम्य माम् ॥ २२ ॥
स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं तद्‌भवाद्‌भयात् ।
देवा बभूवुः सुखिनो मुनयश्च महामुने ॥ २३ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे वडवानलचरितं नाम विंशोऽध्यायः ॥ २० ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP