॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

एकोनचत्वारिंशोऽध्यायः ॥

विष्णुदधीचयुद्धवर्णनम्


ब्रह्मोवाच
क्षुवस्य हितकृत्येन दधीचस्याश्रमं ययौ ।
विप्ररूपमथास्थाय भगवान् भक्तवत्सलः ॥ १ ॥
दधीचं प्राह विप्रर्षिमभिवन्द्य जगद्‌गुरुः ।
क्षुवकार्यार्थमुद्युक्तः शैवेन्द्रं छलमाश्रितः ॥ २ ॥
विष्णुरुवाच
भो भो दधीच विप्रर्षे भवार्चनरताव्यय ।
वरमेकं वृणे त्वत्तस्तद्‌भवान् दातुमर्हति ॥ ३ ॥
ब्रह्मोवाच
याचितो देवदेवेन दधीचः शैवसत्तमः ॥
क्षुवकार्यार्थिना शीघ्रं जगाद वचनं हरिम् ॥ ४ ॥
दधीच उवाच
ज्ञातं तवेप्सितं विप्र क्षुवकार्यार्थमागतः ।
भगवान् विप्ररूपेण मायी त्वमसि वै हरिः ॥ ५ ॥
भूतं भविष्यं देवेश वर्तमानं जनार्दन ।
ज्ञानं प्रसादाद्‌रुद्रस्य सदा त्रैकालिकं मम ॥ ६ ॥
त्वां जानेऽहं हरिं विष्णुं द्विजत्वं त्यज सुव्रत ।
आराधितोऽसि भूपेन क्षुवेण खलबुद्धिना ॥ ७ ॥
जाने तवैव भगवन् भक्तवत्सलतां हरे ।
छलं त्यज स्वरूपं हि स्वीकुरु स्मर शंकरम् ॥ ८ ॥
अस्ति चेत्कस्यचिद्‌भीतिर्भवार्चनरतस्य मे ।
वक्तुमर्हसि यत्नेन सत्यधारणपूर्वकम् ॥ ९ ॥
वदामि न मृषा क्वापि शिवस्मरणसक्तधीः ।
न बिभेमि जगत्यस्मिन्देवदैत्यादिकादपि ॥ १० ॥
विष्णुरुवाच
भयं दधीच सर्वत्र नष्टं च तव सुव्रत ।
भवार्चनरतो यस्माद्‌भवान्सर्वज्ञ एव च ॥ ११ ॥
बिभेमीति सकृद्वक्तुमर्हसि त्वं नमस्तव ।
नियोगान्मम राजेन्द्रक्षुवान् प्रतिसहादहम् ॥ १२ ॥
ब्रह्मोवाच
एवं श्रुत्वापि तद्वाक्यं विष्णोः स तु महामुनिः ।
विहस्य निर्भयः प्राह दधीचः शैवसत्तमः ॥ १३ ॥
दधीच उवाच
न बिभेमि सदा क्वापि कुतश्चिदपि किञ्चन ।
प्रभावाद्देवदेवस्य शम्भोःसाक्षात्पिनाकिनः ॥ १४ ॥
ब्रह्मोवाच
ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः ।
चक्रमुद्यम्य सन्तस्थौ दिधक्षुमुनिसत्तमम् ॥ १५ ॥
अभवत्कुण्ठितं तत्र विप्रे चक्रं सुदारुणम् ।
प्रभावाच्च तदीशस्य नृपतेः संनिधावपि ॥ १६ ॥
दृष्ट्‍वा तं कुण्ठितास्यं तच्चक्रं विष्णुं जगाद ह ।
दधीचःसस्मितं साक्षात्सदसद्व्यक्ति कारणम् ॥ १७ ॥
दधीच उवाच
भगवन् भवता लब्धं पुरातीव सुदारुणम् ।
सुदर्शनमिति ख्यातं चक्रं विष्णोः प्रयत्नतः ॥ १८ ॥
भवस्य तच्छुभं चक्रं न जिघांसति मामिह ।
भगवानथ क्रुद्धोऽस्मै सर्वास्त्राणि क्रमाद्धरिः ।
ब्रह्मास्त्राद्यैः शरैश्चास्त्रैः प्रयत्नं कर्तुमर्हसि ॥ १९ ॥
ब्रह्मोवाच
स तस्य वचनं श्रुत्वा दृष्ट्‍वा नि्र्वीर्यमानुषम् ।
ससर्जाथ क्रुधा तस्मै सर्वास्त्राणि क्रमाद्धरिः ॥ २० ॥
चक्रुर्देवास्ततस्तस्य विष्णोःसाहाय्यमादरात् ।
द्विजेनैकेन संयोद्धुं प्रसृतस्य विबुद्धयः ॥ २१ ॥
चिक्षिपुः स्वानि स्वान्याशु शस्त्राण्यस्त्राणि सर्वतः ।
दधीचोपरि वेगेन शक्राद्या हरिपाक्षिकाः ॥ २२ ॥
कुशमुष्टिमथादाय दधीचः संस्मरन् शिवम् ।
ससर्ज सर्वदेवेभ्यो वज्रास्थिः सर्वतो वशी ॥ २३ ॥
शंकरस्य प्रभावात्तु कुशमुष्टिर्मुनेर्हि सा ।
दिव्यं त्रिशूलमभवत् कालाग्निसदृशं मुने ॥ २४ ॥
दग्धुं देवान् मतिं चक्रे सायुधं सशिखं च तत् ।
प्रज्वलत्सर्वतः शैवं युगान्ताग्न्यधिकप्रभम् ॥ २५ ॥
नारायणेन्द्रमुख्यैस्तु देवैः क्षिप्तानि यानि च ।
आयुधानि समस्तानि प्रणेमुस्त्रिशिखं च तत् ॥ २६ ॥
देवाश्च दुद्रुवुः सर्वे ध्वस्तवीर्या दिवौकसः ।
तस्थौ तत्र हरिर्भीतः केवलं मायिनां वरः ॥ २७ ॥
ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः ।
आत्मनःसदृशान् दिव्यान् लक्षलक्षायुतान् गणान् ॥ २८ ॥
ते चापि युयुधुस्तत्र वीरा विष्णुगणास्ततः ।
मुनिनैकेन देवर्षे दधीचेन शिवात्मना ॥ २९ ॥
ततो विष्णुगणांस्तान्वै नियुध्य बहुशो रणे ।
ददाह सहसा सर्वान् दधी चः शैवसत्तमः ॥ ३० ॥
ततस्तद्विस्मयाथाय दधीचेस्य मुनेर्हरिः ।
विश्वमूर्तिरभूच्छीघ्रं महामायाविशारदः ॥ ३१ ॥
तस्य देहे हरेः साक्षादपश्यद्‍द्विजसत्तमः ।
दधीचो देवतादीनां जीवानां च सहस्रकम् ॥ ३२ ॥
भूतानां कोटयश्चैव गणानां कोटयस्तथा ।
अण्डानां कोटयश्चैव विश्वमूर्तेस्तनौ तदा ॥ ३३ ॥
दृष्ट्‍वैतदखिलं तत्र च्यावनिः सततं तदा ।
विष्णुमाह जगन्नाथं जगत्स्तवमजं विभुम् ॥ ३४ ॥
दधीच उवाच
मायां त्यज महाबाहो प्रतिभासो विचारतः ।
विज्ञातानि सहस्राणि दुर्विज्ञेयानि माधव ॥ ३५ ॥
मयि पश्य जगत्सर्वं त्वया युक्तमतन्द्रितः ।
ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते ॥ ३६ ॥
ब्रह्मोवाच
इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः ।
ब्रह्माण्डं च्यावनिः शम्भुतेजसा पूर्णदेहकः ॥ ३७ ॥
ददाह विष्णुं देवेशं दधीचः शैवसत्तमः ।
संस्मरन् शंकरं चित्ते विहसन् विभयःसुधीः ॥ ३८ ॥
दधीच उवाच
मायया त्वनया किं वा मन्त्रशक्त्याऽथवा हरे ।
सत्कामायामिमां कृत्वा योद्धुमर्हसि यत्नतः ॥ ३९ ॥
ब्रह्मोवाच
एतच्छुत्वा मुनेस्तस्य वचनं निर्भयस्तदा ।
शम्भुतेजोमयं विष्णुश्चुकोपातीव तं मुनिम् ॥ ४० ॥
देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् ।
योद्धुकामाश्च मुनिना दधीचेन प्रतापिना ॥ ४१ ॥
एतस्मिन्नन्तरे तत्रागमत्सत्सङ्‌गमः क्षुवः ।
अवारयन्तं निश्चेष्टं पद्मयोनिं हरिं सुरान् ॥ ४२ ॥
निशम्य वचनं मे हि ब्राह्मणो न विनिर्जितः ।
जगाम निकटं तस्य प्रणनाम मुनिं हरिः ॥ ४३ ॥
क्षुवो दीनतरो भूत्वा गत्वा तत्र मुनीश्वरम् ।
दधीचमभिवाद्यैव प्रार्थयामास विक्लवः ॥ ४४ ॥
क्षुव उवाच
प्रसीद मुनिशार्दूल शिवभक्तशिरोमणे ।
प्रसीद परमेशान दुर्लक्ष्ये दुर्जनैः सदा ॥ ४५ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य राज्ञः सुरगणस्य हि ।
अनुजग्राह तं विप्रो दधीचस्तपसां निधिः ॥ ४६ ॥
अथ दृष्ट्‍वा रमेशादीन् क्रोधविह्वलितो मुनिः ।
हृदि स्मृत्वा शिवं विष्णुं शशाप च सुरानपि ॥ ४७ ॥
दधीच उवाच
रुद्रकोपाग्निना देवाः सदेवेन्द्रा मुनीश्वराः ।
ध्वस्ता भवन्तु देवेन विष्णुना च समं गणैः ॥ ४८ ॥
ब्रह्मोवाच
एवं शप्त्वा सुरान् प्रेक्ष्य क्षुवमाह ततो मुनिः ।
देवैश्च पूज्यो राजेन्द्र नृपैश्चैव द्विजोत्तमः ॥ ४९ ॥
ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः ।
इत्युक्त्वा स स्फुट विप्रः प्रविवेश निजाश्रमम् ॥ ५० ॥
दधीचमभिवन्द्यैव क्षुवो निजगृहं गतः ।
विष्णुर्जगाम स्वं लोकं सुरैः सह यथागतम् ॥ ५१ ॥
तदेवं तीर्थमभवत् स्थानेश्वर इति स्मृतम् ।
स्थानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात् ॥ ५२ ॥
कथितस्तव सङ्‌क्षेपाद्वादः क्षुवदधीचयोः ।
नृपाप्तशापयोस्तात ब्रह्मविष्ण्वोः शिवं विना ॥ ५३ ॥
य इदं कीर्तयेन्नित्यं वादं क्षुवदधीचयोः ।
जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः ॥ ५४ ॥
रणे यः कीर्तयित्वेदं प्रविशेत्तस्य सर्वदा ।
मृत्युभीतिर्भवेन्नैव विजयी च भविष्यति ॥ ५५ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे विष्णुदधीचयुद्धवर्णनो नाम एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP