॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

चत्वारिंशोऽध्यायः ॥

ब्रह्मादीनां कैलासयात्रा शिवदर्शनं च


नारद उचाच
विधे विधे महाप्राज्ञा शैवतत्त्वप्रदर्शक ।
श्राविता रमणीप्राया शिवलीला महाद्‌भुता ॥ १ ॥
वीरेण वीरभद्रेण दक्षयज्ञं विनाश्य वै ।
कैलासाद्रौ गते तात किमभूत्तद्वदाधुना ॥ २ ॥
ब्रह्मोवाच
अथ देवगणाःसर्वे मुनयश्च पराजिताः ।
रुद्रानीकैर्विभिन्नाङ्‌गा मम लोकं ययुस्तदा ॥ ३ ॥
स्वयम्भुवे नमस्कृत्य मह्यं संस्तूय भूरिशः ।
तत्स्वक्लेशं विशेषेण कार्त्स्येनैव न्यवेदयन् ॥ ४ ॥
तदाकर्ण्य ततोहं वै पुत्रशोकेन पीडितः ।
अचिन्तयमतिव्यग्रो दूयमानेन चेतसा ॥ ५ ॥
किं कार्यं कार्यमद्याशु मया देवसुखावहम् ।
येन जीवतु दक्षौऽसौ मखः पूर्णो भवेत्सुरः ॥ ६ ॥
एवं विचार्य बहुधा नालभं शमहं मुने ।
विष्णुं तदा स्मरन् भक्त्या ज्ञानमाप तदोचितम् ॥ ७ ॥
अथ देवैश्च मुनिभिर्विष्णोर्लोकमहं गतः ।
नत्वा स्तुत्वा च विविधैः स्तवैर्दुःखं न्यवेदयम् ॥ ८ ॥
यथाऽध्वरः प्रपूर्णः स्याद्देवयज्ञकरश्च सः ।
सुखिनःस्युः सुराः सर्वे मुनयश्च तथा कुरु ॥ ९ ॥
देव देव रमानाथ विष्णो देवसुखावह ।
वयं त्वच्छरणं प्राप्ताः सदेवमुनयो ध्रुवम् ॥ १० ॥
ब्रह्मोवाच
इत्याकर्ण्य वचो मे हि ब्रह्मणः स रमेश्वरः ।
प्रत्युवाच शिवं स्मृत्वा शिवात्मा दीनमानसः ॥ ११ ॥
विष्णुरुवाच
तेजीयसि न सा भूता कृतागसि बुभूषताम् ।
तत्र क्षेमाय बहुधा बुभूषा हि कृतागसाम् ॥ १२ ॥
कृतपापाः सुरा सर्वे शिवे हि परमेश्वरे ।
पराददुर्यज्ञभागं तस्य शम्भोर्विधे यतः ॥ १३ ॥
प्रसादयध्यं सर्वे हि यूयं शुद्धेन चेतसा ।
अथापरप्रसादं तं गृहीताङ्‌घ्रियुगं शिवम् ॥ १४ ॥
यस्मिन् प्रकुपिते देवे विनश्यत्यखिलं जगत् ।
सलोकपालयज्ञस्य शासनाज्जीवितं द्रुतम् ॥ १५ ॥
तमाशु प्रियया देवं विहीनं च दुरुक्तिभिः ।
क्षमापयध्वं हृद्विद्धं दक्षेण सुदुरात्मना ॥ १६ ॥
अयमेव महोपायस्तच्छान्त्यै केवलं विधे ।
शम्भोः सन्तुष्टये मन्ये सत्यमेवोदितं मया ॥ १७ ॥
नाहं न त्वं सुराश्चान्ये मुनयोपि तनूभृतः ।
यस्य तत्त्वं प्रमाणं च न विदुर्बलवीर्ययोः ॥ १८ ॥
आत्मतन्त्रस्य तस्यापि परस्य परमात्मनः ।
कमुपायं विधित्सेद्वै परं मूढं विरोधिनम् ॥ १९ ॥
चलिष्येहमपि ब्रह्मन् सर्वैः सार्द्ध शिवालयम् ।
क्षमापयामि गिरिशं कृतागाश्च शिवे धुवम् ॥ २० ॥
ब्रह्मोवाच
इत्थमादिश्य विष्णुर्मां ब्रह्माणं सामरादिकम् ।
सार्द्धं देवेर्मतिं चक्रे तद्‌गिरौ गमनाय सः ॥ २१ ॥
ययौ स्वधिष्ण्यनिलयं शिवस्याद्रिवरं शुभम् ।
कैलासं सामरमुनिप्रजेशादिमयो हरिः ॥ २२ ॥
अतिप्रियं प्रभोर्नित्यं सुजुष्टं किन्नरादिभिः ।
नरेतरैरप्सरोभिर्योगसिद्धैमहोन्नतम् ॥ २३ ॥
नानामणिमयैः शृङ्‌गैः शोभमानं समन्ततः ।
नानाधातुविचित्रं वै नानाद्रुमलताकुलम् ॥ २४ ॥
नानामृगगणाकीर्णं नानापक्षिसमन्वितम् ।
नानाजलप्रस्रवणैरमरैः सिद्धयोषिताम् ॥ २५ ॥
रमणैवाहरन्तीनां नानाकन्दरसानुभिः ।
द्रुमजातिभिरन्याभी राजितं राजतप्रभम् ॥ २६ ॥
व्याघ्रादिभिर्महासत्त्वैर्निर्घुष्टं क्रूरतोज्झितम् ।
सर्वशोभान्वितं दिव्यं महाविस्मयकारकम् ॥ २७ ॥
पर्यस्तं गङ्‌गया सत्या स्थानपुण्यतरोदया ।
सर्वपावनसङ्‌कर्त्र्या विष्णुपद्या सुनिर्मलम् ॥ २८ ॥
एवंविधं गिरिं दृष्ट्‍वा कैलासाख्यं शिवप्रियम् ।
ययुस्ते विस्मयं देवा विष्ण्वाद्या ःसमुनीश्वराः ॥ २९ ॥
तःसमीपेऽलकां रम्यां ददृशुर्नाम ते पुरीम् ।
कुबेरस्य महादिव्यां रुद्रमित्रस्य निर्जराः ॥ ३० ॥
वनं सौगन्धिकं चापि ददृशुस्तत्समीपतः ।
सर्वद्रुमान्वितं दिव्यं यत्र तन्नादमद्‌भुतम् ॥ ३१ ॥
तद्‌वाह्यतस्तस्य दिव्ये सरितावति पावने ।
नन्दा चालकनन्दा च दर्शनात्पापहारिके ॥ ३२ ॥
पपुः सुरस्त्रियो नित्यमवगूह्य स्वलोकतः ।
विगाह्य पुम्भिस्तास्तत्र क्रीडन्ति रतिकर्शिताः ॥ ३३ ॥
हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च यत् ।
गच्छन्तस्ते सुरा आराद्ददृशुः शाङ्‌करं वटम् ॥ ३४ ॥
पर्यक्‌कृताचलच्छायं पादोनविटपायतम् ।
शतयोजनकोत्सेधं निर्नीडं तापवर्जितम् ॥ ३५ ॥
महापुण्यवतां दृश्यं सुरम्यं चातिपावनम् ।
शम्भुयोगस्थलं दिव्यं योगिसेव्यं महोत्तमम् ॥ ३६ ॥
मुमुक्षुशरणे तस्मिन् महायोगमये वटे ।
आसीनं ददृशुः सर्वे शिवं विष्ण्वादयः सुराः ॥ ३७ ॥
विधिपुत्रैर्महासिद्धैः शिव भक्तिरतैः सदा ।
उपास्यमानं सुमुदा शान्तैः संशान्तविग्रहैः ॥ ३८ ॥
तथा सख्या कुबेरेण भर्त्रा गुह्यकरक्षसाम् ।
सेव्यमानं विशेषेण स्वगणैर्ज्ञातिभिः सदा ॥ ३९ ॥
तापसाभीष्टसद्‌रूपं बिभ्रतं परमेश्वरम् ।
वात्सल्याद्विश्वसुहृदं भस्मादिसुविराजितम् ॥ ४० ॥
मुने तुभ्यं प्रवोचन्तं पृच्छते ज्ञानमुत्तमम् ।
कुशासने सूपविष्टं सर्वेषां शृण्वतां सताम् ॥ ४१ ॥
कृत्वोरौ दक्षिणे सव्यं चरणं चैव जानुनि ।
बाहुप्रकोष्ठाक्षमालं स्थितं सत्तर्कमुद्रया ॥ ४२ ॥
एवंविधं शिवं दृष्ट्‍वा तदा विष्ण्वादयः सुराः ।
प्रणेमुस्त्वरितं सर्वे करौ बध्वा विनम्रकाः ॥ ४३ ॥
उपलभ्यागतं रुद्रो मया विष्णुं सतांगतिः ।
उत्थाय चक्रे शिरसाभिवन्दनमपि प्रभुः ॥ ४४ ॥
वन्दिताङ्‌घ्रिस्तदा सर्वैर्दिव्यैर्विष्ण्वादिभिः शिवः ।
ननामाथ यथा विष्णुं कश्यपं लोकसद्‌गतिः ॥ ४५ ॥
सुरसिद्धगणाधीशमहर्षिसुनमस्कृतम् ।
समुवाच सुरैर्विष्णुं कृतसन्नतिमादरात् ॥ ४६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे शिवदर्शनवर्णनं नाम चत्वारिंशोध्यायः ॥ ४० ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP