॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

नवमोऽध्यायः

पित्रोः पार्वत्यै शिवाराधानोपदेशः तस्याः स्वप्ने शिवस्याविर्भावश्च


नारद उवाच
विधे तात त्वया शैववर प्राज्ञाद्‌भुता कथा ।
वर्णिता करुणां कृत्वा प्रीतिर्मे वर्द्धिताधिकम् ॥ १ ॥
विधे गते स्वकं धाम मयि वै दिव्यदर्शने ।
ततः किमभवत्तात कृपया तद्वदाधुना ॥ २ ॥
ब्रह्मोवाच
गते त्वयि मुने स्वर्गे कियत्काले गते सति ।
मेना प्राप्येकदा शैलनिकटं प्रणनाम सा ॥ ३ ॥
स्थित्वा सविनयं प्राह स्वनाथं गिरिकामिनी ।
तत्र शैलाधिनाथं सा प्राणप्रियसुता सती ॥ ४ ॥
मेनोवाच
मुनिवाक्यं न बुद्धं मे सम्यङ्नारीस्वभावतः ।
विवाहं कुरु कन्यायाःसुन्दरेण वरेण ह ॥ ५ ॥
सर्वथा हि भवेत्तत्रोद्वाहोऽपूर्वसुखावहः ।
वरश्च गिरिजायास्तु सुलक्षणकुलोद्‌भवः ॥ ६ ॥
प्राणप्रिया सुता मे हि सुखिता स्याद्यथा प्रिय ।
सद्वरं प्राप्य सुप्रीता तथा कुरु नमोऽस्तु ते ॥ ७ ॥
ब्रह्मोवाच
इत्युक्ताश्रुमुखी मेना पत्यङ्‌घ्र्योः पतिता तदा ।
तामुत्थाप्य गिरिः प्राह यथावत्प्राज्ञसत्तमः ॥ ८ ॥
हिमालय उवाच
शृणु त्वं मेनके देवि यथार्थं वच्मि तत्त्वतः ।
भ्रमं त्यज मुनेर्वाक्यं वितथं न कदाचन ॥ ९ ॥
यदि स्नेहः सुतायास्ते सुतां शिक्षय सादरम् ।
तपः कुर्याच्छङ्‌करस्य सा भक्त्या स्थिरचेतसा ॥ १० ॥
चेत्प्रसन्नः शिवः काल्याः पाणिं गृह्णाति मेनके ।
सर्वं भूयाच्छुभं नश्येन्नारदोक्तममंगलम् ॥ ११ ॥
अमंगलानि सर्वाणि मंगलानि सदाशिवे ।
तस्मात्सुतां शिवप्राप्त्यै तपसे शिक्षय द्रुतम् ॥ १२ ॥
ब्रह्मोवाच
इत्याकर्ण्य गिरेर्वाक्यं मेना प्रीततराऽभवत् ।
सुतोपकण्ठमगमदुपदेष्टुं तपोरुचिम् ॥ १३ ॥
सुताङ्‌गं सुकुमारं हि दृष्ट्‍वातीवाथ मेनका ।
विव्यथे नेत्रयुग्मे चाश्रुपूर्णेऽभवतां द्रुतम् ॥ १४ ॥
सुतां समुपदेष्टुं तन्न शशाक गिरिप्रिया ।
बुबुधे पार्वती तद्वै जननीङ्‌गितमाशु सा ॥ १५ ॥
अथ सा कालिका देवी सर्वज्ञा परमेश्वरी ।
उवाच जननीं सद्यः समाश्वास्य पुनः पुनः ॥ १५ ॥
पार्वत्युवाच
मातः शृणु महाप्राज्ञेऽद्यतने ऽजमुहूर्तके ।
रात्रौ दृष्टो मया स्वप्नस्तं वदामि कृपां कुरु ॥ १७ ॥
विप्रश्चैव तपस्वी मां सदयः प्रीतिपूर्वकम् ।
उपादिदेश सुतपः कर्तुं मातः शिवस्य वै ॥ १८ ॥
ब्रह्मोवाच
तच्छ्रुत्वा मेनका शीघ्रं पतिमाहूय तत्र च ।
तत्स्वप्नं कथयामास सुता दृष्टमशेषतः ॥ १९ ॥
सुतास्वप्नमथाकर्ण्य मेनकातो गिरीश्वरः ।
उवाच परमप्रीतः प्रियां सम्बोधयन्गिरा ॥ २० ॥
गिरीश्वर उवाच
हे प्रियेऽपररात्रान्ते स्वप्नो दृष्टो मयापि हि ।
तं शृणु त्वं महाप्रीत्या वच्म्यहं तं समादरात् ॥ २१ ॥
एकस्तपस्वी परमो नारदोक्तवरांगधृक् ।
पुरोपकण्ठं सुप्रीत्या तपः कर्तुं समागतः ॥ २२ ॥
गृहीत्वा स्वसुतां तत्रागमं प्रीततरोप्यहम् ।
मया ज्ञातःस वै शम्भुर्नारदोक्तवरः प्रभुः ॥ २३ ॥
सेवार्थं तस्य तनयामुपदिश्य तपस्विनः ।
तं वै प्रार्थितवांस्तस्यां न तदाङ्‌गीचकार सः ॥ २४ ॥
अभूद्विवादः सुमहान्साङ्‌ख्यवेदान्तसंमतः ।
ततस्तदाज्ञया तत्र संस्थितासीत्सुता मम ॥ २५ ॥
निधाय हृदि तं कामं सिषेवे भक्तितश्च सा ।
इति दृष्टं मया स्वप्नं प्रोक्तवांस्ते वरानने ॥ २६ ॥
ततो मेने कियत्कालं परीक्ष्यं तत्फलं प्रिये ।
योग्यमस्तीदमेवेह बुध्यस्व त्वं मम ध्रुवम् ॥ २७ ॥
ब्रह्मोवाच
इत्युक्त्वा गिरिराजश्च मेनका वै मुनीश्वर ।
सन्तस्थतुः परीक्षन्तौ तत्फलं शुद्धचेतसौ ॥ २८ ॥
इत्थं व्यतीतेऽल्पदिने परमेशः सतां गतिः ।
सतीविरहसुव्यग्रो भ्रमन्सर्वत्र सूतिकृत् ॥ २९ ॥
तत्राजगाम सुप्रीत्या कियद्‌गुणयुतः प्रभुः ।
तपः कर्तुं सतीप्रेमविरहाकुलमानसः ॥ ३० ॥
तपश्चकार स्वं तत्र पार्वती सेवने रता ।
सखीभ्यां सहिता नित्यं प्रसन्नार्थमभूत्तदा ॥ ३१ ॥
विद्धोऽपि मार्गणैः शम्भुर्विकृतिं नाप स प्रभुः ।
प्रेषितेन सुरैः स्वात्ममोहनार्थं स्मरेण वै ॥ ३२ ॥
दग्ध्वा स्मरं च तत्रैव स्ववह्निनयनेन सः ।
स्मृत्वा मम वचः क्रुद्धो मह्यमन्तर्दधे ततः ॥ ३३ ॥
ततः कालेन कियता विनाश्य गिरिजामदम् ।
प्रसादितः सुतपसा प्रसन्नोऽभून्महेश्वरः ॥ ३४ ॥
लौकिकाचारमाश्रित्य रुद्रो विष्णुप्रसादितः ।
कालीं विवाहयामास ततोऽभूद्‌बहुमंगलम् ॥ ३५ ॥
इत्येतत्कथितं तात समासाच्चरितं विभोः ।
शंकरस्य परं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ ३६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे स्वप्नवर्णनपूर्वकं
सङ्‌क्षेपशिवचरितवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP