|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
पञ्चत्रिंशोऽध्यायः ॥
विष्णुवचनम्
दक्ष उवाच
देवदेव हरे विष्णो दीनबन्धो कृपानिधे । मम रक्षा विधातव्या भवता साध्वरस्य च ॥ १ ॥ रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः । कृपा विधेया यज्ञस्य भङ्गो भवतु न प्रभो ॥ २ ॥ ब्रह्मोवाच इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात् । पपात पादयोस्तस्य भयव्याकुलमानसः ॥ ३ ॥ उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम् । श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम् ॥ ४ ॥ स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम् । अवदच्छिवतत्त्वज्ञो दक्षं सम्बोधयन्हरिः ॥ ५ ॥ हरिरुवाच शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः । सर्वथा ते हितकरं महामन्त्रसुखप्रदम् ॥ ६ ॥ अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता । सकलाधीश्वरस्यैव शंकरस्य परात्मनः ॥ ७ ॥ ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा । विफलं केवलं नैव विपत्तिश्च पदेपदे ॥ ८ ॥ अपूज्या यत्र पूज्यन्ते पूजनीयो न पूज्यते । त्रीणि तत्र भविष्यन्ति दारिद्र्यं मरणं भयम् ॥ ९ ॥ तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः । अमानितान्महेशाच्च महद्भयमुपस्थितम् ॥ १० ॥ अद्यापि न वयं सर्वे प्रभवः प्रभवामहे । भवतो दुर्नयेनैव मया सत्यमुदीर्यते ॥ ११ ॥ ब्रह्मोवाच विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिन्तापरोऽभवत् । विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ॥ १२ ॥ एतस्मिन्नन्तरे वीरभद्रः सैन्यसमन्वितः । अगच्छदध्वरं रुद्रप्रेरितो गणनायकः ॥ १३ ॥ पृष्ठे केचित्समायाता गगने केचिदागताः । दिशश्च विदिशः सर्वे समावृत्य तथापरे ॥ १४ ॥ शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः । असङ्ख्याः सिंहनादान्वै कुर्वन्तो वीरसत्तमाः ॥ १५ ॥ तेन नादेन महता नादितं भुवनत्रयम् । रजसा चावृतं व्योम तमसा चावृता दिशः ॥ १६ ॥ सप्तद्वीपान्विता पृथ्वी चचालातिभयाकुला । सशैलकानना तत्र चुक्षुभुः सकलाब्धयः ॥ १७ ॥ एवम्भूतं च तत्सैन्यं लोकक्षयकरं महत् । दृष्ट्वा च विस्मिताःसर्वे बभूवुरमरादयः ॥ १८ ॥ सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः । दण्डवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत ॥ १९ ॥ दक्ष उवाच भवद्बलेनैव मया यज्ञः प्रारम्भितो महान् । सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो ॥ २० ॥ विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः । धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ॥ २१ ॥ तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो । त्वदन्यः कः समर्थोऽस्ति यतस्त्वं सकलप्रभुः ॥ २२ ॥ । ब्रह्मोवाच दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा । अवोचद्बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ॥ २३ ॥ विष्णुरुवाच मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै । ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ॥ २४ ॥ तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः । शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाऽधुना ॥ २५ ॥ नैमिषे निमिषक्षेत्रे यज्जातं वृत्तमद्भुतम् । तत्किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना ॥ २६ ॥
रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव । न यस्याभिमतं दक्ष यस्त्वां रक्षति दुर्मतिः ॥ २७ ॥ किं कर्म किमकर्मेति तत्र पश्यसि दुर्मते । समर्थं केवलं कर्म न भविष्यति सर्वदा ॥ २८ ॥ स्वकर्मविद्धि तद्येन समर्थत्वेन जायते । न त्वन्यः कर्मणो दाता शंभवेदीश्वरं विना ॥ २९ ॥ ईश्वरस्य च यो भक्त्या शान्तस्तद्गतमानसः । कर्मणो हि फलं तस्य प्रयच्छति तदा शिवः ॥ ३० ॥ केवलं ज्ञानमाश्रित्य निरीश्वरपरा नराः । निरयं ते च गच्छन्ति कल्पकोटिशतानि च ॥ ३१ ॥ पुनः कर्ममयैः पाशैर्बद्ध्वा जन्मनि जन्मनि । निरयेषु प्रपच्यन्ते केवलं कर्मरूपिणः ॥ ३२ ॥ अयं रुद्रगणाधीशो वीरभद्रोऽरिमर्दनः । रुद्रकोपाग्निसम्भूतः समायातोऽध्वराङ्गणे ॥ ३३ ॥ अयमस्मद्विनाशार्थमागतोऽस्ति न संशयः । अशक्यमस्य नास्त्येव किमप्यस्तु तु वस्तुतः ॥ ३४ ॥ प्रज्वाल्यास्मानयं सर्वान् ध्रुवमेव महाप्रभुः । ततः प्रशान्तहृदयो भविष्यति न संशयः ॥ ३५ ॥ श्रीमहादेवशपथं समुल्लङ्घ्य भ्रमान्मया । यतः स्थितं ततः प्राप्यं मया दुःखं त्वया सह ॥ ३६ ॥ शक्तिर्मम तु नास्त्येव दक्षाद्यैतन्निवारणे । शपथोल्लङ्घनादेव शिवद्रोही यतोऽस्म्यहम् ॥ ३७ ॥ कालत्रयेऽपि न यतो महेशद्रोहिणां सुखम् । ततोऽवश्यं मया प्राप्तं दुःखमद्य त्वया सह ॥ ३८ ॥ सुदर्शनाभिधं चक्रमेतस्मिन्न लगिष्यति । शैवचक्रमिदं यस्मादशैवलयकारणम् ॥ ३९ ॥ विनापि वीरभद्रेण नामैतच्चक्रमैश्वरम् । हत्वा गमिष्यत्यधुना सत्वरं हरसन्निधौ ॥ ४० ॥ शैवं शपथमुल्लङ्घ्य स्थितं मां चक्रमीदृशम् । असंहत्यैव सहसा कृपयैव स्थिरं परम् ॥ ४१ ॥ अतः परमिदं चक्रमपि न स्थास्यति ध्रुवम् गमिष्यत्यधुना शीघ्रं ज्वालामालासमाकुलम् । ४२ ॥ वीरभद्रः पूजितोपि शीघ्रमस्माभिरादरात् । महाक्रोधसमाक्रान्तो नास्मान् संरक्षयिष्यति ॥ ४३ ॥ अकाण्डप्रलयोऽस्माकमागतोद्य हि हा हहा । हा हा बत तवेदानीं नाशोऽस्माकमुपस्थितः ॥ ४४ ॥ शरण्योऽस्माकमधुना नास्त्येव हि जगत्त्रये । शंकरद्रोहिणो लोके कः शरण्यो भविष्यति ॥ ४५ ॥ तनुनाशेपि सम्प्राप्यास्तैश्चापि यमयातनाः । तानैव शक्यते सोढुं बहुदुःखप्रदायिनीः ॥ ४६ ॥ शिवद्रोहिणमालोक्य दष्टदन्तो यमः स्वयम् । तप्ततैलकटाहेषु पातयत्येव नान्यथा ॥ ४७ ॥ गन्तुमेवाहमुद्युक्तं सर्वथा शपथोत्तरम् । तथापि न गतः शीघ्रं दुष्टसंसर्गपापतः ॥ ४८ ॥ यदद्य क्रियतेस्माभिः पलायनमितस्तदा । शार्वो ना कर्षकः शस्त्रैरस्मानाकर्षयिष्यति ॥ ४९ ॥ स्वर्गे वा भुवि पाताले यत्र कुत्रापि वा यतः । श्रीवीरभद्रशस्त्राणां गमनं न हि दुर्ल भम् ॥ ५० ॥ यावन्तश्च गणाःसन्ति श्रीरुद्रस्य त्रिशूलिनः । तावतामपि सर्वेषां शक्तिरेतादृशी धुवम् ॥ ५१ ॥ श्रीकालभैरवः काश्यां नखाग्रेणैव लीलया । पुरा शिरश्च चिच्छेद पञ्चमं ब्रह्मणो ध्रुवम् ॥ ५२ ॥ एतदुक्त्वा स्थितो विष्णुरतित्रस्तमुखाम्बुजः । वीरभद्रोपि सम्प्राप तदैवाऽध्वरमण्डपम् ॥ ५३ ॥ एवं ब्रुवति गोविन्द आगतं सैन्यसागरम् । वीरभद्रेण सहितं ददृशुश्च सुरादयः ॥ ५४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने विष्णुवाक्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥ श्रीगौरीशंकरार्पणमस्तु |