|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां तृतीयः पार्वतीखण्डे
प्रथमोऽध्यायः ॥
हिमाचलविवाहवर्णनम्
नारद उवाच
दाक्षायणी सती देवी त्यक्तदेहा पितुर्मखे । कथं गिरिसुता ब्रह्मन्बभूव जगदम्बिका ॥ १ ॥ कथं कृत्वा तपोऽत्युग्रं पतिमाप शिवं च सा । एतन्मे पृच्छते सम्यक्कथय त्वं विशेषतः ॥ २ ॥ ब्रह्मोवाच शृणु त्वं मुनिशार्दूल शिवाचरितमुत्तमम् । पावनं परमं दिव्यं सर्वपापहरं शुभम् ॥ ३ ॥ यदा दाक्षायणी देवी हरेण सहिता मुदा । हिमाचले शुचि क्रीडेल्लीलया परमेश्वरी ॥ ४ ॥ मत्सुतेयमिति ज्ञात्वा सिषेवे मातृवर्चसा । हिमाचलप्रिया मेना सर्वर्द्धिभिरनिर्भरा ॥ ५ ॥ यदा दाक्षायणी रुष्टा नादृता स्वतनुं जहौ । पित्रा दक्षेण तद्यज्ञे सङ्गता परमेश्वरी ॥ ६ ॥ तदैव मेनका तां सा हिमाचलप्रिया मुने । शिवलोकस्थितां देवीमारिराधयिषुस्तदा ॥ ७ ॥ तस्यामहं सुता स्यामित्यवधार्य सती हृदा । त्यक्तदेहा मनो दध्रे भवितुं हिमवत्सुता ॥ ८ ॥ समयं प्राप्य सा देवी सर्वदेवस्तुता पुनः । सती त्यक्ततनुः प्रीत्या मेनकातनयाऽभवत् ॥ ९ ॥ नाम्ना सा पार्वती देवी तपः कृत्वा सुदुःसहम् । नारदस्योपदेशाद्वै पतिं प्राप शिवं पुनः ॥ १० ॥ नारद उवाच ब्रह्मन् विधे महाप्राज्ञ वद मे वदतां वर । मेनकायाः समुत्पत्तिं विवाहं चरितं तथा ॥ ११ ॥ धन्या हि मेनका देवी यस्यां जाता सुता सती । अतो मान्या च धन्या च सर्वेषां सा पतिव्रता ॥ १२ ॥ ब्रह्मोवाच शृणु त्वं नारद मुने पार्वतीमातुरुद्भवम् । विवाहं चरितं चैव पावनं भक्तिवर्द्धनम् ॥ १३ ॥ अस्त्युत्तरस्यां दिशि वै गिरीशो हिमवान्महान् । पर्वतो हि मुनिश्रेष्ठ महातेजाः समृद्धिभाक् ॥ १४ ॥ वैरूप्यं तस्य विख्यातं जङ्गमस्थिरभेदतः । वर्णयामि समासेन तस्य सूक्ष्मस्वरूपकम् ॥ १५ ॥ पूर्वापरौ तोयनिधी सुविगाह्य स्थितो हि यः । नानारत्नाकरो रम्यो मानदण्ड इव क्षितेः ॥ १६ ॥
नानावृक्षसमाकीर्णो नानाशृङ्गसुचित्रितः । सिंहव्याघ्रादिपशुभिःसेवितःसुखिभिःसदा ॥ १७ ॥ तुषारनिधिरत्युग्रो नानाश्चर्यविचित्रितः । देवर्षिसिद्धमुनिभिः संश्रितः शिवसम्प्रियः ॥ १८ ॥ तपस्थानोऽतिपूतात्मा पावनश्च महात्मनाम् । तपःसिद्धिप्रदोऽत्यन्तं नानाधात्वाकरः शुभः ॥ १९ ॥ स एव दिव्यरूपो हि रम्यः सर्वाङ्गसुन्दरः । विष्ण्वंशोऽविकृतः शैलराजराजः सतां प्रियः ॥ २० ॥ कुलस्थित्यै च स गिरिर्धर्मवर्द्धनहेतवे । स्वविवाहं कर्तुमैच्छत्पितृदेवहितेच्छया ॥ २१ ॥ तस्मिन्नवसरे देवाः स्वार्थमाचिन्त्य कृत्स्नशः । ऊचुः पितृन्समागत्य दिव्यान्प्रीत्या मुनीश्वर ॥ २२ ॥ देवा ऊचुः सर्वे शृणुत नो वाक्यं पितरः प्रीतमानसाः । कर्त्तव्यं तत्तथैवाशु देवकार्येप्सवो यदि ॥ २३ ॥ मेना नाम सुता या वो ज्येष्ठा मंगलरूपिणी । ताम्विवाह्य च सुप्रीत्या हिमाख्येन महीभृता ॥ २४ ॥ एवं सर्वमहालाभः सर्वेषां च भविष्यति । युष्माकममराणां च दुःखहानिः पदे पदे ॥ २५ ॥ ब्रह्मोवाच इत्याकर्ण्यामरवचः पितरस्ते विमृश्य च । स्मृत्वा शापं सुतानां च प्रोचुरोमिति तद्वचः ॥ २६ ॥ ददुर्मेनां सुविधिना हिमागाय निजात्मजाम् । समुत्सवो महानासीत्तद्विवाहे सुमंगले ॥ २७ ॥ हर्य्यादयोऽपि ते देवा मुनयश्चापरेऽखिलाः । आजग्मुस्तत्र संस्मृत्य वामदेवं भवं धिया ॥ २८ ॥ उत्सवं कारयामासुर्दत्त्वा दानान्यनेकशः । सुप्रशस्य पितृन्दिव्यान्प्रशशंसुर्हिमाचलम् ॥ २९ ॥ महामोदान्विता देवास्ते सर्वे समुनीश्वराः । सञ्जग्मुः स्वस्वधामानि संस्मरन्तः शिवाशिवौ ॥ ३० ॥ कौतुकं बहु सम्प्राप्य सुविवाह्य प्रियां च ताम् । आजगाम स्वभवनं मुदमाप गिरीश्वरः ॥ ३१ ॥ ब्रह्मोवाच मेनया हि हिमागस्य सुविवाहो मुनीश्वर । प्रोक्तो मे सुखदः प्रीत्या किम्भूयः श्रोतुमिच्छसि ॥ ३२ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे हिमाचलविवाहवर्णनं नाम प्रथमोध्यायः ॥ १ ॥ श्रीगौरीशंकरार्पणमस्तु |