॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

त्रिचत्वारिंशोऽध्यायः ॥

दक्षयज्ञानुसंधानम्


ब्रह्मोवाच
इति स्तुतो रमेशेन मया चैव सुरर्षिभिः ।
तथान्यैश्च महादेवः प्रसन्नः सम्बभूव ह ॥ १ ॥
अथ शम्भुः कृपा दृष्ट्या सर्वान् ऋषिसुरादिकान् ।
ब्रह्मविष्णू समाधाय दक्षमेतदुवाच ह ॥ २ ॥
महादेव उवाच
शृणु दक्ष प्रवक्ष्यामि प्रसन्नोऽस्मि प्रजापते ।
भक्ताधीनः सदाहं वै स्वतन्त्रोऽप्यखिलेश्वरः ॥ ३ ॥
चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा ।
उत्तरोत्तरतः श्रेष्ठास्तेषां दक्षप्रजापते ॥ ४ ॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ।
पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते ॥ ५ ॥
तत्र ज्ञानी प्रियतर ममरूपश्च स स्मृतः ।
तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम् ॥ ६ ॥
ज्ञानगम्योहमात्मज्ञो वेदान्तश्रुतिपारगैः ।
विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः ॥ ७ ॥
न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित् ।
न शक्नुवन्ति मां प्राप्तुं मूढाः कर्मवशा नराः
केवलं कर्मणा त्वं स्म संसारं तर्तुमिच्छसि ।
अत एवाभवं रुष्टो यज्ञविध्वंसकारकः ॥ ९ ॥
इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम् ।
बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः ॥ १० ॥
अन्यच्च शृणु सद्‌बुद्ध्या वचनं मे प्रजापते ।
वच्मि गुह्यं धर्महेतोः सगुणत्वेऽप्यहं तव ॥ ११ ॥
अहं ब्रह्मा च विष्णुश्च जगतः कारणं परम् ।
आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥ १२ ॥
आत्ममायां समाविश्य सोऽहं गुणमयीं मुने ।
सृजन् रक्षन् हरन् विश्वं दधे सञ्ज्ञाः क्रियोचिताः ॥ १३ ॥
अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले ।
अज्ञः पश्यति भेदेन भूतानि ब्रह्मचेश्वरम् ॥ १४ ॥
शिरः करादिस्वाङ्‌गेषु कुरुते न यथा पुमान् ।
पारक्यशेमुषीं क्वापि भूतेष्वेवं हि मत्परः ॥ १५ ॥
सर्वभूतात्मनामेकभावनां यो न पश्यति ।
त्रिसुराणां भिदां दक्ष स शान्तिमधिगच्छति ॥ १६ ॥
यः करोति त्रिदेवेषु भेदबुद्धिं नराधमः ।
नरके स वसेन्नूनं यावदाचन्द्रतारकम् ॥ १७ ॥
मत्परः पूजयेद्देवान् सर्वानपि विचक्षणः ।
स ज्ञानं लभते येन मुक्तिर्भवति शाश्वती ॥ १८ ॥
विधिभक्तिं विना नैव भक्तिर्भवति वैष्णवी ।
विष्णुभक्तिं विना मे न भक्तिः क्वापि प्रजायते ॥ १९ ॥
इत्युक्त्वा शंकरः स्वामी सर्वेषां परमेश्वरः ।
सर्वेषां शृण्वतां तत्रोवाच वाणीं कृपाकरः ॥ २० ॥
हरिभक्तो हि मां निन्देत्तथा शैवोभवेद्यदि ।
तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्न हि ॥ २१ ॥
ब्रह्मोवाच
इत्याकर्ण्य महेशस्य वचनं सुखकारकम् ।
जहर्षुः सकलास्तत्र सुरमुन्यादयो मुने ॥ २२ ॥
दक्षोऽभवन्महाप्रीत्या शिवभक्तिरतस्तदा ।
सकुटुम्बः सुराद्यास्ते शिवं मत्वाखिलेश्वरम् ॥ २३ ॥
यथा येन कृता शम्भोः संस्तुतिः परमात्मनः ।
तथा तस्मै वरो दत्तः शम्भुना तुष्टचेतसा ॥ २४ ॥
ज्ञप्तः शिवेनाशु दक्षः शिवभक्तः प्रसन्नधीः ।
यज्ञं चकार सम्पूर्णं शिवानुग्रहतो मुने ॥ २५ ॥
ददौ भागान्सुरेभ्यो हि पूर्णभागं शिवाय सः ।
दानं ददौ द्विजेभ्यश्च प्राप्तः शम्भोरनुग्रहः ॥ २६ ॥
अथो देवस्य सुमहत्तत्कर्म विधिपूर्वकम् ।
दक्षः समाप्य विधिवत्सहर्त्विग्भिः प्रजापतिः ॥ २७ ॥
एवं दक्षमखः पूर्णोऽभवत्तत्र मुनीश्वरः ।
शंकरस्य प्रसादेन परब्रह्मस्वरूपिणः ॥ २८ ॥
अथ देवर्षयः सर्वे शंसन्तः शाङ्‌करं यशः ।
स्वधामानि ययुस्तुष्टाः परेऽपि सुखतस्तदा ॥ २९ ॥
अहं विष्णुश्च सुप्रीतावपि स्वंस्वं परं मुदा ।
गायन्तौ सुयशः शम्भोः सर्वमंगलदं सदा ॥ ३० ॥
दक्ष संमानितः प्रीत्या महादेवोपि सद्‌गतिः ।
कैलासं स ययौ शैलं सुप्रीतः सगणो निजम् ॥ ३१ ॥
आगत्य स्वगिरिं शम्भुः सस्मार स्वप्रियां सतीम् ।
गणेभ्यः कथयामास प्रधानेभ्यश्च तत्कथाम् ॥ ३२ ॥
कालं निनाय विज्ञानी बहु तच्चरितं वदन् ।
लौकिकीं गतिमाश्रित्य दर्शयन् कामितां प्रभुः ॥ ३३ ॥
नानीतिकारकः स्वामी परब्रह्म सतां गतिः ।
तस्य मोहः क्व वा शोकः क्व विकारः परो मुने ॥ ३४ ॥
अहं विष्णुश्च जानीवस्तद्‌भेदं न कदाचन ।
के परे मुनयो देवा मनुषाद्याश्च योगिनः ॥ ३५ ॥
महिमा शाङ्‌करोनन्तो दुर्विज्ञेयो मनीषिभिः ।
भक्तज्ञातश्च सद्‌भक्त्या तत्प्रसादाद्विना श्रमम् ॥ ३६ ॥
एकोऽपि न विकारो हि शिवस्य परमात्मनः ।
सन्दर्शयति लोकेभ्यः कृत्वा तां तादृशीं गतिम् ॥ ३७ ॥
यत्पठित्वा च संश्रुत्य सर्वलोकसुधीर्मुने ।
लभते सद्‌गतिं दिव्यामिहापि सुखमुत्तमम् ॥ ३८ ॥
इत्थं दाक्षायणी हित्वा निजदेहं सती पुनः ।
जज्ञे हिमवतः पत्न्यां मेनायामिति विश्रुतम् ॥ ३९ ॥
पुनः कृत्वा तपस्तत्र शिवं वव्रे पतिं च सा ।
गौरी भूत्वाऽर्द्धवामाङ्‌गी लीलाश्चक्रेऽद्‌भुताः शिवा ॥ ४० ॥
इत्थं सतीचरित्रं ते वर्णितं परमाद्‌भुतम् ।
भुक्तिमुक्तिप्रदं दिव्यं सर्वकामप्रदायकम् ॥ ४१ ॥
इदमाख्यानमनघं पवित्रं परपावनम् ।
स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रफलप्रदम् ॥ ४२ ॥
य इदं शृणुयाद्‌भक्त्या श्रावयेद्‌भक्तिमान्नरान् ।
सर्वकर्मा लभेत्तात परत्र परमां गतिम् ॥ ४३ ॥
यः पठेत्पाठयेद्वापि समाख्यानमिदं शुभम् ।
सोपि भुक्त्वाऽखिलान् भोगानन्ते मोक्षमवाप्नुयात् ॥ ४४ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
द्वितीये सतीखण्डे दक्षयज्ञानुसन्धानवर्णनं
नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ श्रीः ॥
समाप्तोयं रुद्रसंहितान्तर्गतसतीखण्डो द्वितीयः ॥ २ ॥
॥ श्रीसाम्बसदाशिवार्पणमस्तु ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP