|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
सप्तत्रिंशोऽध्यायः ॥
दक्षयज्ञविध्वंसः
ब्रह्मोवाच
वीरभद्रोऽथ युद्धे वै विष्णुना स महाबलः । संस्मृत्य शंकरं चित्ते सर्वापद्विनिवारणम् ॥ १ ॥ आरुह्य स्यन्दनं दिव्यं सर्ववैरिविमर्दनः । गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह ॥ २ ॥ विष्णुश्चापि महाघोषं पाञ्चजन्याभिधं निजम् । दध्मौ बली महाशङ्खं स्वकीयान् हर्षयन्निव ॥ ३ ॥ तच्छ्रुत्वा शङ्खनिर्ह्रादं देवा ये च पलायिताः । रणं हित्वा गतः पूर्वं ते द्रुतं पुनराययुः ॥ ४ ॥ वीरभद्र गणैस्तेषां लोकपालाः सवासवाः । युद्धाञ्चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः ॥ ५ ॥ गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् । अभवत्तत्र तुमुलं गर्जतां सिंहनादतः ॥ ६ ॥ नन्दिना युयुधे शक्रोऽनलो वै चाश्मनातथा । कुबेरोपि हि कूष्माण्डपतिना युयुधे बली ॥ ७ ॥ तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा ॥ ८ ॥ नन्दिना च हतः शक्रस्त्रिशूलेन स्तनान्तरे ॥ ९ ॥ बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् । नानाऽऽघातानि कुर्वन्तौ नन्दिशक्रौ जिगीषया ॥ १० ॥ शक्त्या जघान चाश्मानं शुचिः परमकोपनः । सोऽपि शूलेन तं वेगाच्छितधारेण पावकम् ॥ ११ ॥ यमेन सह सङ्ग्रामं महालोको गणाग्रणीः । चकार तुमुलं वीरो महादेवं स्मरन्मुदा ॥ १२ ॥ नैर्ऋतेन समागम्य चण्डश्च बलवत्तरः । युयुधे परमास्त्रैश्च नैर्ऋतिं निविडम्बयन् ॥ १३ ॥ वरुणेन समं वीरो मुण्डश्चैव महाबलः । युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव ॥ १४ ॥ वायुना च हतो भृङ्गी स्वास्त्रेण परमोजसा । भृङ्गिणा च हतो वायुस्त्रिशूलेन प्रतापिना ॥ १५ ॥ कुबेरेणैव सङ्गम्य कूष्माण्डपतिरादरात् । युयुधे बलवान्वीरो ध्यात्वा हृदि महेश्वरम् ॥ १६ ॥ योगिनीचक्रसंयुक्तो भैरवीनायको महान् । विदार्य देवानखिलान् पपौ शोणितमद्भुतम् ॥ १७ ॥ क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुङ्गवान् । काली चापि विदार्यैव तान्पपौ रुधिरं बहु ॥ १८ ॥ अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा । चक्रं चिक्षेप वेगेन दहन्निव दिशो दश ॥ १९ ॥ क्षेत्रपालःसमायान्तं चक्रमालोक्य वेगतः । तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली ॥ २० ॥ चक्रं ग्रसितमालोक्य विष्णुः परपुरञ्जयः । मुखं तस्य परामृज्य तमुद्गालितवानरिम् ॥ २१ ॥ स्वचक्रमादाय महानुभाव श्चुकोप चातीव भवैकभर्त्ता । महाबली तैर्युयुधे प्रवीरैः सङ्क्रुद्धनानायुधधारकोऽस्त्रैः ॥ २२ ॥ चक्रे महारणं विष्णुस्तैःसार्द्धं युयुधे मुदा । नानायुधानि सङ्क्षिप्य तुमुलं भीमविक्रमम् ॥ २३ ॥ अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः । नानास्त्राणि विमुञ्चन्तः सङ्कुद्धाः परमौजसा ॥ २४ ॥ इत्थं तेषां रणं दृष्ट्वा हरिणाऽतुलतेजसा । विनिवृत्य समागम्य तान्स्वयं युयुधे बली ॥ २५ ॥ अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः । युयुधे भगवांस्तेन वीरभद्रेण माधवः ॥ २६ ॥ तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् । महावीराब्धिपत्योस्तु नानास्त्रधरयोर्मुने ॥ २७ ॥ विष्णोर्योगबलात्तस्य देवदेव सुदारुणाः । शङ्खचक्रगदाहस्ता असङ्ख्याताश्च जज्ञिरे ॥ २८ ॥ ते चापि युयुधुस्तेन वीरभद्रेण भाषता । विष्णुवद्बलवन्तो हि नानायुधधरा गणाः ॥ २९ ॥ तान्सर्वानपि वीरोऽसौ नारायणसमप्रभान् । भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम् ॥ ३० ॥ ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे । जघान वीरभद्रो हि त्रिशूलेन महाबली ॥ ३१ ॥ तेन घातेन सहसा विहतः पुरुषोत्तमः । पपात च तदा भूमौ विसञ्ज्ञोभून्मुने हरिः ॥ ३२ ॥ ततो जज्ञेऽद्भुतं तेजः प्रलयानलसन्निभम् । त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम् ॥ ३३ ॥ क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः । प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः ॥ ३४ ॥ तस्य चक्रं महारौद्रं कालादित्यसमप्रभम् । व्यष्टम्भयददीनात्मा वीरभद्रः शिवः प्रभुः ॥ ३५ ॥
मुने शम्भोः प्रभावात्तु मायेशस्य महाप्रभोः । न चचाल हरेश्चक्रं करस्थं स्तम्भितं ध्रुवम् ॥ ३६ ॥ अथ विष्णुर्गणेशेन वीरभद्रेण भाषता । अतिष्ठत्स्तम्भितस्तेन शृङ्गवानिव निश्चलः ॥ ३७ ॥ ततो विष्णुः स्तम्भितो हि वीरभद्रेण नारद । यज्वोपमन्त्रणमनुं नीःस्तम्भनकरं जपन् ॥ ३८ ॥ ततःस्तम्भननिर्मुक्तः शार्ङ्गधन्वा रमेश्वरः । शार्ङ्गं जग्राह स क्रुद्धः स्वधनुः सशरं मुने ॥ ३९ ॥ त्रिभिश्च धर्षितं बाणस्तेन शार्ङ्गधनुर्हरेः । वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने ॥ ४० ॥ अथ विष्णुर्महावाण्या बोधितस्तं महागणम् । असह्यवर्चसं ज्ञात्वा ह्यन्तर्धातुं मनो दधे ॥ ४१ ॥ ज्ञात्वा च तत्सर्वमिदं भविष्यं सतीकृतं दुष्प्रसहं परेषाम् । गताः स्वलोकं स्वगणान्वितास्तु स्मृत्वा शिवं सर्वपतिं स्वतन्त्रम् ॥ ४२ ॥ सत्यलोकगतश्चाहं पुत्र शोकेन पीडितः । अचिन्तयं सुदुःखार्तो मया किं कार्यमद्य वै ॥ ४३ ॥ विष्णौ मयि गते चैव देवाश्च मुनिभिः सह । विनिर्जिता गणैः सर्वे ये ते यज्ञोपजीविनः ॥ ४४ ॥ तमुपद्रवमालक्ष्य विध्वस्तं च महामखम् । मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे ॥ ४५ ॥ तं तदा मृगरूपेण धावन्तं गगनं प्रति । वीरभद्रःसमादाय विशिरस्कमथाकरोत् ॥ ४६ ॥ ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः । अरिष्टनेमिनं वीरो बहुपुत्रं मुनीश्वरम् ॥ ४७ ॥ मुनिमाङ्गिरसं चैव कृशाश्वं च महागणः । जघान मूर्ध्नि पादेन दत्तं च मुनिपुङ्गवम् ॥ ४८ ॥ सरस्वत्याश्च नासाग्रं देवमास्तु तथैव च । चिच्छेद करजाग्रेण वीर भद्रः प्रतापवान् ॥ ४९ ॥ ततोन्यानपि देवादीन् विदार्य पृथिवीतले । पातयामास सोयं वै क्रोधाक्रान्तातिलोचनः ॥ ५० ॥ वीरभद्रो विदार्य्यापि देवान्मुख्यान्मुनीनपि । नाभूच्छान्तो द्रुतक्रोधः फणिराडिव मण्डितः ॥ ५१ ॥ वीरभद्रोद्धृतारातिः केसरीव वनद्विपान् । दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम् ॥ ५२ ॥ व्यपोथयद्भृगुं यावन्मणिभद्रः प्रतापवान् । पदाक्रम्योरसि तदाऽकार्षीत्तच्छ्मश्रुलुञ्चनम् ॥ ५३ ॥ चण्डश्चोत्पाटयामास पूष्णो दन्तान् प्रवेगतः । शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः ॥ ५४ ॥ नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि । उज्जहार स दक्षमक्ष्णा यः शपन्तमसूसुचत् ॥ ५५ ॥ विडम्बिता स्वधा तत्र सा स्वाहा दक्षिणा तथा । मन्त्रास्तन्त्रास्तथा चान्ये तत्रस्था गणनायकैः ॥ ५६ ॥ ववृषुस्ते पुरीषाणि वितानाऽग्नौ रुषा गणाः । अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम् ॥ ५७ ॥ अन्तर्वेद्यन्तरगतं निलीनं तद्भयाद्बलात् । आनिनाय समाज्ञाय वीरभद्रेः स्वभूःसुतम् ॥ ५८ ॥ कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः । अभेद्यमभवत्तस्य तच्च योगप्रभावतः ॥ ५९ ॥ अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः । करेण त्रोटयामास पद्भ्यामाक्रम्य चोरसि ॥ ६० ॥ तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः । अग्निकुण्डे प्रचिक्षेप वीरभद्रो गणाग्रणीः ॥ ६१ ॥ रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे । क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः ॥ ६२ ॥ अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना । ज्वालयामास सक्रोधो दीप्ताग्निः शलभानिव ॥ ६३ ॥ वीरभद्रस्ततो दग्धान्दृष्ट्वा दक्षपुरोगमान् । अट्टाट्टहासमकरोत्पूरयंश्च जगत्त्रयम् ॥ ६४ ॥ वीरश्रिया वृतस्तत्र ततो नन्दनसम्भवा । पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते ॥ ६५ ॥ ववुर्गन्धवहाः शीताः सुगन्धाः सुखदाः शनैः । देवदुन्दुभयो नेदुः सममेव ततः परम् ॥ ६६ ॥ कैलासं स ययौ वीरः कृतकार्यस्ततः परम् । विनाशितदृढध्वान्तो भानुमानिव सत्वरम् ॥ ६७ ॥ कृतकार्यं वीरभद्रं दृष्ट्वा सन्तुष्टमानसः । शम्भुर्वीरगणाध्यक्षं चकार परमेश्वरः ॥ ६८ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखण्डे यज्ञविध्वंसवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ श्रीगौरीशंकरार्पणमस्तु |