॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

चतुस्त्रिंशोऽध्यायः ॥

यज्ञवाटे देवानां दुःशकुनदर्शनम्


ब्रह्मोवाच
एवं प्रचलिते चास्मिन् वीरभद्रे गणान्विते ।
दुष्टचिह्नानि दक्षेण दृष्टानि विबुधैरपि ॥ १ ॥
उत्पाता विविधाश्चासन् वीरभद्रे गणान्विते ।
त्रिविधा अपि देवर्षे यज्ञविध्वंससूचकाः ॥ २ ॥
दक्षवामाक्षिबाहूरुविस्पन्दः समजायत ।
नानाकष्टप्रदस्तात सर्वथाऽशुभसूचकः ॥ ३ ॥
भूकम्पः समभूत्तत्र दक्षयागस्थले तदा ।
दक्षोपश्यच्च मध्याह्ने नक्षत्राण्यद्‌भुतानि च ॥ ४ ॥
दिशश्चासन्सुमलिनाः कर्बुरोऽभूद्दिवाकरः ।
परिवेषसहस्रेण सङ्‌क्रान्तश्च भयङ्‌करः ॥ ५ ॥
नक्षत्राणि पतन्ति स्म विद्युदग्निप्रभाणि च ।
नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा ॥ ६ ॥
गृध्रा दक्षशिरःस्पृष्ट्‍वा समुद्‌भूताः सहस्रशः ।
आसीद्‌गृध्रपक्षच्छायैः सच्छायो यागमण्डपः ॥ ७ ॥
ववाशिरे यागभूमौ क्रोष्टारो नेत्रकस्तदा ।
उल्कावृष्टिरभूत्तत्र श्वेतवृश्चिकसम्भवा ॥ ८ ॥
खरा वाता ववुस्तत्र पांशुवृष्टिसमन्विताः ।
शलभाश्च समुद्‌भूता विवर्तानिलकम्पिताः ॥ ९ ॥
नीतश्च पवनैरूर्ध्वं स दक्षाध्वरमण्डपः ।
दैवान्वितेन दक्षेण यः कृतो नूतनोद्‌भुतः ॥ १० ॥
वेमुर्दक्षादयःसर्वे तदा शोणितमद्‌भुतम् ।
वेमुश्च मांसखण्डानि सशल्यानि मुहुर्मुहुः ॥ ११ ॥
सकम्पाश्च बभूवुस्ते दीपा वातहता इव ।
दुःखिताश्चाभवन्सर्वे शस्त्रधाराहता इव ॥ १२ ॥
तदा निनादजातानि बाष्पवर्षाणि तत्क्षणे ।
प्रातस्तुषारवर्षीणि पद्मानीव वनान्तरे ॥ १३ ॥
दक्षाद्यक्षीणि जातानि ह्यकस्माद्विशदान्यपि ।
निशायां कमलाश्चैव कुमुदानीव सङ्‌गवे ॥ १४ ॥
असृग्ववर्ष देवश्च तिमिरेणावृता दिशः ।
दिग्दाहोभूद्विशेषेण त्रासयन् सकलाञ्जनान् ॥ १५ ॥
एवं विधान्यरिष्टानि ददृशुर्विबुधादयः ।
भयमापेदिरेऽत्यन्तं मुने विष्ण्वादिकास्तदा ॥ १६ ॥
भुवि ते मूर्छिताः पेतुर्हाहताः स्म इतीरयन् ।
तरवस्तीरसञ्जाता नदीवेगहता इव ॥ १७ ॥
पतित्वा ते स्थिता भूमौ क्रूराः सर्पा हता इव ।
कन्दुका इव ते भूयः पतिताः पुनरुत्थिताः ॥ १८ ॥
ततस्ते तापसन्तप्ता रुरुदुः कुररी इव ।
रोदनध्वनिसङ्‌क्रातोरुक्तिप्रत्युक्तिका इव ॥ १९ ॥
सवैकुण्ठास्ततः सर्वे तदा कुण्ठितशक्तयः ।
स्वस्वोपकण्ठमाकण्ठं लुलुठुः कमठा इव ॥ २० ॥
एतस्मिन्नन्तरे तत्र सञ्जाता चाशरीरवाक् ।
श्रावयत्यखिलान् देवान्दक्षं चैव विशेषतः ॥ २१ ॥
आकाशवाण्युवाच
धिक् जन्म तव दक्षाद्य महामूढोसि पापधीः ॥
भविष्यति महद्दुःखमनिवार्यं हरोद्‌भवम् । २२ ॥
हा हापि नोऽत्र ये मूढास्तव देवादय स्थिताः ।
तेषामपि महादुःखं भविष्यति न संशयः ॥ २३ ॥
ब्रह्मोवाच
तच्छ्रुत्वाऽऽकाशवचनं दृष्ट्‍वारिष्टानि तानि च ।
दक्षः प्रापद्‌भयं चाति परे देवादयोपि ह ॥ २४ ॥
वेपमानस्तदा दक्षो विकलश्चाति चेतसि ।
अगच्छच्छरणं विष्णोः स्वप्रभोरिन्दिरापतेः ॥ २५ ॥
सुप्रणम्य भयाविष्टः संस्तूय च विचेतनः ।
अवोचद्देवदेवं तं विष्णुं स्वजनवत्सलम् ॥ २६ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे दुः शकुनदर्शनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP