॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

पञ्चमोऽध्यायः

मेनकया वरप्राप्तिः


नारद उवाच अन्तर्हितायां देव्यां तु दुर्गायां स्वगृहेषु च ।
गतेष्वमरवृन्देषु किमभूत्तदनन्तरम् ॥ १ ॥

कथं मेनागिरीशौ च तेपाते परमं तपः ।
कथं सुताऽभवत्तस्य मेनायां तात तद्वद ॥ २ ॥
ब्रह्मोवाच
विप्रवर्य सुतश्रेष्ठ शृणु तच्चरितं महत् ।
प्रणम्य शंकरं भक्त्या वच्मि भक्तिविवर्द्धनम् ॥ ३ ॥
उपदिश्य गते तात सुरवृन्दे गिरीश्वरः ।
हर्यादौ मेनका चापि तेपाते परमंतपः ॥ ४ ॥
अहर्निशं शिवां शम्भुं चिन्तयन्तौ च दम्पती ।
सम्यगारेधतुर्नित्यं भक्तियुक्तेन चेतसा ॥ ५ ॥
गिरिप्रियातीव मुदानर्च देवीं शिवेन सा ।
दानं ददौ द्विजेभ्यश्च सदा तत्तोषहेतवे ॥ ६ ॥
चैत्रमासं समारभ्य सप्तविंशतिवत्सरान् ।
शिवां सम्पूजयामासापत्त्यार्थिन्यन्वहं रता ॥ ७ ॥
अष्टम्यामुपवासं तु कृत्वाऽदान्नवमीतिथौ ।
मोदकैर्बलिपिष्टैश्च पायसैर्गन्धपुष्पकैः ॥ ८ ॥
गङ्‌गायामौषधिप्रस्थे कृत्वा मूर्तिं महीमयीम् ।
उमायाः पूजयामास नानावस्तुसमर्पणैः ॥ ९ ॥
कदाचित्सा निराहारा कदाचित्सा धृतव्रता ।
कदाचित्पवनाहारा कदाचिज्जलभुग्ह्यभूत् ॥ १० ॥
शिवाविन्यस्तचेतस्का सप्तविंशतिवत्सरान् ।
निनाय मेनका प्रीत्या परं सा मृष्टवर्चसा ॥ ११ ॥
सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी ।
सुप्रीताभवदत्यर्थमुमा शंकरकामिनी ॥ १२ ॥
अनुग्रहाय मेनायाः पुरतः परमेश्वरी ।
आविर्बभूव सा देवी सन्तुष्टा तत्सुभक्तितः ॥ १३ ॥
दिव्यावयवसंयुक्ता तेजोमण्डलमध्यगा ।
उवाच विहसन्ती सा मेनां प्रत्यक्षतां गता ॥ १४ ॥
देव्युवाच
वरं ब्रूहि महासाध्वि यत्ते मनसि वर्तते ।
सुप्रसन्ना च तपसा तवाहं गिरिकामिनि ॥ १५ ॥
यत्प्रार्थितं त्वया मेने तपोव्रतसमाधिना ।
दास्ये तेऽहं च तत्सर्वं वाञ्छितं यद्यदा भवेत् ॥ १६ ॥
ततःसा मेनका देवीं प्रत्यक्षां कालिकान्तदा ।
दृष्ट्‍वा च प्रणनामाथ वचनं चेदमब्रवीत् ॥ १७ ॥
मेनोवाच
देवि प्रत्यक्षतो रूपं दृष्टन्तव मयाऽधुना ।
त्वामहं स्तोतुमिच्छामि प्रसन्ना भव कालिके ॥ १८ ॥
ब्रह्मोवाच
अथ सा मेनयेत्युक्ता कालिका सर्वमोहिनी ।
बाहुभ्यां सुप्रसन्नात्मा मेनकां परिषस्वजे ॥ १९ ॥
ततः प्राप्तमहाज्ञाना मेनका कालिकां शिवम् ।
तुष्टाव वाग्भिरिष्टाभिर्भक्त्या प्रत्यक्षतां गताम् ॥ २० ॥
मेनोवाच
महामायां जगद्धात्रीं चण्डिकां लोकधारिणीम् ।
प्रणमामि महादेवीं सर्वकामार्थदायिनीम् ॥ २१ ॥
नित्यानन्दकरीं मायां योगनिद्रां जगत्प्रसूम् ।
प्रणमामि सदा सिद्धां शुभसारसमालिनीम् ॥ २२ ॥
मातामहीं सदानन्दां भक्तशोकविनाशिनीम् ।
आकल्पं वनितानां च प्राणिनां बुद्धिरूपिणीम् ॥ २३ ॥
सा त्वं बन्धच्छेदहेतुर्यतीनां
     कस्ते गेयो मादृशीभिः प्रभावः ।
हिंसा या वाऽथर्ववेदस्य सा
     त्वं नित्यं कामं त्वं ममेष्टं विधेहि ॥ २४ ॥
नित्यानित्यैर्भावहीनैः परास्तै-
     स्तत्तन्मात्रैर्योज्यते भूतवर्गः ।
तेषां शक्तिस्त्वं सदा नित्यरूपा
     काले योषा योगयुक्ता समर्था ॥ २५ ॥
योनिर्धरित्री जगतां त्वमेव
     त्वमेव नित्या प्रकृतिः परस्तात् ।
यथा वशं क्रियते ब्रह्मरूपं
     सा त्वं नित्या मे प्रसीदाद्य मातः ॥ २६ ॥
त्वं जातवेदोगतशक्तिरुग्रा
     त्वं दाहिका सूर्यकरस्य शक्तिः ।
आह्लादिका त्वं बहुचन्द्रिका या
     तां त्वामहं स्तौमि नमामि चण्डीम् ॥ २७ ॥
योषाणां सत्प्रिया च त्वं नित्या त्वं चोर्ध्वरेतसाम् ।
वाञ्छा त्वं सर्वजगतां माया च त्वं यथा हरेः ॥ २८ ॥
या चेष्टरूपाणि विधाय देवी
सृष्टिस्थितिर्नाशमयी च कर्त्री ।
ब्रह्माच्युतस्थाणुशरीरहेतुः
सा त्वं प्रसीदाद्य पुनर्नमस्ते ॥ २९ ॥
ब्रह्मोवाच
तत इत्थं स्तुता दुर्गा कालिका पुनरेव हि ।
उवाच मेनकां देवीं वाञ्छितं वरयेत्युत ॥ ३० ॥
उमोवाच
प्राणप्रिया मम त्वं हि हिमाचलविलासिनी ।
यदिच्छसि ध्रुवं दास्ये नादेयं विद्यते मम ॥ ३१ ॥
इति श्रुत्वा महेशान्याः पीयूषसदृशं वचः ।
उवाच परितुष्टा सा मेनका गिरिकामिनी ॥ ३२ ॥
मेनोवाच
शिवे जयजय प्राज्ञे महेश्वरि भवाम्बिके ।
वरयोग्यास्महं चेत्ते वृणे भूयो वरं वरम् ॥ ३३ ॥
प्रथमं शतपुत्रा मे भवन्तु जगदम्बिके ।
बह्वायुषो वीर्यवन्त ऋद्धिसिद्धिसमन्विताः ॥ ३४ ॥
पश्चात्तथैका तनया स्वरूपगुणशालिनी ।
कुलद्वयानन्दकरी भुवनत्रयपूजिता ॥ ३५ ॥
सुता भव मम शिवे देवकार्यार्थमेव हि ।
रुद्रपत्नी भव तथा लीलां कुरु भवाम्बिके ॥ ३६ ॥
ब्रह्मोवाच
तच्छ्रुत्वा मेनकोक्तं हि प्राह देवी प्रसन्नधीः ।
स्मितपूर्वं वचस्तस्याः पूरयन्ती मनोरथम् ॥ ३७ ॥
देव्युवाच
शतपुत्राः संभवन्तु भवत्या वीर्यसंयुताः ।
तत्रैको बलवान्मुख्यः प्रथमं सम्भविष्यति ॥ ३८ ॥
सुताहं सम्भविष्यामि सन्तुष्टा तव भक्तितः ।
देव कार्यं करिष्यामि सेविता निखिलैःसुरैः ॥ ३९ ॥
ब्रह्मोवाच
एवमुक्त्वा जगद्धात्री कालिका परमेश्वरी ।
पश्यन्त्या मेनकायास्तु तत्रैवान्तर्दधे शिवा ॥ ४० ॥
मेनकापि वरं लब्ध्वा महेशान्या अभीप्सितम् ।
मुदं प्रापामितां तात तपःक्लेशोऽप्यनश्यत ॥ ४१ ॥
दिशि तस्यां नमस्कृत्य सुप्रहृष्टमनाःसती ।
जयशब्दं प्रोच्चरन्ती स्वस्थानं प्रविवेश ह ॥ ४२ ॥
अथ तस्मै स्वपतये शशंस सुवरं च तम् ।
स्वचिह्नबुद्धमिव वै सुवाचा पुनरुक्तया ॥ ४३ ॥
श्रुत्वा शैलपतिर्हृष्टोऽभवन्मेनावचो हि तत् ।
प्रशशंस प्रियां प्रीत्या शिवाभक्तिरतां च ताम् ॥ ४४ ॥
कालक्रमेणाऽथ तयोः प्रवृत्ते सुरते मुने ।
गर्भो बभूव मेनाया ववृधे प्रत्यहं च सः ॥ ४५ ॥
असूत सा नागवधूपभोग्यं सुतमुत्तमम् ।
समुद्रबद्धसत्सख्यं मैनाकाभिधमद्‌भुतम् ॥ ४६ ॥
वृत्रशत्रावपि क्रुद्धो वेदनाशं सपक्षकम् ।
पविक्षतानां देवर्षे पक्षच्छिदि वराङ्‌गकम् ॥ ४७ ॥
प्रवरं शतपुत्राणां महाबलपराक्रमम् ।
स्वोद्‌भवानां महीध्राणां पर्वतेन्द्रे प्रतिष्ठितम् ॥ ४८ ॥
आसीन्महोत्सवस्तत्र हिमाचलपुरेऽद्‌भुतः ।
दम्पत्योः प्रमुदाधिक्यं बभूव क्लेशसङ्‌क्षयः ॥ ४९ ॥
दानन्ददौ द्विजातिभ्योऽन्येभ्यश्च प्रददौ धनम् ।
शिवाशिवपदद्वन्द्वे स्नेहोऽभूदधिकस्तयोः ॥ ५० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये
पार्वतीखण्डे मेनावरलाभवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP