॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

द्विचत्वारिंशोऽध्यायः ॥

दक्षदुःखनिराकरणम्


ब्रह्मोवाच
श्रीब्रह्मेशप्रजेशेन सदैव मुनिना च वै ।
अनुनीतः शम्भुरासीत्प्रसन्नः परमेश्वरः ॥ १ ॥
आश्वास्य देवान् विष्ण्वादीन्विहस्य करुणानिधिः ।
उवाच परमेशानः कुर्वन् परमनुग्रहम् ॥ २ ॥
श्रीमहादेव उवाच
शृणुतं सावधानेन मम वाक्यं सुरोत्तमौ ।
यथार्थं वच्मि वां तात वां क्रोधं सर्वदासहन् ॥ ३ ॥
नाघं तनौ तु बालानां वर्णमेवानुचिन्तये ।
मम मायाभिभूतानां दण्डस्तत्र धृतो मया ॥ ४ ॥
दक्षस्य यज्ञभङ्‌गोयं न कृतश्च मया क्वचित् ।
परं द्वेष्टि परेषां यदात्मनस्तद्‌भविष्यति ॥ ५ ॥
परेषां क्लेदनं कर्म न कार्यं तत्कदाचन ।
परं द्वेष्टि परेषां यदात्मनस्तद्‌भविष्यति ॥ ६ ॥
दक्षस्य यज्ञशीर्ष्णो हि भवत्वजमुखं शिरः ।
मित्रनेत्रेण सम्पश्येद्यज्ञभागं भगः सुरः ॥ ७ ॥
पूषाभिधः सुरस्तात दद्‌भिर्यज्ञसुपुष्टिकृत् ।
याजमानो भग्नदन्तः सत्यमेतन्मयोदितम् ॥ ८ ॥
बस्तश्मश्रुर्भवेदेव भृगुर्मम विरोधकृत् ।
देवाः प्रकृतिसर्वाङ्‌गा ये म उच्छेदनं ददुः ॥ ९ ॥
बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकः ।
भवन्त्वध्वर्यवश्चान्ये भवत्प्रीत्या मयोदितम् ॥ १० ॥
ब्रह्मोवाच
इत्युक्त्वा परमेशानो विरराम दयान्वितः ।
चराचरपतिर्देवः सम्राट् वेदानुसारकृत् ॥ ११ ॥
तदा सर्वे सुराद्यास्ते श्रुत्वा शंकरभाषितम् ।
साधुसाध्विति सम्प्रोचुः परितुष्टाः सविष्ण्वजाः ॥ १२ ॥
ततः शम्भुं समामन्त्र्य मया विष्णुः सुरर्षिभिः ।
भूयस्तद्देवयजनं ययौ च परया मुदा ॥ १३ ॥
एवं तेषां प्रार्थनया विष्णुप्रभृतिभिः सुरैः ।
ययौ कनखलं शम्भुर्यज्ञवाटं प्रजापतेः ॥ १४ ॥
रुद्रस्तदा ददर्शाथ वीरभद्रेण यत्कृतम् ।
प्रध्वंसं तं क्रतोस्तत्र देवर्षीणां विशेषतः ॥ १५ ॥
स्वाहा स्वधा तथा पूषा तुष्टिर्धृतिः सरस्वती ।
तथान्ये ऋषयःसर्वे पितरश्चाग्नयस्तथा ॥ १६ ॥
येऽन्ये च बहवस्तत्र यक्षगन्धर्वराक्षसाः ।
त्रोटिता लुञ्चिताश्चैव मृताः केचिद्‌रणाजिरे ॥ १७ ॥
यज्ञं तथाविधं दृष्ट्‍वा समाहूय गणाधिपम् ।
वीरभद्रं महावीर्यमुवाच प्रहसन् प्रभुः ॥ १८ ॥
वीरभद्र महाबाहो किं कृतं कर्म ते त्विदम् ।
महान् दण्डो धृतस्तात देवर्स्यादिषु सत्वरम् ॥ १९ ॥
दक्षमानय शीघ्रं त्वं येनेदं कृतमीदृशम् ।
यज्ञो विलक्षणस्तात यस्येदं फलमीदृशम् ॥ २० ॥
ब्रह्मोवाच
एवमुक्तः शंकरेण वीरभद्रस्त्वरान्वितः ।
कबन्धमानयित्वाऽग्रे तस्य शम्भोरथाक्षिपत् ॥ २१ ॥
विशिरस्कं च तं दृष्ट्‍वा शंकरो लोकशंकरः ।
वीरभद्रमुवाचाग्रे विहसन् मुनिसत्तम ॥ २२ ॥
शिरः कुत्रेति तेनोक्तं वीरभद्रोऽब्रवीत्प्रभुः ।
मया शिरो हुतं चाग्नौ तदानीमेव शंकर ॥ २३ ॥
इति श्रुत्वा वचस्तस्य वीरभद्रस्य शंकरः ।
देवान् तथाज्ञपत्प्रीत्या यदुक्तं तत्पुरा प्रभुः ॥ २४ ॥
विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः ।
मया विष्ण्वादयः सर्वे भृग्वादीनथ सत्वरम् ॥ २५ ॥
अथ प्रजापतेस्तस्य सवनीयपशोः शिरः ।
बस्तस्य सन्दधुः शम्भोः कायेनारं सुशासनात् ॥ २६ ॥
सन्धीयमाने शिरसि शम्भुसद्दृष्टिवीक्षितः ।
सद्यः सुप्त इवोत्तस्थौ लब्धप्राणः प्रजापतिः ॥ २७ ॥
उत्थितश्चाग्रतः शम्भुं ददर्श करुणानिधिम् ।
दक्षः प्रीतमतिः प्रीत्या संस्थितः सुप्रसन्नधीः ॥ २८ ॥
पुरा हर महाद्वेषकलिलात्माभवद्धि सः ।
शिवावलोकनात्सद्यः शरच्चन्द्र इवामलः ॥ २९ ॥
भवं स्तोतुमना सोथ नाशक्नोदनुरागतः ।
उत्कण्ठाविकलत्वाच्च सम्परेतां सुतां स्मरन् ॥ ३० ॥
अथ दक्षः प्रसन्नात्मा शिवं लज्जासमन्वितः ।
तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम् ॥ ३१ ॥
दक्ष उवाच
नमामि देव वरदं वरेण्यं
     महेश्वरं ज्ञाननिधिं सनातनम् ।
नमामि देवाधिपतीश्वरं हरिं
     सदासुखाढ्यं जगदेकबान्धवम् ॥ ३२ ॥
नमामि विश्वेश्वर विश्वरूपं
     पुरातनं ब्रह्मनिजात्मरूपम् ।
नमामि शर्वं भवभावभावं
     परात्परं शंकरमानतोऽस्मि ॥ ३३ ॥
देवदेव महादेव कृपां कुरु नमोस्तु ते ।
अपराधं क्षमस्वाद्य मम शम्भो कृपानिधे ॥ ३४ ॥
अनुग्रहः कृतस्ते हि दण्डव्याजेन शंकर ।
खलोऽहं मूढधीर्देव ज्ञातं तत्त्वं मया न ते ॥ ३५ ॥
अद्य ज्ञातं मया तत्त्वं सर्वोपरि भवान्मतः ।
विष्णुब्रह्मादिभिःसेव्यो वेदवेद्यो महेश्वरः ॥ ३६ ॥
साधूनां कल्पवृक्षस्त्वं दुष्टानां दण्डधृक् सदा ।
स्वतन्त्रः परमात्मा हि भक्ताभीष्टवरप्रदः ॥ ३७ ॥
विद्यातपोव्रतधरानसृजः प्रथमं द्विजा ।
आत्मतत्त्वं समावेत्तुं मुखतः परमेश्वरः ॥ ३८ ॥
सर्वापद्‌भ्यः पालयिता गोपतिस्तु पशूनिव ।
गृहीतदण्डो दुष्टांस्तान् मर्यादापरिपालकः ॥ ३९ ॥
मया दुरुक्तविशिखैः प्रविद्धः परमेश्वरः ।
अमरानतिदीनाशान् मदनुग्रहकारकः ॥ ४० ॥
स भवान् भगवान् शम्भो दीनबन्धो परात्परः ।
स्वकृतेन महार्हेण सन्तुष्टो भक्तवत्सल ॥ ४१ ॥
ब्रह्मोवाच
इति स्तुत्वा महेशानं शंकरं लोकशंकरम् ।
प्रजापतिर्विनीतात्मा विरराम महाप्रभुम् ॥ ४२ ॥
अथ विष्णुः प्रसन्नात्मा तुष्टाव वृषभध्वजम् ।
बाष्पगद्‌गदया वाण्या सुप्रणम्य कृताञ्जलिः ॥ ४३ ॥
विष्णुवाच
महादेव महेशान लोकानुग्रहकारक ।
परब्रह्म परात्मास्त्वं दीनबन्धो दयानिधे ॥ ४४ ॥
सर्वव्यापी स्वैरवर्ती वेदवेद्ययशाः प्रभोः ।
अनुग्रहः कृतस्तेन कृताश्चासुकृता वयम् ॥ ४५ ॥
दक्षोऽयं मम भक्तस्त्वां यन्निनिन्द खलः पुरा ।
तत् क्षन्तव्यं महेशाद्य निर्विकारो यतो भवान् ॥ ४६ ॥
कृतो मयापराधोऽपि तव शंकर मूढतः ।
त्वद्‌गणेन कृतं युद्धं वीरभद्रेण पक्षतः ॥ ४७ ॥
त्वं मे स्वामी परब्रह्म दासोऽहं ते सदाशिव ।
पोष्यश्चापि सदा ते हि सर्वेषां त्वं पिता यतः ॥ ४८ ॥
ब्रह्मोवाच
देवदेव महादेव करुणासागर प्रभो ।
स्वतन्त्रः परमात्मा त्वं परमेशोऽद्वयोऽव्ययः ॥ ४९ ॥
मम पुत्रोपरि कृतो देवानुग्रह ईश्वर ।
स्वापमानं न गण्य त्वं दक्षयज्ञं समुद्धर ॥ ५० ॥
प्रसन्नो भव देवेश सर्वशापान्निराकुरु ।
सबोधः प्रेरकस्त्वं मे त्वमेवं विनिवारकः ॥ ५१ ॥
इति स्तुत्वा महेशानं परमं च महामुने ।
कृताञ्जलिपुटो भूत्वा विनम्रीकृतमस्तकः ॥ ५२ ॥
अथ शक्रादयो देवा लोकपालाः सुचेतसः ।
तुष्टुवुः शंकरं देवं प्रसन्नमुखपङ्‌कजम् ॥ ५३ ॥
ततः प्रसन्नमनसः सर्वे देवास्तथा परे ।
सिद्धर्षयः प्रजेशाश्च तुष्टुवुः शंकरं मुदा ॥ ५४ ॥
तथोपदेवनागाश्च सदस्या ब्राह्मणास्तथा ।
प्रणम्य परया भक्त्या तुष्टुवुश्च पृथक् पृथक् ॥ ५५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे दक्षदुःखनिराकरणवर्णनं नाम द्विचत्वारिंशो ऽध्यायः ॥ ४२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP