॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

एकोनत्रिंशोऽध्यायः ॥

सतीवाक्यम्


ब्रह्मोवाच
दाक्षायणी गता तत्र तत्र यज्ञो महाप्रभुः ।
सुरासुरमुनीन्द्रादिकुतूहलसमन्वितः ॥ १ ॥
स्वपितुर्भवनं तत्र नानाश्चर्यसमन्वितम् ।
ददर्श सुप्रभं चारु सुरर्षिगणसंयुतम् ॥ २ ॥
द्वारि स्थिता तदा देवी ह्यवरुह्य निजासनात् ।
नन्दिनोऽभ्यन्तरं शीघ्रमेकैवागच्छदध्वरम् ॥ ३ ॥
आगतां च सतीं दृष्ट्‍वाऽसिक्नी माता यशस्विनी ।
अकरोदादरं तस्या भगिन्यश्च यथोचितम् ॥ ४ ॥
नाकरोदादरं दक्षो दृष्ट्‍वा तामपि किञ्चन ।
नान्योपि तद्‌भयात्तत्र शिवमायाविमोहितः ॥ ५ ॥
अथ सा मातरं देवी पितरं च सती मुने ।
अनमद्विस्मितात्यन्तं सर्वलोकपराऽभवात् ॥ ६ ॥
भागानपश्यद्देवानां हर्यादीनां तदध्वरे ।
न शम्भुभागमकरोत् क्रोधं दुर्विषहं सती ॥ ७ ॥
सत्युवाच
तदा दक्षं दहन्तीव रुषा पूर्णा सती भृशम् ।
क्रूरदृष्ट्या विलोक्यैव सर्वानप्यपमानिता ॥ ८ ॥
सत्युवाच
अनाहूतस्त्वया कस्माच्छम्भुः परमशोभनः ।
येन पूतमिदं विश्वं समग्रं सचराचरम् ॥ ९ ॥
यज्ञो यज्ञविदां श्रेष्ठो यज्ञाङ्‌गो यज्ञदक्षिणः ।
यज्ञकर्ता च यः शम्भुस्तं विना च कथं मखः ॥ १० ॥
यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो ।
विना तेन कृतं सर्वमपवित्रं भविष्यति ॥ ११ ॥
द्रव्यमन्त्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ।
शम्भुना हि विना तेन कथं यज्ञः प्रवर्तितः ॥ १२ ॥
किं शिवं सुरसामान्यं मत्याकार्षीरनादरम् ।
भ्रष्टबुद्धिर्भवानद्य जातोसि जनकाधम ॥ १३ ॥
विष्णुब्रह्मादयो देवा यं संसेव्य महेश्वरम् ।
प्राप्ताः स्वपदवीं सर्वे तं न जानासि रे हरम् ॥ १४ ॥
एते कथं समायाता विष्णुब्रह्मादयःसुराः ।
तव यज्ञे विना शम्भुं स्वप्रभुं मुनयस्तथा ॥ १५ ॥
ब्रह्मोवाच
इत्युक्त्वा परमेशानी विष्ण्वादीन्सकलान् प्रति ।
पृथक्पृथगवोचत्सा भर्त्सयन्ती भवात्मिका ॥ १६ ॥
सत्युवाच
हे विष्णो त्वं महादेवं किं न जानासि तत्त्वतः ।
सगुणं निर्गुणं चापि श्रुतयो यं वदन्ति ह ॥ १७ ॥
यद्यपि त्वां करं दत्त्वा बहुवारं महेश्वरः ।
अशिक्षयत्पुरा शाल्वप्रमुखाकृतिभिर्हरे ॥ १८ ॥
तदपि ज्ञानमायातं न ते चेतसि दुर्मते ।
भागार्थी दक्षयज्ञेऽस्मिन् शिवं स्वस्वामिनं विना ॥ १९ ॥
पुरा पञ्चमुखो भूत्वा गर्वितोऽसि सदाशिवम् ।
कृतश्चतुर्मुखस्तेन विस्मृतोसि तदद्‌भुतम् ॥ २० ॥
इन्द्र त्वं किं न जानासि महादेवस्य विक्रमम् ।
भस्मीकृतः पविस्तेन हरेण क्रूरकर्मणा ॥ २१ ॥
हे सुराः किन्न जानीथ महादेवस्य विक्रमम् ।
अत्रे वसिष्ठ मुनयो युष्माभिः किं कृतं त्विह ॥ २२ ॥
भिक्षाटनं च कृतवान् पुरा दारुवने विभुः ।
शप्तो यद्‌भिक्षुको रुद्रो भवद्‌भिर्मुनिभिस्तदा ॥ २३ ॥
शप्तेनापि च रुद्रेण यत्कृतं विस्मृतं कथम् ।
तल्लिङ्‌गेनाखिलं दग्धं भुवनं सचराचरम् ॥ २४ ॥
सर्वे मूढाश्च सञ्जाता विष्णुब्रह्मादयःसुराः ।
मुनयोऽन्यो विना शम्भुमागता यदिहाध्वरे ॥ २५ ॥
सर्वे वेदाश्च सम्भूताः साङ्‌गाः शास्त्राणि वाग्यतः ।
योऽसौ वेदान्तगः शम्भुः कैश्चिज्ज्ञातुं न पार्यते ॥ २६ ॥
ब्रह्मोवाच
इत्यनेकविधा वाणीरगदज्जगदम्बिका ।
कोपान्विता सती तत्र हृदयेन विदूयता ॥ २७ ॥
विष्ण्वादयोऽखिला देवा मुनयो ये च तद्वचः ।
मौनीभूतास्तदाकर्ण्य भयव्याकुलमानसाः ॥ २८ ॥
अथ दक्षः समाकर्ण्य स्वपुत्र्यास्तादृशं वचः ।
विलोक्य क्रूरदृष्ट्या तां सतीं कुद्धोऽब्रवीद्वचः ॥ २९ ॥
दक्ष उवाच
तव किं बहुनोक्तेन कार्यं नास्तीह साम्प्रतम् ।
गच्छ वा तिष्ठ वा भद्रे कस्मात्त्वं हि समागता ॥ ३० ॥
अमंगलस्तु ते भर्ता शिवोऽसौ गम्यते बुधैः ।
अकुलीनो वेदबाह्यो भूतप्रेतपिशाचराट् ॥ ३१ ॥
तस्मान्नाह्वायितो रुद्रो यज्ञार्थं सुकुवेषभृत् ।
देवर्षिसंसदि मया ज्ञात्वा पुत्रि विपश्चिता ॥ ३२ ॥
विधिना प्रेरितं न त्वं दत्ता मन्देन पापिना ।
रुद्रायाविदितार्थाय चोद्धताय दुरात्मने ॥ ३३ ॥
तस्मात्कोपं परित्यज्य स्वस्था भव शुचिस्मिते ।
यद्यागतासि यज्ञेऽस्मिन् दायं गृह्णीष्व चात्मना ॥ ३४ ॥
ब्रह्मोवाच
दक्षेणोक्तेति सा पुत्री सती त्रैलोक्यपूजिता ।
निन्दायुक्तं स्वपितरं दृष्ट्‍वाऽऽसीद्‌रुषिता भृशम् ॥ ३५ ॥
अचिन्तयत्तदा सेति कथं यास्यामि शंकरम् ।
शंकरं द्रष्टुकामाऽहं पृष्टा वक्ष्ये किमुत्तरम् ॥ ३६ ॥
अथ प्रोवाच पितरं दक्षं तं दुष्टमानसम् ।
निः श्वसन्ती रुषाविष्टा सा सती त्रिजगत्प्रसूः ॥ ३७ ॥
सत्युवाच
यो निन्दति महादेवं निन्द्यमानं शृणोति वा ।
तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ ॥ ३८ ॥
तस्मात्त्यक्ष्याम्यहं देवं प्रवेक्ष्यामि हुताशनम् ।
किं जीवितेन मे तात शृण्वन्त्यानादरं प्रभोः ॥ ३९ ॥
यदि शक्तः स्वयं शम्भोर्निन्दकस्य विशेषतः ।
छिन्द्यात् प्रसह्य रसनां तदा शुद्ध्येन्न संशयः ॥ ४० ॥
यद्यशक्तो जनस्तत्र निरयात्सुपिधाय वै ।
कर्णौ धीमान् ततः शुद्ध्येद्वदन्तीदं बुधा वराः ॥ ४१ ॥
ब्रह्मोवाच
इत्थमुक्त्वा धर्मनीतिं पश्चात्तापमवाप सा ।
अस्मरच्छाङ्‌करं वाक्यं दूयमानेन चेतसा ॥ ४२ ॥
ततःसङ्‌कुद्ध्य सा दक्षं निः शङ्‌कं प्राह तानपि ।
सर्वान्विष्ण्वादिकान्देवान्मुनीनपि सती ध्रुवम् ॥ ४३ ॥
सत्युवाच
तात त्वं निन्दकः शम्भोः पश्चात्तापं गमिष्यसि ।
इह भुक्त्वा महादुःखमन्ते यास्यसि यातनाम् ॥ ४४ ॥
यस्य लोकेऽप्रियो नास्ति प्रियश्चैव परात्मनः ।
तस्मिन्नवैरे शर्वेस्मिन् त्वां विना कः प्रतीपकः ॥ ४५ ॥
महद्विनिन्दा नाश्चर्यं सर्वदाऽसत्सु सेर्ष्यकम् ।
महदङ्‌घ्रिरजोध्वस्ततमःसु सैव शोभना ॥ ४६ ॥
शिवेति द्व्यक्षरं यस्य नृणां नाम गिरेरितम् ।
सकृत्प्रसङ्‌गात्सकलमघमाशु विहन्ति तत् ॥ ४७ ॥
पवित्रं कीर्तितमलं भवान् द्वेष्टि शिवेतरः ।
अलङ्‌घ्यशासनं शम्भुमहो सर्वेश्वरं खलः ॥ ४८ ॥
यत्पादपद्मं महतां मनोऽलिसुनिषेवितम् ।
सर्वार्थदं ब्रह्मरसैः सर्वार्थिभिरथादरात् ॥ ४९ ॥
यद्वर्षत्यर्थिनः शीघ्रं लोकस्य शिव आदरात् ।
भवान् द्रुह्यति मूर्खत्वात्तस्मै चाशेषबन्धवे ॥ ५० ॥
किं वा शिवाख्यमशिवं त्वदन्ये न विदुर्बुधाः ।
ब्रह्मादयस्तं मुनयः सनकाद्यास्तथा परे ॥ ५१ ॥
अवकीर्य जटाभूतैः श्मशाने स कपालधृक् ।
तन्माल्यभस्म वा ज्ञात्वा प्रीत्यावसदुदारधीः ॥ ५२ ॥
ये मूर्द्धभिर्दधति तच्चरणोत्सृष्टमारात् ।
निर्माल्यं मुनयो देवाः स शिवः परमेश्वरः ॥ ५३ ॥
प्रवृत्तं च निवृत्तं च द्विविधं कर्म चोदितम् ।
वेदे विविच्य वृत्तं च तद्विचार्य मनीषिभिः ॥ ५४ ॥
विरोधियौगपद्यैककर्तृके च तथा द्वयम् ।
परब्रह्मणि शम्भो तु कर्मर्च्छन्ति न किञ्चन ॥ ५५ ॥
मा वः पदव्यः स्म पितर्या अस्मदास्थिताः सदा ।
यज्ञशालासु वो धूम्रवर्त्मभुक्तोज्झिताः परम् ॥ ५६ ॥
नोऽव्यक्तलिङ्‌गः सततमवधूतसुसेवितः ।
अभिमानमतो न त्वं कुरु तात कुबुद्धिधृक् ॥ ५७ ॥
किं बहूक्तेन वचसा दुष्टस्त्वं सर्वथा कुधीः।
त्वदुद्‌भवेन देहेन न मे किञ्चित्प्रयोजनम् । ५८ ॥
तज्जन्म धिग्यो महतां सर्वथावद्यकृत्खलः ।
परित्याज्यो विशेषेण तत्सम्बन्धो विपश्चिता ॥ ५९ ॥
गोत्रं त्वदीयं भगवान् यदाह वृषभध्वजः ।
दाक्षायणीति सहसाऽहं भवामि सुदुर्मनाः ॥ ६० ॥
तस्मात् त्वदङ्‌गजं देहं कुणपं गर्हितं सदा ।
व्युत्सृज्य नूनमधुना भविष्यामि सुखावहा ॥ ६१ ॥
हे सुरा मुनयः सर्वे यूयं शृणुत मद्वचः ।
सर्वथाऽनुचितं कर्म युष्माकं दुष्टचेतसाम् ॥ ६२ ॥
सर्वे यूयं विमूढा हि शिवनिन्दाः कलिप्रियाः ।
प्राप्स्यन्ति दण्डं नियतमखिलं च हराद्ध्रुवम् ॥ ६३ ॥
ब्रह्मोवाच
दक्षमुक्त्वाऽध्वरे तस्मिन् व्यरमत्सा सती तदा ।
अनूद्य चेतसा शम्भुमस्मरत् प्राणवल्लभम् ॥ ६४ ॥
इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे सतीवाक्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP