॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

चतुर्थोऽध्यायः

शिवेन देवानां सान्त्वनम्


ब्रह्मोवाच
इत्थं देवैः स्तुता देवी दुर्गा दुर्गार्तिनाशिनी ।
आविर्बभूव देवानां पुरतो जगदम्बिका ॥ १ ॥
रथे रत्नमये दिव्ये संस्थिता परमाद्‌भुते ।
किङ्‌किणीजालसंयुक्ते मृदुसंस्तरणे वरे ॥ २ ॥
कोटिसूर्याधिकाभास रम्यावयवभासिनी ।
स्वतेजोराशिमध्यस्था वररूपा समच्छविः ॥ ३ ॥
अनूपमा महामाया सदाशिवविलासिनी ।
त्रिगुणा निर्गुणा नित्या शिवलोकनिवासिनी ॥ ४ ॥
त्रिदेवजननी चण्डी शिवा सर्वार्तिनाशिनी ।
सर्वमाता महानिद्रा सर्वस्वजनतारिणी ॥ ५ ॥
तेजोराशेः प्रभावात्तु सा तु दृष्टा सुरैः शिवा ।
तुष्टुवुस्तां पुनस्ते वै सुरा दर्शनकाङ्‌क्षिणः ॥ ६ ॥
अथ देवगणाः सर्वे विष्ण्वाद्या दर्शनेप्सवः ।
ददृशुर्जगदम्बां तां तत्कृपां प्राप्य तत्र हि ॥ ७ ॥
बभूवानन्दसन्दोहः सर्वेषां त्रिदिवौकसाम् ।
पुनः पुनः प्रणेमुस्तां तुष्टुवुश्च विशेषतः ॥ ८ ॥
देवा ऊचुः
शिवे शर्वाणि कल्याणि जगदम्ब महेश्वरि ।
त्वां नताः सर्वथा देवा वयं सर्वार्तिनाशिनीम् ॥ ९ ॥
न हि जानन्ति देवेशि वेदाः शास्त्राणि कृत्स्नशः ।
अतीतो महिमा ध्यानं तव वाङ्‌मनसोः शिवे ॥ १० ॥
अतद्‌व्यावृत्तितस्तां वै चकितं चकितं सदा ।
अभिधत्ते श्रुतिरपि परेषां का कथा मता ॥ ११ ॥
जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ।
शरणागतभक्तानां न कुत्रापि भयादिकम् ॥ १२ ॥
विज्ञप्तिं शृणु सुप्रीता यस्या दासाः सदाम्बिके ।
तव देवि महादेवि हीनतो वर्णयामहे ॥ १३ ॥
पुरा दक्षसुता भूत्वा सञ्जाता हरवल्लभा ।
ब्रह्मणश्च परेषां वा नाशयत्वमकं महत् ॥ १४ ॥
पितृतोऽनादरं प्राप्यात्यजः पणवशात्तनुम् ।
स्वलोकमगमस्त्वं वा लभद्दुःखं हरोऽपि हि ॥ १५ ॥
न हि जातं प्रपूर्णं तद्देवकार्यं महेश्वरि ।
व्याकुला मुनयो देवाः शरणं त्वां गता वयम् ॥ १६ ॥
पूर्णं कुरु महेशानि निर्जराणां मनोरथम् ।
सनत्कुमारवचनं सफलं स्याद्यथा शिवे ॥ १७ ॥
अवतीर्य क्षितौ देवि रुद्रपत्नी पुनर्भव ।
लीलां कुरु यथायोग्यं प्राप्नुयुर्निर्जराः सुखम् ॥ १८ ॥
सुखी स्याद्देवि रुद्रोऽपि कैलासाचलसंस्थितः ।
सर्वे भवन्तु सुखिनो दुःखं नश्यतु कृत्स्नशः ॥ १९ ॥
ब्रह्मोवाच
इति प्रोच्यामराः सर्वे विष्ण्वाद्याः प्रेमसङ्‌कुलाः ।
मौनमास्थाय सन्तस्थुर्भक्तिनम्रात्ममूर्तयः ॥ २० ॥
शिवापि सुप्रसन्नाभूदाकर्ण्यामरसंस्तुतिम् ।
आकलय्याथ तद्धेतुं संस्मृत्य स्वप्रभुं शिवम् ॥ २१ ॥
उवाचोमा तदा देवी सम्बोध्य विबुधांश्च तान् ।
विहस्य मापतिमुखान्सदया भक्तवत्सला ॥ २२ ॥
उमोवाच
हे हरे हे विधे देवा मुनयश्च गतव्यथाः ।
सर्वे शृणुत मद्वाक्यं प्रसन्नाऽहं न संशयः ॥ २३ ॥
चरितं मम सर्वत्र त्रैलोक्यस्य सुखावहम् ।
कृतं मयैवं सकलं दक्षमोहादिकं च तत् ॥ २४ ॥
अवतारं करिष्यामि क्षितौ पूर्णं न संशयः ।
बहवो हेतवोऽप्यत्र तद्वदामि महादरात् ॥ २५ ॥
पुरा हिमाचलो देवा मेना चातिसुभक्तितः ।
सेवां मे चक्रतुस्तात जननीवत्सतीतनोः ॥ २६ ॥
इदानीं कुरुतः सेवां सुभक्त्या मम नित्यशः ।
मेना विशेषतस्तत्र सुतात्वे नात्र संशयः ॥ २७ ॥
रुद्रो गच्छतु यूयं चावतारं हिमवद्‌गृहे ।
अतश्चावतरिष्यामि दुःखनाशो भविष्यति ॥ २८ ॥
सर्वे गच्छत धाम स्वं स्वं सुखं लभतां चिरम् ।
अवतीर्य सुता भूत्वा मेनाया दास्य उत्सुखम् ॥ २९ ॥
हरपत्नी भविष्यामि सुगुप्तं मतमात्मनः ।
अद्‌भुता शिवलीला हि ज्ञानिनामपि मोहिनी ॥ ३० ॥
यावत्प्रभृति मे त्यक्ता स्वतनुर्दक्षजा सुराः ।
पितृतोऽनादरं दृष्ट्‍वा स्वामिनस्तत्क्रतौ गता ॥ ३१ ॥
तदाप्रभृति स स्वामी रुद्रः कालाग्निसञ्ज्ञकः ।
दिगम्बरो बभूवाशु मच्चिन्तनपरायणः ॥ ३२ ॥
मम रोषं क्रतौ दृष्ट्‍वा पितुस्तत्र गता सती ।
अत्यजत्स्वतनुं प्रीत्या धर्मज्ञेति विचारतः ॥ ३३ ॥
योग्यभूत्सदनं त्यक्त्वा कृत्वा वेषमलौकिकम् ।
न सेहे विरहं सत्या मद्‌रूपाया महेश्वरः ॥ ३४ ॥
मम हेतोर्महादुःखी स बभूव कुवेषभृत् ।
अत्यजत्स तदारभ्य कामजं सुखमुत्तमम् ॥ ३५ ॥
अन्यच्छृणुत हे विष्णो हे विधे मुनयः सुराः ।
महाप्रभोर्महेशस्य लीलां भुवनपालिनीम् ॥ ३६ ॥
विधाय मालां सुप्रीत्या ममास्थ्नां विरहाकुलः ।
न शान्तिं प्राप कुत्रापि प्रबुद्धोऽप्येक एव सः ॥ ३७ ॥
इतस्ततो रुरोदोच्चैरनीश इव स प्रभुः ।
योग्यायोग्यं न बुबुधे भ्रमन्सर्वत्र सर्वदा ॥ ३८ ॥
इत्थं लीलां हरोऽकार्षीद्दर्शयन् कामिनां प्रभुः ।
ऊचे कामुकवद्वाणीं विरहव्याकुलामिव ॥ ३९ ॥
वस्तुतोऽविकृतोऽदीनोऽस्त्यजितः परमेश्वरः ।
परिपूर्णः शिवः स्वामी मायाधीशोऽखिलेश्वरः ॥ ४० ॥
अन्यथा मोहतस्तस्य किं कामाच्च प्रयोजनम् ।
विकारेणादिकेनाशु मायालिप्तो न स प्रभुः ॥ ४१ ॥
रुद्रोऽतीवेच्छति विभुः स मे कर्तुं करग्रहम् ।
अवतारं क्षितौ मेनाहिमाचलगृहे सुराः ॥ ४२ ॥
अतश्चावतरिष्यामि रुद्रसन्तोषहेतवे ।
हिमागपत्न्यां मेनायां लौकिकीं गतिमाश्रिता ॥ ४३ ॥
भक्ता रुद्रप्रिया भूत्वा तपः कृत्वा सुदुःसहम् ।
देवकार्यं करिष्यामि सत्यं सत्यं न संशयः ॥ ४४ ॥
गच्छत स्वगृहं सर्वे भव भजत नित्यशः ।
तत्कृपातोऽखिलं दुःखं विनश्यति न संशयः ॥ ४५ ॥
भविष्यति कृपालोस्तु कृपया मंगलं सदा ।
वन्द्या पूज्या त्रिलोकेऽहं तज्जायेति च हेतुतः ॥ ४६ ॥
ब्रह्मोवाच
इत्युक्त्वा जगदम्बा सा देवानां पश्यतां तदा ।
अन्तर्दधे शिवा तात स्वं लोकं प्राप वै द्रुतम् ॥ ।४७ ॥
विष्ण्वादयः सुराः सर्वे मुनयश्च मुदान्विताः ।
कृत्वा तद्दिशि संनामं स्वस्वधामानि संययुः ॥ ४८ ॥
इत्थं दुर्गासुचरितं वर्णितं ते मुनीश्वर ।
सर्वदा सुखदं नॄणां भुक्तिमुक्तिप्रदायकम् ॥ ४९ ॥
य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ।
पठेद्वा पाठयेद्वापि सर्वान्कामानवाप्नुयात् ॥ ५० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
तृतीये पार्वतीखण्डे देवसान्त्वनं नाम चतुर्थोऽध्यायः ॥ ४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP