॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे

तृतीयोऽध्यायः

विष्ण्वादिदेवैः कृता शिवस्तुतिः


नारद उवाच
विधे प्राज्ञ महाधीमन्वद मे वदतां वर ।
ततः परं किमभवच्चरितं विष्णुसद्‌गुरोः ॥ १ ॥
अद्‌भुतेयं कथा प्रोक्ता मेना पूर्वगतिः शुभा ।
विवाहश्च श्रुतः सम्यक्परमं चरितं वद ॥ २ ॥
मेनां विवाह्य स गिरिः कृतवान्किं ततः परम् ।
पार्वती कथमुत्पन्ना तस्यां वै जगदम्बिका ॥ ३ ॥
तपःसुदुःसहं कृत्वा कथं प्राप पतिं हरम् ।
एतत्सर्वं समाचक्ष्व विस्तराच्छाङ्‌करं यशः ॥ ४ ॥
ब्रह्मोवाच
मुने त्वं शृणु सुप्रीत्या शाङ्‌करं सुयशः शुभम् ।
यच्छ्रुत्वा ब्रह्महा शुद्ध्येत्सर्वान्कामानवाप्नुयात् ॥ ५ ॥
यदा मेनाविवाहं तु कृत्वागच्छद्‌गिरिर्गृहम् ।
तदा समुत्सवो जातस्त्रिषु लोकेषु नारद ॥ ६ ॥
हिमाचलोऽपि सुप्रीतश्चकार परमोत्सवम् ।
भूसुरान्बन्धुवर्गांश्च परानानर्च सद्धिया ॥ ७ ॥
सर्वे द्विजाश्च सन्तुष्टा दत्त्वाशीर्वचनं वरम् ।
ययुस्तस्मै स्वस्वधाम बन्धुवर्गास्तथापरे ॥ ८ ॥
हिमाचलोऽपि सुप्रीतो मेनया सुखदे गृहे ।
रेमेऽन्यत्र च सुस्थाने नन्दनादिवनेष्वपि ॥ ९ ॥
तस्मिन्नवसरे देवा मुने विष्ण्वादयोऽखिलाः ।
मुनयश्च महात्मानः प्रजग्मुर्भूधरान्तिके ॥ १० ॥
दृष्ट्‍वा तानागतान्देवान्प्रणनाम मुदा गिरिः ।
संमानं कृतवान्भक्त्या प्रशंसन्स्वविधिं महान् ॥ ११ ॥
साञ्जलिर्नतशीर्षो हि स तुष्टाव सुभक्तितः ।
रोमोद्‌गमो महानासीद्‌गिरेः प्रेमाश्रवोऽपतन् ॥ १२ ॥
ततः प्रणम्य सुप्रीतो हिमशैलः प्रसन्नधीः ।
उवाच प्रणतो भूत्वा मुने विष्ण्वादिकान्सुरान् ॥ १३ ॥
हिमाचल उवाच
अद्य मे सफलं जन्म सफलं सुमहत्तपः ।
अद्य मे सफलं ज्ञानमद्य मे सफलाः क्रियाः ॥ १४ ॥
धन्योऽहमद्य सञ्जातो धन्या मे सकला क्षितिः ।
धन्यं कुलं तथा दाराः सर्वं धन्यं न संशयः ॥ १५ ॥
यतः समागता यूयं मिलित्वा सर्व एकदा ।
मां निदेशयत प्रीत्योचितं मत्त्वा स्वसेवकम् ॥ १६ ॥
ब्रह्मोवाच
इति श्रुत्वा महीध्रस्य वचनं ते सुरास्तदा ।
ऊचुर्हर्यादयः प्रीताः सिद्धिं मत्वा स्वकार्यतः ॥ १७ ॥
देवा ऊचुः
हिमाचल महाप्राज्ञ शृण्वस्मद्वचनं हितम् ।
यदर्थमागताः सर्वे तद्‌ब्रूमः प्रीतितो वयम् ॥ १८ ॥
या पुरा जगदम्बोमा दक्षकन्याऽभवद्‌गिरे ।
रुद्रपत्नी हि सा भूत्वा चिक्रीडे सुचिरं भुवि ॥ १९ ॥
पितृतोऽनादरं प्राप्य संस्मृत्य स्वपणं सती ।
जगाम स्वपदं त्यक्त्वा तच्छरीरं तदाम्बिका ॥ २० ॥
सा कथा विदिता लोके तवापि हिमभूधर ।
एवं सति महालाभो भवेद्देवगणस्य हि ॥ २१ ॥
सर्वस्य भवतश्चापि स्युः सर्वे ते वशाः सुराः । २२ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां हर्यादीनां गिरीश्वरः ।
तथास्त्विति प्रसन्नात्मा प्रोवाच न च सादरात् ॥ २३ ॥
अथ ते च समादिश्य तद्विधिं परमादरात् ।
स्वयं जग्मुश्च शरणमुमायाः शंकर स्त्रियः ॥ २४ ॥
सुस्थले मनसा स्थित्वा सस्मरुर्जगदम्बिकाम् ।
प्रणम्य बहुशस्तत्र तुष्टुवुः श्रद्धया सुराः ॥ २५ ॥
देवा ऊचुः
देव्युमे जगतामम्ब शिवलोकनिवासिनी ।
सदा शिवप्रिये दुर्गे त्वां नमामो महेश्वरि ॥ २६ ॥
श्रीशक्तिं पावनां शान्तां पुष्टिं परमपावनीम् ।
वयं नमामहे भक्त्या महदव्यक्तरूपिणीम् ॥ २७ ॥
शिवां शिवकरां शुद्धां स्थूलां सूक्ष्मां परायणाम् ।
अन्तर्विद्यासुविद्याभ्यां सुप्रीतां त्वां नमामहे ॥ २८ ॥
त्वं श्रद्धा त्वं धृतिस्त्वं श्रीस्त्वमेव सर्वगोचरा ।
त्वन्दीधितिः सूर्य्यगता स्वप्रपञ्चप्रकाशिनी ॥ २९ ॥
या च ब्रह्माण्डसंस्थाने जगज्जीवेषु या जगत् ।
आप्याययति ब्रह्मादितृणान्तं तां नमामहे ॥ ३० ॥
गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती ।
त्वं वार्ता सर्वजगतां त्वं त्रयी धर्मरूपिणी ॥ ३१ ॥
निद्रा त्वं सर्वभूतेषु क्षुधा तृप्तिस्त्वमेव हि ।
तृष्णा कान्तिश्छविस्तुष्टिः सर्वानन्दकरी सदा ॥ ३२ ॥
त्वं लक्ष्मीः पुण्यकर्तॄणां त्वं ज्येष्ठा पापिनां सदा ।
त्वं शान्तिः सर्वजगतां त्वं धात्री प्राणपोषिणी ।३३ ॥
त्वं तत्त्वरूपा भूतानां पञ्चानामपि सारकृत् ।
त्वं हि नीतिभृतां नीतिर्व्यवसायस्वरूपिणी ॥ ३४ ॥
गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ।
ऋग्वेदस्य तथा मात्राथर्वणस्य परा गतिः ॥ ३५ ॥
समस्तगीर्वाणगणस्य शक्ति-
     स्तमोमयी धातृगुणैकदृश्या ।
रजः प्रपञ्चात्तु भवैकरूपा
     या न श्रुता भव्यकरी स्तुतेह ॥ ३६ ॥
संसारसागरकरालभवाङ्‌गदुःख-
     निस्तारकारितरणिं च निवीतहीनाम् ।
अष्टाङ्‌गयोगपरिपालनकेलिदक्षां
     विन्ध्यागवासनिरतां प्रणमाम तां वै ॥ ३७ ॥
नासाक्षिवक्त्रभुजवक्षसि मानसे च
     धृत्या सुखानि वितनोऽसि सदैव जन्तोः ।
निद्रेति याति सुभगा जगती भवानां
     सा नः प्रसीदन्तु भवस्थितिपालनाय ॥ ३८ ॥
ब्रह्मोवाच
इति स्तुत्वा महेशानीं जगदम्बामुमां सतीम् ।
सुप्रेयमनसः सर्वे तस्थुस्ते दर्शनेप्सवः ॥ ३९ ॥
इति श्रीशिवमहापुराणे दितीयायां रुद्रसंहितायां
तृतीये पार्वतीखण्डे देवस्तुतिर्नाम तृतीयोऽध्यायः ॥ ३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP