॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

त्रयस्त्रिंशोऽध्यायः ॥

वीरभद्रयात्रा


ब्रह्मोवाच
इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात् ।
वीरभद्रोऽतिसन्तुष्टः प्रणनाम महेश्वरम ॥ १ ॥
शासनं शिरसा धृत्वा देवदेवस्य शूलिनः ।
प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति । २ ॥
शिवोऽथ प्रेषयामास शोभार्थं कोटिशो गणान् ।
तेन सार्द्धं महावीरान्मलयानलसन्निभान् ॥ ३ ॥
अथ ते वीरभद्रस्य पुरतः प्रबला गणाः ।
पश्चादपि ययुर्वीराः कुतूहलकरा गणाः ॥ ४ ॥
वीरभद्रसमेता ये गणाः शतसहस्रशः ।
पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ॥ ५ ॥
गणैःसमेतः किल तैर्महात्मा
     स वीरभद्रो हरवेषभूषणः ।
सहस्रबाहुर्भुजगाधिपाढ्यो
     ययौ रथस्थः प्रबलोऽतिभीकरः ॥ ६ ॥
नल्वानं च सहस्रे द्वे प्रमाणं स्यन्दनस्य हि ।
अयुतेनैव सिंहानां वाहनानां प्रयत्नतः ॥ ७ ॥
तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः ।
शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः ॥ ८ ॥
वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम् ।
कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा ॥ ९ ॥
तुष्टुवुश्च गणा वीर शिपिविष्टे प्रचेष्टितम् ।
चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवैः ॥ १० ॥
काली कात्यायिनीशानी चामुण्डा मुण्डमर्दिनी ।
भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥ ११ ॥
एताभिर्नवदुर्गाभिर्महाकाली समन्विता ।
ययौ दक्षविनाशाय सर्वभूतगणैः सह । १२ ॥
डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः ।
कूष्माण्डाः पर्पटाश्चैव चटका ब्रह्मराक्षसाः ॥ १३ ॥
भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः ।
निर्ययुस्त्वरितं वीराः शिवाज्ञाप्रतिपालकाः ॥ १४ ॥
तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् ।
निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम् ॥ १५ ॥
तेषां गणानां सर्वेषां सङ्‌ख्यानं शृणु नारद ।
महाबलवतां सङ्‌घो मुख्यानां धैर्यशालिनाम् ॥ १६ ॥
अभ्ययाच्छङ्‌कुकर्णश्च दशकोट्या गणेश्वरः ।
दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव ॥ १७ ॥
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः ।
षड्भिः सर्वाङ्‌गको वीरस्तथैव विकृताननः ॥ १८ ॥
ज्वालकेशो द्वादशभिः कोटिभिर्गणपुङ्‌गवः ।
सप्तभिः समदो धीमान् दुद्रभोष्टाभिरेव च ॥ १९ ॥
पञ्चभिश्च कपालीशः षड्भिः सन्दारको गणः ।
कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च ॥ २० ॥
विष्टम्भोऽष्टाभिर्वीरैः कोटिभिर्गणसप्तमः ।
सहस्रकोटिभिस्तात संनादः पिप्पलस्तथा ॥ २१ ॥
आवेशनस्तथाष्टाभिरष्टाभिश्चन्द्रतापनः ।
महावेशः सहस्रेण कोटिना गणपो वृतः ॥ २२ ॥
कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने ।
विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तमः ॥ २३ ॥
कालश्च कालकश्चैव महाकालस्तथैव च ।
कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति ॥ २४ ॥
अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च ।
आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ॥ २५ ॥
सन्नाहः शतकोट्या च कोट्या च कुमुदो गणः ।
अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ॥ २६ ॥
काष्ठागूढश्चतुःषष्ट्या सुकेशी वृषभस्तथा ।
सुमन्त्रको गणाधीशस्तथा तात सुनिर्ययौ ॥ २७ ॥
काकपादोदरः षष्टिकोटिभिर्गणसत्तमः ।
तथा सन्तानकः षष्टिकोटिभिर्गणपुङ्‌गवः ॥ २८ ॥
महाबलश्च नवभिः कोटिभिः पुङ्‌गवस्तथा । २९ ॥
मधुपिङ्‌गस्तथा तात गणाधीशो हि निर्ययौ ।
नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ ३० ॥
निर्ययौ शतकोटीभिश्चतुर्वक्त्रो गणाधिपः ।
काष्ठागूढश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ॥ ३१ ॥
विरूपाक्षश्च कोटीनां चतुःषष्ट्या गणेश्वरः ।
तालकेतुः षडास्यश्च पञ्चास्यश्च गणाधिपः ॥ ३२ ॥
संवर्तकस्तथा चैव कुलीशश्च स्वयं प्रभुः ।
लोकान्तकश्च दीप्तात्मा तथा दैत्यान्तको मुने ॥ ३३ ॥
गणो भृङ्‌गी रिटिः श्रीमान् देवदेवप्रियस्तथा ।
अशनिर्भालकश्चैव चतुःषष्ट्या सहस्रकः ॥ ३४ ॥
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः ।
वीरेशो ह्यभ्ययाद्वीरो वीरभद्र शिवाज्ञया ॥ ३५ ॥
भूतकोटिसहस्रैस्तु प्रययौ कोटिभिस्त्रिभिः ।
रोमजैः श्वगणैश्चैव तथा वीरो ययौ द्रुतम् ॥ ३६ ॥
तदा भेरीमहानादः शङ्‌खाश्च विविधस्वनाः ।
जटाहरोमुखाश्चैव शृङ्‌गाणि विविधानि च ॥ ३७ ॥
ते तानि विततान्येव बन्धनानि सुखानि च ।
वादित्राणि विनेदुश्च विविधानि महोत्सवे ॥ ३८ ॥
वीरभद्रस्य यात्रायां सबलस्य महामुने ।
शकुनान्यभवंस्तत्र भूरीणि सुखदानि च ॥ ३९ ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे वीरभद्रयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP