॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

षट्त्रिंशोऽध्यायः ॥

विष्णुवीरभद्रसंवादः


ब्रह्मोवाच
इन्द्रोऽपि प्रहसन् विष्णुमात्मवादरतं तदा ।
वज्रपाणिः सुरैः सार्द्धं योद्धुकामोऽभवत्तदा ॥ १ ॥
तदेन्द्रो गजमारूढो बस्तारूढोऽनलस्तथा ।
यमो महिषमारूढो निर्ऋतिः प्रेतमेव च ॥ २ ॥
पाशी च मकरारूढो मृगारूढः सदागतिः ।
कुबेरः पुष्पकारूढः संनद्धोभूदतन्द्रितः ॥ ३ ॥
तथान्ये सुरसङ्‌घाश्च यक्षचारणगुह्यकाः ।
आरुह्य वाहनान्येव स्वानि स्वानि प्रतापिनः ॥ ४ ॥
तेषामुद्योगमालोक्य दक्षश्चासृङ्मुखस्तथा ।
तदन्तिकं समागत्य सकलत्रोऽभ्यभाषत ॥ ५ ॥
दक्ष उवाच
युष्मद्‌बलेनैव मया यज्ञः प्रारम्भितो महान् ।
सत्कर्मसिद्धये यूयं प्रमाणाः स्युर्महाप्रभाः ॥ ६ ॥
ब्रह्मोवाच
तच्छ्रुत्वा दक्षवचनं सर्वे देवाः सवासवाः ।
निर्ययुस्त्वरितं तत्र युद्धं कर्तुं समुद्यताः ॥ ७ ॥
अथ देवगणाः सर्वे युयुधुस्ते बलान्विताः ।
शक्रादयो लोकपाला मोहिताः शिवमायया ॥ ८ ॥
देवानां च गणानां च तदासीत्समरो महान् ।
तीक्ष्णतोमरनाराचैर्युयुधुस्ते परस्परम् ॥ ९ ॥
नेदुः शङ्‌खाश्च भेर्यश्च तस्मिन् रणमहोत्सवे ।
महादुन्दुभयो नेदुः पटहा डिण्डिमादयः ॥ १० ॥
तेन शब्देन महता श्लाघ्यमानास्तदा सुराः ।
लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिङ्‌करान् ॥ ११ ॥
इन्द्राद्यैर्लोकपालैश्च गणाः शम्भो पराङ्मुखाः ।
कृताश्च मुनिशार्दूल भृगोर्मन्त्रबलेन च ॥ १२ ॥
उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा ।
यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ॥ १३ ॥
पराजितान्स्वकान्दृष्ट्‍वा वीरभद्रो रुषान्वितः ।
भूतप्रेतपिशाचांश्च कृत्वा तानेव पृष्ठतः ॥ १४ ॥
वृषभस्थान् पुरस्कृत्य स्वयं चैव महाबलः ।
महात्रिशूलमादाय पातयामास निर्जरान् ॥ १५ ॥
देवान् यक्षान् साध्यगणान् गुह्यकान् चारणानपि ।
शूलघातैश्च ते सर्वे गणा वेगात् प्रजघ्निरे ॥ १६ ॥
केचिद्‍द्विधा कृताः खड्गैर्मुद्‌गरैश्च विपोथिताः ।
अन्यैः शस्त्रैरपि सुरा गणैर्भिन्नास्तदाऽभवन् ॥ १७ ॥
एवं पराजिताः सर्वे पलायनपरायणाः ।
परस्परं परित्यज्य गता देवास्त्रिविष्टपम् ॥ १८ ॥
केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः ।
सङ्‌ग्रामे दारुणे तस्मिन् धृत्वा धैर्यं महाबलाः ॥ १९ ॥
सर्वे मिलित्वा शक्राद्या देवास्तत्र रणाजिरे ।
बृहस्पतिं च पप्रच्छुर्विनयावनतास्तदा ॥ २० ॥
लोकपाला ऊचुः
गुरो बृहस्पते तात महाप्राज्ञ दयानिधे ।
शीघ्रं वद पृच्छतो नः कुतोऽस्माकं जयो भवेत् ॥ २१ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषां स्मृत्वा शम्भुं प्रयत्नवान् ।
बृहस्पतिरुवाचेदं महेन्द्रं ज्ञानदुर्बलम् ॥ २२ ॥
बृहस्पतिरुवाच
यदुक्तं विष्णुना पूर्वं तत्सर्वं जातमद्य वै ।
तदेव विवृणोमीन्द्र सावधानतया शृणु ॥ २३ ॥
अस्ति यश्चेश्वरः कश्चित् फलदः सर्वकर्मणाम् ।
कर्तारं भजते सोपि न स्वकर्तुः प्रभुर्हि सः ॥ २४ ॥
अमन्त्रौषधयः सर्वे नाभिचारा न लौकिकाः ।
न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ॥ २५ ॥
अन्यान्यपि च शास्त्राणि नानावेदयुतानि च ।
ज्ञातुं नेशं सम्भवन्ति वदन्त्येवं पुरातनाः ॥ २६ ॥
न स्वज्ञेयो महेशानःसर्ववेदायुतेन सः ।
भक्तेरनन्यशरणैर्नान्यथेति महाश्रुतिः ॥ २७ ॥
शान्त्या च परया दृष्ट्या सर्वथा निर्विकारया ।
तदनुग्रहतो नूनं ज्ञातव्यो हि सदाशिवः ॥ २८ ॥
परं तु संवदिष्यामि कार्याकार्य विवक्षितौ ।
सिध्यंशं च सुरेशान तं शृणु त्वं हिताय वै ॥ २९ ॥
त्वमिन्द्र बालिशो भूत्वा लोकपालैः सहाद्य वै ।
आगतो दक्षयज्ञं हि किं करिष्यसि विक्रमम् ॥ ३० ॥
एते रुद्रसहायाश्च गणाः परमकोपनाः ।
आगता यज्ञविघ्नार्थं तं करिष्यन्त्यसंशयम ॥ ३१ ॥
सर्वथा न ह्युपायोत्र केषाञ्चिदपि तत्त्वतः ।
यज्ञविघ्नविनाशार्थं सत्यं सत्यं ब्रवीम्यहम् ॥ ३२ ॥
ब्रह्मोवाच
एवं बृहस्पतेर्वाक्यं श्रुत्वा ते हि दिवौकसः ।
चिन्तामापेदिरे सर्वे लोकपालाः सवासवाः ॥ ३३ ॥
ततोऽब्रवीद्वीरभद्रो महावीरगणैर्वृतः ।
इन्द्रादीन् लोकपालांस्तान् स्मृत्वा मनसि शंकरम् ॥ ३४ ॥
वीरभद्र उवाच
सर्वे यूयं बालिशत्वादवदानार्थमागताः ।
अवदानं प्रयच्छामि आगच्छत ममान्तिकम् ॥ ३५ ॥
हे शक्र हे शुचे भानो हे शशिन् हे धनाधिप ।
हे पाशपाणे हे वायो निर्ऋते यम शेष हे ॥ ३६ ॥
हे सुरासुरसङ्‌घा हीहैत यूयं हे विचक्षणाः ।
अवदानानि दास्यामि आतृप्त्याद्यासतां वराः ॥ ३७ ॥
ब्रह्मोवाच
एवमुक्त्वा सितैर्बाणैर्जघानाथ रुषान्वितः ।
निखिलांस्तान् सुरान् सद्यो वीरभद्रो गणाग्रणीः ।
तैर्बाणैर्निहताःसर्वे वासवाद्याः सुरेश्वराः ॥ ३८ ॥
पलायनपरा भूत्वा जग्मुस्ते च दिशो दश ।
गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ॥
यज्ञवाटोपकण्ठे हि वीरभद्रोगमद्‌गणैः । ३९ ॥
तदा ते ऋषयः सर्वे सुभीता हि रमहेश्वरम् ।
विज्ञप्तुकामाः सहसा शीघ्रमूचुर्नता भृशम् ॥ ४० ॥
ऋषय ऊचुः
देवदेव रमानाथ सर्वेश्वर महाप्रभो ।
रक्ष यज्ञं हि दक्षस्य यज्ञोऽसि त्वं न संशयः ॥ ४१ ॥
यज्ञकर्मा यज्ञरूपो यज्ञाङ्‌गो यज्ञरक्षकः ।
रक्ष यज्ञमतो रक्ष त्वत्तोन्यो न हि रक्षकः ॥ ४२ ॥
ब्रह्मोवाच
इत्याकर्ण्य वचस्तेषामृषीणां वचनं हरिः ।
योद्धुकामोऽभवद्विष्णुर्वीरभद्रेण तेन वै ॥ ४३ ॥
चतुर्भुजःसुसनद्धो चक्रायुधधरः करैः ।
महाबलोमरगणैर्यज्ञवाटात्स निर्ययौ ॥ ४४ ॥
वीरभद्रः शूलपाणिर्नानागणसमन्वितः ।
ददर्श विष्णुं संनद्धं योद्धुकामं महाप्रभुम् ॥ ४५ ॥
तं दृष्ट्‍वा वीरभद्रोभूद्‌भ्रुकुटीकुटिलाननः ।
कृतान्त इव पापिष्ठं मृगेन्द्र इव वारणम् ॥ ४६ ॥
तथाविधं हरिं दृष्ट्‍वा वीरभद्रोऽरिमर्दनः ।
अवदत् त्वरितः क्रुद्धो गणैर्वीरैः समावृतः ॥ ४७ ॥
वीरभद्र उवाच
रे रे हरे महादेव शपथोल्लङ्‌घनं त्वया ।
कथमद्य कृतं चित्ते गर्वः किमभवत्तव ॥ ४८ ॥
तव श्रीरुद्रशपथोल्लङ्‌घने शक्तिरस्ति किम् ।
को वा त्वमसि को वा ते रक्षऽकोस्ति जगत्त्रये ॥ ४९ ॥
अत्र त्वमागतः कस्माद्वयं तन्नैव विद्महे ।
दक्षस्य यज्ञपाता त्वं कथं जातोसि तद्वद ॥ ५० ॥
दाक्षायण्याकृतं यच्च तन्न दृष्टं किमु त्वया ।
प्रोक्तं यच्च दधीचेन श्रुतं तन्न किमु त्वया ॥ ५१ ॥
त्वञ्चापि दक्षयज्ञेस्मिन्नवदानार्थमागतः ।
अवदानं प्रयच्छामि तव चापि महाभुज ॥ ५२ ॥
वक्षो विदारयिष्यामि त्रिशूलेन हरे तव ।
कस्तवास्ति समायातो रक्षकोऽद्य ममान्तिकम् ॥ ५३ ॥
पातयिष्यामि भूपृष्ठे ज्वालयिष्यामि वह्निना ।
दग्धं भवन्तमधुना पेषयिष्यामि सत्वरम् ॥ ५४ ॥
रे रे हरे दुराचार महेश विमुखाधम ।
श्रीमहारुद्रमाहात्म्यं किन्न जानासि पावनम् ॥ ५५ ॥
तथापि त्वं महाबाहो योद्धुकामोऽग्रतः स्थितः ।
नेष्यामि पुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना ॥ ५६ ॥
ब्रह्मोवाच
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य बुद्धिमान् ।
उवाच विहसन् प्रीत्या विष्णुस्तत्र सुरेश्वरः ॥ ५७ ॥
विष्णुरुवाच
शृणु त्वं वीरभद्राद्य प्रवक्ष्यामि त्वदग्रतः ।
न रुद्रविमुखं मां त्वं वद शंकरसेवकम् ॥ ५८ ॥
अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः ।
दक्षेणाविदितार्थेन कर्मनिष्ठेन मौढ्यतः ॥ ५९ ॥
अहं भक्तपराधीनस्तथा सोऽपि महेश्वरः ।
दक्षो भक्तो हि मे तात तस्मादत्रागतो मखे ॥ ६० ॥
शृणु प्रतिज्ञां मे वीर रुद्रकोपसमुद्‌भव ।
रुद्रतेजःस्वरूपो हि सुप्रतापालय प्रभो ॥ ६१ ॥
अहं निवारयामि त्वां त्वं च मां विनिवारय ।
तद्‌भविष्यति यद्‌भावि करिष्येऽहं पराक्रमम् ॥ ६२ ॥
ब्रह्मोवाच
इत्युक्तवति गोविन्दे प्रहस्य स महाभुजः ।
अवदत्सुप्रसन्नोस्मि त्वां ज्ञात्वास्मत्प्रभोः प्रियम् ॥ ६३ ॥
ततो विहस्य सुप्रीतो वीरभद्रो गणाग्रणीः ।
प्रश्रयावनतोवादीद्विष्णुं देवं हि तत्त्वतः ॥ ६४ ॥
वीरभद्र उवाच
तव भावपरीक्षार्थमित्युक्तं मे महाप्रभो ।
इदानीं तत्त्वतो वच्मि शृणु त्वं सावधानतः ॥ ६५ ॥
यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः ।
इति वेदा वर्णयन्ति शिवशासनतो हरे ॥ ६६ ॥
शिवाज्ञया वयं सर्वे सेवकाः शंकरस्य वै ।
तथापि च रमानाथ प्रवादोचितमादरात् ॥ ६७ ॥
ब्रह्मोवाच
तच्छ्रुत्वा वचनं तस्य वीरभद्रस्य सोऽच्युतः ।
प्रहस्य चेदं प्रोवाच वीरभद्रमिदं वचः ॥ ६८ ॥
विष्णुरुवाच
युद्धं कुरु महावीर मया सार्द्धमशङ्‌कितः ।
तवास्त्रैः पूर्यमाणोऽहं गमिष्यामि स्वमाश्रमम् ॥ ६९ ॥
ब्रह्मोवाच
इत्युक्त्वा हि विरम्यासौ सन्नद्धो‍भू‌द्‌रणाय च ।
स्वगणैर्वीरभद्रोपि सन्नद्धोऽभून्महाबलः ॥ ७० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे विष्णुवीरभद्रसंवादो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP