|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
द्वितीयोऽध्यायः
मेनकादीनां सनकादिभ्यः शापप्राप्तिः
नारद उवाच
विधे प्राज्ञ वदेदानीं मेनोत्पत्तिं समादरात् । अपि शापं समाचक्ष्व कुरु सन्देहभञ्जनम् ॥ १ ॥ ब्रह्मोवाच शृणु नारद सुप्रीत्या मेनोत्पत्तिं विवेकतः । मुनिभिः सह वक्ष्येहं सुतवर्य महाबुध ॥ २ ॥ दक्षनामा मम सुतो यः पुरा कथितो मुने । तस्य जाताः सुताः षष्टिप्रमिताःसृष्टिकारणाः ॥ ३ ॥ तासां विवाहमकरोत्स वरैः कश्यपादिभिः । विदितं ते समस्तं तत्प्रस्तुतं शृणु नारद ॥ ४ ॥ तासां मध्ये स्वधानाम्नीं पितृभ्यो दत्तवान्सुताम् । तिस्रोभवन्सुतास्तस्याःसुभगा धर्ममूर्तयः ॥ ५ ॥ तासां नामानि शृणु मे पावनानि मुनीश्वर । सदा विघ्नहराण्वेव महामंगलदानि च ॥ ६ ॥ मेनानाम्नी सुता ज्येष्ठा मध्या धन्या कलावती । अन्त्या एताः सुताः सर्वाः पितॄणाम्मानसोद्भवाः ॥ ७ ॥ अयोनिजाः स्वधायाश्च लोकतस्तत्सुता मताः । आसां प्रोच्य सुनामानि सर्वान्कामाञ्जनो लभेत् ॥ ८ ॥ जगद्वन्द्याः सदा लोकमातरः परमोददाः । योगिन्यः परमा ज्ञाननिधानास्तास्त्रिलोकगाः ॥ ९ ॥ एकस्मिन्समये तिस्रो भगिन्यस्ता मुनीश्वर । श्वेतद्वीपं विष्णुलोकं जग्मुर्दर्शनहेतवे ॥ १० ॥ कृत्वा प्रणामं विष्णोश्च संस्तुतिं भक्तिसंयुताः । तस्थुस्तदाज्ञया तत्र सुसमाजो महानभूत् ॥ ११ ॥ तदैव सनकाद्यास्तु सिद्धा ब्रह्मसुता मुने । गतास्तत्र हरिं नत्वा स्तुत्वा तस्थुस्तदाज्ञया ॥ १२ ॥ सनकाद्यान्मुनीन्दृष्ट्वोत्तस्थुस्ते सकला द्रुतम् । तत्रस्थान्संस्थितान्नत्वा देवाद्याँल्लोकवन्दितान् ॥ १३ ॥ तिस्रो भगिन्यस्तांस्तत्र नोत्तस्थुर्मोहिता मुने । मायया दैवविवशाः शंकरस्य परमात्मनः ॥ १४ ॥ मोहिनी सर्व लोकानां शिवमाया गरीयसी । तदधीनं जगत्सर्वं शिवेच्छा सा प्रकीर्त्यते ॥ १५ ॥ प्रारब्धं प्रोच्यते सैव तन्नामानि ह्यनेकशः । शिवेच्छया भवत्येव नात्र कार्या विचारणा ॥ १६ ॥ भूत्वा तद्वशगास्ता वै न चक्रुरपि तन्नतिम् । विस्मिताः सम्प्रदृश्यैव संस्थितास्तत्र केवलम् ॥ १७ ॥ तादृशीं तद्गतिं दृष्ट्वा सनकाद्या मुनीश्वराः । ज्ञानिनोऽपि परं चक्रुः क्रोधं दुर्विषहं च ते ॥ १८ ॥ शिवेच्छामोहितस्तत्र सक्रोधस्ता उवाच ह । सनत्कुमारो योगीशः शापं दण्डकरं ददत् ॥ १९ ॥ सनत्कुमार उवाच यूयं तिस्रो भगिन्यश्च मूढाः सद्वयुनोज्झिताः । अज्ञातश्रुतितत्त्वा हि पितृकन्या अपि ध्रुवम् ॥ २० ॥ अभ्युत्थानं कृतं नो यन्नमस्कारोपि गर्वतः । मोहिता नरभावत्वात्स्वर्गाद्दूरा भवन्तु हि ॥ २१ ॥ नरस्त्रियः सम्भवन्तु तिस्रोऽपि ज्ञानमोहिताः । स्वकर्मणः प्रभणावे लभध्वं फलमीदृशम् ॥ २२ ॥
ब्रह्मोवाच इत्याकर्ण्य च साध्वस्तास्तिस्रोऽपि चकिता भृशम् । पतित्वा पादयोस्तस्य समूचूर्नतमस्तकाः ॥ २३ ॥ पितृतनया ऊचुः मुनिवर्य्य दयासिन्धो प्रसन्नो भव चाधुना । त्वत्प्रणामं वयं मूढाः कुर्महे स्म न भावतः ॥ २४ ॥ प्राप्तं च तत्फलं विप्र न ते दोषो महामुने । अनुग्रहं कुरुष्वात्र लभेम स्वर्गतिं पुनः ॥ २५ ॥ ब्रह्मोवाच श्रुत्वा तद्वचनं तात प्रोवाच स मुनिस्तदा । शापोद्धारं प्रसन्नात्मा प्रेरितः शिवमायया ॥ २६ ॥ सनत्कुमार उवाच पितॄणां तनयास्तिस्रः शृणुत प्रीतमानसाः । वचनं मम शोकघ्नं सुखदं सर्वदैव वः ॥ २७ ॥ विष्णोरंशस्य शैलस्य हिमाधारस्य कामिनी । ज्येष्ठा भवतु तत्कन्या भविष्यत्येव पार्वती ॥ २८ ॥ धन्या प्रिया द्वितीया तु योगिनी जनकस्य च । तस्याः कन्या महालक्ष्मीर्नाम्ना सीता भविष्यति ॥ २९ ॥ वृषभानस्य वैश्यस्य कनिष्ठा च कलावती । भविष्यति प्रिया राधा तत्सुता द्वापरान्ततः ॥ ३० ॥ मेनका योगिनी पत्या पार्वत्याश्च वरेण च । तेन देहेन कैलासं गमिष्यति परण् पदम् ॥ ३१ ॥ धन्या च सीतया सीरध्वजो जनकवंशजः । जीवन्मुक्तो महायोगी वैकुण्ठं च गमिष्यति ॥ ३२ ॥ कलावती वृषभानस्य कौतुकात्कन्यया सह । जीवन्मुक्ता च गोलोकं गमिष्यति न संशयः ॥ ३३ ॥ विना विपत्तिं महिमा केषां कुत्र भविष्यति । सुकर्मिणां गतेर्दुःखे प्रभवेद्दुर्लभं सुखम् ॥ ३४ ॥ यूयं पितॄणां तनयाः सर्वाः स्वर्गविलासिकाः । कर्मक्षयश्च युष्माकमभवद्विष्णुदर्शनात् ॥ ३५ ॥ इत्युक्त्वा पुनरप्याह गतक्रोधो मुनीश्वरः । शिवं संस्मृत्य मनसा ज्ञानदं भुक्तिमुक्तिदम् ॥ ३६ ॥ अपरं शृणुत प्रीत्या मद्वचः सुखदं सदा । धन्या यूयं शिवप्रीता मान्याः पूज्या ह्यभीक्ष्णशः ॥ ३७ ॥ मेनायास्तनया देवी पार्वती जगदम्बिका । भविष्यति प्रिया शम्भोस्तपः कृत्वा सुदुःसहम् ॥ ३८ ॥ धन्या सुता स्मृता सीता रामपत्नी भविष्यति । लौकिकाचारमाश्रित्य रामेण विहरिष्यति ॥ ३९ ॥ कलावतीसुता राधा साक्षाद्गोलोकवासिनी । गुप्तस्नेहनिबद्धा सा कृष्णपत्नी भविष्यति ॥ ४० ॥ ब्रह्मोवाच इत्थमाभाष्य स मुनिर्भ्रातृभिः सह संस्तुतः । सनत्कुमारो भगवाँस्तत्रैवान्तर्हितोऽभवत् ॥ ४१ ॥ तिस्रो भगिन्यस्तास्तात पितॄणां मानसीः सुताः । गतपापाःसुखं प्राप्य स्वधाम प्रययुर्द्रुतम् ॥ ४२ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पूर्वगतिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥ श्रीगौरीशंकरार्पणमस्तु |