|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
अष्टमोऽध्यायः
नारदहिमालयसंवादः
ब्रह्मोवाच
एकदा तु शिवज्ञानी शिवलीलाविदांवरः । हिमाचलगृहं प्रीत्यागमस्त्वं शिवप्रेरितः ॥ १ ॥ दृष्ट्वा मुने गिरीशस्त्वां नत्वाऽऽनर्च स नारद । आहूय च स्वतनयां त्वदङ्घ्र्योस्तामपातयत् ॥ २ ॥ पुनर्नत्वा मुनीश त्वामुवाच हिमभूधरः । साञ्जलिः स्वविधिं मत्वा बहुसन्नतमस्तकः ॥ ३ ॥ हिमालय उवाच हे मुने नारद ज्ञानिन्ब्रह्मपुत्रवर प्रभो । सर्वज्ञस्त्वं सकरुणः परोपकरणे रतः ॥ ४ ॥ मत्सुताजातकं ब्रूहि गुणदोषसमुद्भवम् । कस्य प्रिया भाग्यवती भविष्यति सुता मम ॥ ५ ॥ ब्रह्मोवाच इत्युक्तो मुनिवर्य त्वं गिरीशेन हिमाद्रिणा । विलोक्य कालिकाहस्तं सर्वाङ्गं च विशेषतः ॥ ६ ॥ अवोचस्त्वं गिरिं तात कौतुकी वाग्विशारदः । ज्ञानी विदितवृत्तान्तो नारदः प्रीतमानसः ॥ ७ ॥ नारद उवाच एषा ते तनया मेने सुधांशोरिव वर्द्धिता । आद्या कला शैलराज सर्वलक्षणशालिनी ॥ ८ ॥ स्वपतेःसुखदाऽत्यन्तं पित्रोः कीर्तिविवर्द्धिनी । महासाध्वी च सर्वासु महानन्दकरी सदा ॥ ९ ॥ सुलक्षणानि सर्वाणि त्वत्सुतायाः करे गिरे । एका विलक्षणा रेखा तत्फलं शृणु तत्त्वतः ॥ १० ॥ योगी नग्नोऽगुणोऽकामी मातृतातविवर्जितः । अमानोऽशिववेषश्च पतिरस्याः किलेदृशः ॥ ११ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्ते हि सत्यं मत्त्वा च दम्पती । मेना हिमाचलश्चापि दुःखितौ तौ बभूवतुः ॥ १२ ॥ शिवाऽऽकर्ण्य वचस्ते हि तादृशं जगदम्बिका । लक्षणैस्तं शिवं मत्त्वा जहर्षाति मुने हृदि ॥ १ ३ ॥ न मृषा नारदवचस्त्विति सञ्चिन्त्य सा शिवा । स्नेहं शिवपदद्वन्द्वे चकाराति हृदा तदा ॥ १४ ॥ उवाच दुःखितः शैलस्त्वां तदा हृदि नारद । कमुपायं मुने कुर्यामतिदुःखमभूदिति ॥ १५ ॥ तच्छ्रुत्वा त्वं मुने प्रात्थ महाकौतुककारकः । हिमाचलं शुभैर्वाक्यैर्हर्षयन्वाग्विशारदः ॥ १६ ॥ नारद उवाच स्नेहाच्छृणु गिरे वाक्यं मम सत्यं मृषा न हि । कररेखा ब्रह्मलिपिर्न मृषा भवति धुवम् ॥ १७ ॥ तादृशोऽस्याः पतिः शैल भविष्यति न संशयः । तत्रोपायं शृणु प्रीत्या यं कृत्वा लप्स्यसे सुखम् ॥ १८ ॥ तादृशोऽस्ति वरः शम्भुर्लीलारूपधरः प्रभुः । कुलक्षणानि सर्वाणि तत्र तुल्यानि सद्गुणैः ॥ १९ ॥ प्रभौ दोषो न दुःखाय दुःखदोऽत्यप्रभौ हि सः । रविपावकगङ्गानां तत्र ज्ञेया निदर्शना ॥ २० ॥ तस्माच्छिवाय कन्या स्वां शिवां देहि विवेकतः । शिवः सर्वेश्वरः सेव्योऽविकारी प्रभुरव्ययः ॥ २१ ॥ शीघ्रप्रसादः स शिवस्तां ग्रहीष्यत्यसंशयम् । तपःसाध्यो विशेषेण यदि कुर्याच्छिवा तपः ॥ २२ ॥ सर्वथा सुसमर्थो हि स शिवः सकलेश्वरः । कुलिपेरपि विध्वंसी ब्रह्माधीनस्त्वकप्रदः ॥ २३ ॥ ब्रह्मोवाच इत्युक्त्वा त्वं पुनस्तात कौतुकी ब्रह्मविन्मुने । शैलराजमवोचो हि हर्षयन्वचनैश्शुभैः ॥ २४ ॥ भाविनी दयिता शम्भोः सानुकूला सदा हरे । महासाध्वी सुव्रता च पित्रोः सुखविवर्द्धिनी ॥ २५ ॥ शम्भोश्चित्तं वशे चैषा करिष्यति तपस्विनी । स चाप्येनामृते योषां न ह्यन्यामुद्वहिष्यति ॥ २६ ॥ एतयोः सदृशं प्रेम न कस्याप्येव तादृशम् । भूतं वा भविता वापि नाधुना च प्रवर्तते ॥ २७ ॥ अनयोः सुरकार्य्याणि कर्तव्यानि मृतानि च । यानि यानि नगश्रेष्ठ जीवितानि पुनः पुनः ॥ २८ ॥
अनया कन्यया तेऽद्रे अर्धनारीश्वरो हरः । भविष्यति तथा हर्षदिनयोर्मिलितं पुनः ॥ २९ ॥ शरीरार्धं हरस्यैषा हरिष्यति सुता तव । तपः प्रभावात्सन्तोष्य महेशं सकलेश्वरम् ॥ ३० ॥ स्वर्णगौरी सुवर्णाभा तपसा तोष्य तं हरम् । विद्युद्गौरतमा चेयं तव पुत्री भविष्यति ॥ ३१ ॥ गौरीति नाम्ना कन्या तु ख्यातिमेषा गमिष्यति । सर्वदेवगणैः पूज्या हरिब्रह्मादिभिस्तथा ॥ ३२ ॥ नान्यस्मै त्वमिमां दातुमिहार्हसि नगोत्तम । इदं चोपांशु देवानां न प्रकाश्यं कदाचन ॥ ३३ ॥ ब्रह्मोवाच इति तस्य वचः श्रुत्वा देवर्षे तव नारद । उवाच हिमवान्वाक्यं मुने त्वां वाग्विशारदः ॥ ३४ ॥ हिमालय उवाच हे मुने नारद प्राज्ञ विज्ञप्तिं काञ्चिदेव हि । करोमि तां शृणु प्रीत्याऽतस्त्वं प्रमुदमावह ॥ ३५ ॥ श्रूयते त्यक्तसङ्गः स महादेवो यतात्मवान् । तपश्चरति सन्नित्यं देवानामप्यगोचरः ॥ ३६ ॥ स कथं ध्यानमार्गस्थः परब्रह्मार्पितं मनः । भ्रंशयिष्यति देवर्षे तत्र मे संशयो महान् ॥ ३७ ॥ अक्षरं परमं ब्रह्म प्रदीपकलिकोपमम् । सदाशिवाख्यं स्वं रूपं निर्विकारमजात्परम् ॥ ३८ ॥ निर्गुणं सगुणं तच्च निर्विशेषं निरीहकम् । अतः पश्यति सर्वत्र न तु बाह्यं निरीक्षते ॥ ३९ ॥ इति स श्रूयते नित्यं किन्नराणां मुखान्मुने । इहागतानां सुप्रीत्या किं तन्मिथ्या वचो ध्रुवम् ॥ ४० ॥ विशेषतः श्रूयते स साक्षान्नाम्ना तथा हरः । समयं कृतवान्पूर्वं तन्मया गदितं शृणु ॥ ४१ ॥ न त्वामृतेऽन्यां वरये दाक्षायणि प्रिये सती । भार्यार्थं न ग्रहीष्यामि सत्यमेतद्ब्रवीमि ते ॥ ४२ ॥ इति सत्या समं तेन पुरैव समयः कृतः । तस्यां मृतायां स कथं स्वयमन्यां ग्रहीष्यति ॥ ४३ । ब्रह्मोवाच इत्युक्त्वा स गिरिस्तूष्णीमास तस्य पुरस्तव । तदाकर्ण्याथ देवर्षे त्वं प्रावोचः सुतत्त्वतः ॥ ४४ ॥ नारद उवाच न वै कार्या त्वया चिन्ता गिरिराज महामते । एषा तव सुता काली दक्षजा ह्यभवत्पुरा ॥ ४५ ॥ सतीनामाभवत्तस्याः सर्वमंगलदं सदा । सती सा वै दक्षकन्या भूत्वा रुद्रप्रियाभवत ॥ ४६ ॥ पितुर्यज्ञे तथा प्राप्यानादरं शंकरस्य च । तं दृष्ट्वा कोपमाधायात्याक्षीद्देहं च सा सती ॥ ४७ ॥ पुनःसैव समुत्पन्ना तव गेहेऽम्बिका शिवा । पार्वती हरपत्नीयं भविष्यति न संशयः ॥ ४८ ॥ एतत्सर्वं विस्तरात्त्वं प्रोक्तवान्भूभृते मुने । पूर्वरूपं चरित्रं च पार्वत्याः प्रीतिवर्धनम् ॥ ४९ ॥ तं सर्वं पूर्ववृत्तान्यं काल्या मुनिमुखाद्गिरिः । श्रुत्वा सपुत्रदारः स तदा निःसंशयोऽभवत् ॥ ५० ॥ ततः काली कथां श्रुत्वा नारदस्य मुखात्तदा । लज्जयाधोमुखी भूत्वा स्मितविस्तारितानना ॥ ५१ ॥ करेण तां तु संस्पृश्य श्रुत्वा तच्चरितं गिरिः । मूर्ध्नि शश्वत्तथाघ्राय स्वासनान्ते न्यवेशयत् ॥ ५२ ॥ ततस्त्वं तां पुनर्दृष्ट्वाऽवोचस्तत्र स्थितां मुने । हर्षयन् गिरिराजं च मेनकां तनयैः सह ॥ ५३ ॥ सिंहासनं तु किन्त्वस्याः शैलराज भवेदतः । शम्भोरूरौ सदैतस्या आसनं तु भविष्यति ॥ ५४ ॥ हरेरूर्वासनं प्राप्य तनया तव सन्ततम् । न यत्र कस्याचिदृष्टिर्मानसं वा गमिष्यति ॥ ५५ ॥ ब्रह्मोवाच इति वचनमुदारं नारद त्वं गिरीशं त्रिदिवमगम उक्त्वा तत्क्षणादेवप्रीत्या । गिरिपतिरपि चित्ते चारुसंमोदयुक्तः स्वगृहमगमदेवं सर्वसम्पत्समृद्धम् ॥ ५६ ॥ इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे नारदहिमालयसंवादवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥ श्रीगौरीशंकरार्पणमस्तु |