|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
अष्टत्रिंशोऽध्यायः ॥
क्षुवदधीचविवादः
सूत उवाच
इत्याकर्ण्य वचस्तस्य विधेरमितधीमतः । पप्रच्छ नारदः प्रीत्या विस्मितस्तं द्विजोत्तमः ॥ १ ॥ नारद उवाच शिवं विहाय दक्षस्य सुरैर्यज्ञं हरिर्गतः । हेतुना केन तद्ब्रूहि यत्रावज्ञाऽ भवत्ततः ॥ २ ॥ जानाति किं स शम्भुं नो हरिः प्रलयविक्रमम् । रणं कथं च कृतवांस्तद्गणैरबुधो यथा ॥ ३ ॥ एष मे संशयो भूयांस्तं छिन्धि करुणानिधे । चरितं ब्रूहि शम्भोस्तु चित्तोत्साहकरं प्रभो ॥ ४ ॥ ब्रह्मोवाच द्विजवर्य शृणु प्रीत्या चरितं शशिमौलिनः । यत्पृच्छते कुर्वतश्च सर्वसंशयहारकम् ॥ ५ ॥ दधीचस्य मुनेः शापाद्भ्रष्टज्ञानो हरिः पुरा । सामरो दक्षयज्ञं वै गतः क्षुवसहायकृत् ॥ ६ ॥ नारद उवाच किमर्थं शप्तवान्विष्णुं दधीचो मुनिसत्तमः । कोपाकारः कृतस्तस्य हरिणा तत्सहायिना ॥ ७ ॥ ब्रह्मोवाच समुत्पन्नो महातेजा राजा क्षुव इति स्मृतः । अभून्मित्रं दधीचस्य मुनीन्द्रस्य महाप्रभोः ॥ ८ ॥ चिरात्तपः प्रसङ्गाद्वै वादः क्षुवदधीचयोः । महानर्थकरः ख्यातस्त्रिलोकेष्वभवत्पुरा ॥ ९ ॥ तत्र त्रिवर्णतः श्रेष्ठो विप्र एव न संशयः । इति प्राह दधीचो हि शिवभक्तस्तु वेदवित् ॥ १० ॥ तच्छ्रुत्वा वचनं तस्य दधीचस्य महामुने । क्षुवः प्राहेति नृपतिः श्रीमदेन विमोहितः ॥ ११ ॥ क्षुव उवाच अष्टानां लोकपालानां वपुर्धारयते नृपः । तस्मान्नृपो वरिष्ठो हि वर्णाश्रमपतिः प्रभुः ॥ १२ ॥ सर्वदेवमयो राजा श्रुति प्राहेति तत्परा । महती देवता या सा सोऽहमेव ततो मुने ॥ १३ ॥ तस्माद्विप्राद्वरो राजा च्यवनेय विचार्यताम् । नावमन्तव्य एवातः पूज्योऽहं सर्वथा त्वया ॥ १४ ॥ ब्रह्मोवाच श्रुत्वा तथा मतं तस्य क्षुवस्य मुनिसत्तमः । श्रुतिस्मृतिविरुद्धं तं चुकोपातीव भार्गवः ॥ १५ ॥ अथ क्रुद्धो महातेजा गौरवाच्चात्मनो मुने । अताडयत्क्षुवं मूर्ध्नि दधीचो वाममुष्टितः ॥ १६ ॥ वज्रेण तं च चिच्छेद दधीचं ताडितः क्षुवः । जगर्जातीव सङ्क्रुद्धो ब्रह्माण्डाधिपतिः कुधीः ॥ १७ ॥ पपात भूमौ निहतो तेन वज्रेण भार्गवः । शुक्रं सस्मार क्षुवकृद्भार्गवस्य कुलन्धरः ॥ १८ ॥ शुक्रोऽथ सन्धयामास ताडितं च क्षुवेन तु । योगी दधीचस्य तदा देहमागत्य स द्रुतम् ॥ १९ ॥ सन्धाय पूर्ववद्देहं दधीचस्याह भार्गवः । शिवभक्ताग्रणीर्भृत्यञ्जयविद्याप्रवर्तकः ॥ २० ॥ शुक्र उवाच दधीच तात सम्पूज्य शिवं सर्वेश्वरं प्रभुम् । महामृत्युञ्जयं मन्त्रं श्रौतमग्र्यं वदामि ते ॥ २१ ॥ त्र्यम्बकं यजामहे त्रैलोक्यं पितरं प्रभुम् । त्रिमण्डलस्य पितरं त्रिगुणस्य महेश्वरम् ॥ २२ ॥ त्रितत्त्वस्य त्रिवह्नेश्च त्रिधाभूतस्य सर्वतः । त्रिदिवस्य त्रिबाहोश्च त्रिधाभूतस्य सर्वतः ॥ २३ ॥ त्रिदेवस्य महादेवः सुगन्धिं पुष्टिवर्द्धनम् । सर्वभूतेषु सर्वत्र त्रिगुणेषु कृतौ यथा ॥ २४ ॥ इन्द्रियेषु तथान्येषु देवेषु च गणेषु च । पुष्पे सुगन्धिवत्सूरः सुगन्धिममरेश्वरः ॥ २५ ॥ पुष्टिश्च प्रकृतेर्यस्मात्पुरुषाद्वै द्विजोत्तम । महदादिविशेषान्तविकल्पश्चापि सुव्रत ॥ २६ ॥ विष्णोः पितामहस्यापि मुनीनां च महामुने । इन्द्रियाणां च देवानां तस्माद्वै पुष्टिवर्द्धनः ॥ २७ ॥ तं देवममृतं रुद्रं कर्मणा तपसापि वा । स्वाध्यायेन च योगेन ध्यानेन च प्रजापते ॥ २८ ॥ सत्येनान्येन सूक्ष्माग्रान्मृत्युपाशाद्भवः स्वयम् । बन्धमोक्षकरो यस्मादुर्वारुकमिव प्रभुः ॥ २९ ॥ मृतसञ्जीवनीमन्त्रो मम सर्वोत्तमः स्मृतः । एवं जपपरः प्रीत्या नियमेन शिवं स्मरन् ॥ ३० ॥ जप्त्वा हुत्वाभिमन्त्र्यैव जलं पिब दिवानिशम् । शिवस्य सन्निधौ ध्यात्वा नास्ति मृत्युभयं क्वचित् ॥ ३१ ॥ कृत्वा न्यासादिकं सर्वं सम्पूज्य विधिवच्छिवम् । संविधायेदं निर्व्यग्रः शंकरं भक्तवत्सलम् ॥ ३२ ॥ ध्यानमस्य प्रवक्ष्यामि यथा ध्यात्वा जपन्मनुम् । सिद्धमन्त्रो भवेद्धीमान् यावच्छम्भुप्रभावतः ॥ ३३ ॥ हस्ताम्भोजयुगस्थकुम्भयुगला- दुद्धृत्यतोयं शिरः । सिञ्चन्तं करयोर्युगेन दधतं स्वाङ्केभकुम्भौ करौ ।
अक्षस्रङ्मृगहस्तमम्बुजगतं मूर्द्धस्थचन्द्रस्रवत् पीयूषार्द्रतनुं भजे सगिरिजं त्र्यक्षं च मृत्युञ्जयम् ॥ ३४ ॥ ब्रह्मोवाच उपदिश्येति शुक्रस्तं दधीचिं मुनिसत्तमम् । स्वस्थानमगमत्तात संस्मरन् शंकरं प्रभुम् ॥ ३५ ॥ तस्य तद्वचनं श्रुत्वा दधीचो हि महामुनिः । वनं जगाम तपसे महाप्रीत्या शिवं स्मरन् ॥ ३६ ॥ तत्र गत्वा विधानेन महामृत्युञ्जयाभिधम् । तं मनुं प्रजपन् प्रीत्या तपस्तेपे शिवं स्मरन् ॥ ३७ ॥ तन्मनुं सुचिरं जप्त्वा तपसाराध्य शंकरम् । शिवं सन्तोषयामास महामृत्युञ्जयं हि सः ॥ ३८ ॥ अथ शम्भुः प्रसन्नात्मा तज्जपाद्भक्तवत्सलः । आविर्बभूव पुरतस्तस्य प्रीत्या महामुने ॥ ३९ ॥ तं दृष्ट्वा स्वप्रभुं शम्भुं स मुमोद मुनीश्वरः । प्रणम्य विधिवद्भक्त्या तुष्टाव सुकृताञ्जलिः ॥ ४० ॥ अथ प्रीत्या शिवस्तात प्रसन्नश्च्यावनिं मुने । वरं ब्रूहीति स प्राह सुप्रसन्नेन चेतसा ॥ ४१ ॥ तच्छ्रुत्वा शम्भुवचनं दधीचो भक्तसत्तमः । साञ्जलिर्नतकः प्राह शंकरं भक्तवत्सलम् ॥ ४२ ॥ दधीच उवाच देवदेव महादेव मह्यं देहि वरत्रयम् । वज्रास्थित्वमवध्यत्वमदीनत्वं हि सर्वतः ॥ ४३ ॥ ब्रह्मोवाच तदुक्तवचनं श्रुत्वा प्रसन्नः परमेश्वरः । वरत्रयं ददौ तस्मै दधीचाय तथास्त्विति ॥ ४४ ॥ वरत्रयं शिवात्प्राप्य सानन्दश्च महामुनिः । क्षुवस्थानं जगामाशु वेदमार्गे प्रतिष्ठितः ॥ ४५ ॥ ब्रह्मोवाच प्राप्यावध्यत्वमुग्रात्स वज्रास्थित्वमदीनताम् । अताडयच्च राजेन्द्रं पादमूलेन मूर्द्धनि ॥ ४६ ॥ क्षुवो दधीचं वज्रेण जघानोरस्यथो नृपः । क्रोधं कृत्वा विशेषेण विष्णुगौरवगर्वितः ॥ ४७ ॥ नाभून्नाशाय तद्वज्रं दधीचस्य महात्मनः । प्रभावात्परमेशस्य धातृपुत्रो विसिस्मिये ॥ ४८ ॥ दृष्ट्वाप्यवध्यत्वमदीनतां च वज्रस्य चात्यन्तपरप्रभावम् । क्षुवो दधीचस्य मुनीश्वरस्य विसिस्मिये चेतसि धातृपुत्रः ॥ ४९ ॥ आराधयामास हरिं मुकुन्द- मिन्द्रानुजं काननमाशु गत्वा । प्रपन्नपालश्च पराजितो हि दधीचमृत्युञ्जयसेवकेन ॥ ५० ॥ पूजया तस्य सन्तुष्टो भगवान् मधुसूदनः । प्रददौ दर्शनं तस्मै दिव्यं वै गरुडध्वजः ॥ ५१ ॥ दिव्येन दर्शनेनैव दृष्ट्वा देवं जनार्दनम् । तुष्टाव वाग्भिरिष्टाभिः प्रणम्य गरुडध्वजम् ॥ ५२ ॥ सम्पूज्य चैवं त्रिदशेश्वराद्यैः स्तुत्वा स्तुतं देवमजेयमीशम् । विज्ञापयामास निरीक्ष्य भक्त्या जनार्दनाय प्रणिपत्य मूर्ध्ना ॥ ५३ ॥ राजोवाच भगवन् ब्राह्मणः कश्चिद्दधीच इति विश्रुतः । धर्मवेत्ता विनीतात्मा सखा मम पुराऽभवत् ॥ ५४ ॥ अवध्यः सर्वदा सर्वैः शंकरस्य प्रभावतः । तमाराध्य महादेवं मृत्युञ्जयमनामयम् ॥ ५५ ॥ सावज्ञं वामपादेन मम मूर्ध्नि सदस्यपि । ताडयामास वेगेन स दधीचो महातपाः ॥ ५६ ॥ उवाच तं च गर्वेण न बिभेमीति सर्वतः । मृत्युञ्जयाप्तसुवरो गर्वितो ह्यतुलं हरिः ॥ ५७ ॥ ब्रह्मोवाच अथ ज्ञात्वा दधीचस्य ह्यवध्यत्वं महात्मनः । सस्मारास्य महेशस्य प्रभावमतुलं हरिः ॥ ५८ ॥ एवं स्मृत्वा हरिः प्राह क्षुवं विधिसुतं द्रुतम् । विप्राणां नास्ति राजेन्द्र भयमण्वपि कुत्रचित् ॥ ५९ ॥ विशेषाद्रुद्रभक्तानां भयं नास्ति च भूपते । दुःखं करोति विप्रस्य शापार्थं ससुरस्य मे ॥ ६० ॥ भविता तस्य शापेन दक्षयज्ञे सुरेश्वरात् । विनाशो मम राजेन्द्र पुनरुत्थानमेव च ॥ ६१ ॥ तस्मात्समेत्य राजेन्द्र सर्वयज्ञो न भूयते । करोमि यत्नं राजेन्द्र दधीचविजयाय ते ॥ ६२ ॥ श्रुत्वा वाक्यं क्षुवः प्राह तथास्त्विति हरेर्नृपः । तस्थौ तत्रैव तत्प्रीत्या तत्कामोत्सुकमानसः ॥ ६३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीय सतीखण्डे क्षुवदधीचवादवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥ श्रीगौरीशंकरार्पणमस्तु |