॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

दशमोऽध्यायः

भौमोत्पत्तिस्तस्य शिवकृपया ग्रहत्वप्राप्तिश्च


नारद उवाच
विष्णुशिष्य महाभाग विधे शैववर प्रभो ।
शिवलीलामिमां व्यासात्प्रीत्या मे वक्तुमर्हसि ॥ १ ॥
सतीविरहयुक्शंम्भुः किं चक्रे चरितं तथा ।
तपः कर्तुं कदायातो हिमवत्प्रस्थमुत्तमम् ॥ २ ॥
शिवाशिवशिवादोऽभूत्कथं कामक्षयश्च मे ।
तपः कृत्वा कथं प्राप शिवं शम्भुं च पार्वती ॥ ३ ॥
तत्सर्वमपरं चापि शिवसच्चरितं परम् ।
वक्तुमर्हसि मे ब्रह्मन्महानन्दकरं शुभम् ॥ ४ ॥
सूत उवाच
इति श्रुत्वा नारदस्य प्रश्नं लोकाधिपोत्तमः ।
विधिः प्रोवाच सुप्रीत्या स्मृत्वा शिवपदाम्बुजम् ॥ ९ ॥
ब्रह्मोवाच
देवर्षे शैववर्याद्य तद्यशः शृणु चादरात् ।
पावनं मंगलकरं भक्तिवर्धनमुत्तमम् ॥ ६ ॥
आगत्य स्वगिरिं शम्भुः प्रियाविरहकातरः ।
सस्मार स्वप्रियां देवीं सतीं प्राणाधिकां हृदा ॥ ७ ॥
गणानाभाष्य शोचंस्तां तद्‌गुणान्प्रेमवर्धनान् ।
वर्णयामास सुप्रीत्या दर्शयँल्लौकिकीं गतिम् ॥ ६ ॥
दिगम्बरो बभूवाथ त्यक्त्वा गार्हस्थ्यसद्‌गतिम् ।
पुनर्बभ्राम लोकान्वै सर्वांल्लीलाविशारदः ॥ ९ ॥
दर्शनं प्राप्य कुत्रापि सतीविरहदुःखितः ।
पुनश्च गिरिमायातः शंकरो भक्तशंकरः ॥ १० ॥
समाधाय मनो यत्नात्समाधिं दुःखनाशनम् ।
चकार च ददर्शासौ स्वरूपं निजमव्ययम् ॥ ११ ॥
इत्थं चिरतरं स्थाणुस्तस्थौ ध्वस्तगुणत्रयः ।
निर्विकारी परं ब्रह्म मायाधीशः स्वयं प्रभुः ॥ १२ ॥
ततःसमाधिं तत्त्याज व्यतीयुर्ह्यमिताः समाः ।
यदा तदा बभूवाशु चरितं तद्वदामि वः ॥ १३ ॥
प्रभोर्ललाटदेशात्तु यत्पृषच्छ्रमसम्भवम् ।
पपात धरणौ तत्र स बभूव शिशुर्द्रुतम् ॥ १४ ॥
चतुर्भुजोऽरुणाकारो रमणीयाकृतिर्मुने ।
अलौकिकद्युतिः श्रीमाँस्तेजस्वी परदुःसहः ॥ १५ ॥
रुरोद स शिशुस्तस्य पुरो हि परमेशितुः ।
प्राकृतात्मजवत्तत्र भवाचाररतस्य हि ॥ १६ ॥
तदा विचार्य सुधिया धृत्वा सुस्त्रीतनुं क्षितिः ।
आविर्बभूव तत्रैव भयमानीय शंकरात् ॥ १७ ॥
तं बलं द्रुतमुत्थाय क्रोडयां निदधे वरम् ।
स्तन्यं साऽपाययत्प्रीत्या दुग्धं स्वोपरिसम्भवम् ॥ १८ ॥
चुचुम्ब तन्मुखं स्नेहात्स्मित्वा क्रीडयदात्मजम् ।
सत्यभावात्स्वयं माता परमेशहितावहा ॥ १९ ॥
तद्दृष्ट्‍वा चरितं शम्भुः कौतुकी सूतिकृत्कृती ।
अन्तर्यामी विहस्याथोवाच ज्ञात्वा रसां हरः ॥ २० ॥
धन्या त्वं धरणि प्रीत्या पालयैतं सुतं मम ।
त्वय्युद्‌भूतं श्रमजलान् महातेजस्विनो वरम् ॥ २१ ॥
मम श्रमकभूर्बालो यद्यपि प्रियकृत्क्षिते ।
त्वन्नाम्ना स्याद्‌भवेत्ख्यातस्त्रितापरहितः सदा ॥ २२ ॥
असौ बालः कुदाता हि भविष्यति गुणी तव ।
ममापि सुखदाता हि गृहाणैनं यथारुचि ॥ २३ ॥
ब्रह्मोवाच
इत्युक्त्वा विररामाथ किञ्चिद्विरहमुक्तधीः ।
लोकाचारकरो रुद्रो निर्विकारी सतां प्रियः ॥ २४ ॥
अपि क्षितिर्जगामाशु शिवाज्ञामधिगम्य सा ।
स्वस्थानं ससुता प्राप सुखमात्यन्तिकं च वै ॥ २५ ॥
स बालो भौम इत्याख्यां प्राप्य भूत्वा युवा द्रुतम् ।
तस्यां काश्यां चिरं कालं सिषेवे शंकरं प्रभुम् ॥ २६ ॥
विश्वेश्वरप्रसादेन ग्रहत्वं प्राप्य भूमिजः ।
दिव्यं लोकं जगामाशु शुक्रलोकात्परं वरम् ॥ २७ ॥
इत्युक्तं शम्भुचरितं सतीविरहसंयुतम् ।
तपस्याचरणं शम्भोः शृणु चादरतो मुने ॥ २८ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे भौमोत्पत्तिशिवलीलावर्णनं नाम दशमोऽध्यायः ॥ १० ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP