|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
त्रिंशोऽध्यायः ॥
सतीदेहत्यागोपद्रववर्णनम्
नारद उवाच
मौनीभूता यदा सासीत्सती शंकरवल्लभा । चरित्रं किमभूत्तत्र विधे तद्वद चादरात् ॥ १ ॥ ब्रह्मोवाच मौनीभूता सती देवी स्मृत्वा स्वपतिमादरात । क्षितावुदीच्यां सहसा निषसाद प्रशान्तधीः ॥ २ ॥ जलमाचम्य विधिवत् संवृता वाससा शुचिः । दृङ्निमील्य पतिं स्मृत्वा योगमार्गं समाविशत् ॥ ३ ॥ कृत्वासमानावनिलौ प्राणापानौ सितानना । उत्थाप्योदानमथ च यत्नात्सा नाभिचक्रतः ॥ ४ ॥ हृदि स्थाप्योरसि धिया स्थितं कण्ठाद्भ्रुवोः सती । अनिन्दितानयन्मध्यं शंकरप्राणवल्लभा ॥ ५ ॥ एवं स्वदेहं सहसा दक्षकोपाज्जिहासती । दग्धे गात्रे वायुशुचिर्धारणं योगमार्गतः ॥ ६ ॥ ततःस्वभर्तुश्चरणं चिन्तयन्ती न चापरम् । अपश्यत्सा सती तत्र योगमार्गनिविष्टधीः ॥ ७ ॥ हतकल्मषतद्देहः प्राप तच्च तदग्निना । भस्मसादभवत्सद्यो मुनिश्रेष्ठ तदिच्छया ॥ ८ ॥ तत्पश्यतां च खे भूमौ वादोऽभूत्सुमहांस्तदा । हाहेति सोद्भुतश्चित्रः सुरादीनां भयावहः ॥ ९ ॥ हन्त प्रिया परा शम्भोर्देवी दैवतमस्य हि । जहादसून् सती केन सुदुष्टेन प्रकोपिता ॥ १० ॥ अहो त्वनात्म्यं सुमहदस्य दक्षस्य पश्यतः । चराचरं प्रजा यस्य यत्पुत्रस्य प्रजापतेः ॥ ११ ॥ अहोद्य द्विमनाऽभूत्सा सती देवी मनस्विनी । वृषध्वजप्रियाऽभीक्ष्णं मानयोग्या सतां सदा ॥ १२ ॥ सोऽयं दुर्मर्षहृदयो ब्रह्मधृक् स प्रजापतिः । महतीमपकीर्तिं हि प्राप्स्यति त्वखिले भवे ॥ १३ ॥ यत्स्वाङ्गजां सुतां शम्भुद्विट् न्यषेधत्समुद्यताम् । महानरकभोगी स मृतये नोऽपराधतः ॥ १४ ॥ वदत्येवं जने सत्या दृष्ट्वाऽसुत्यागमद्भुतम् । द्रुतं तत्पार्षदाः क्रोधादुदतिष्ठन्नुदायुधाः ॥ १५ ॥ द्वारि स्थिता गणाःसर्वे रसायुतमिता रुषा । शंकरस्य प्रभावात्तेऽक्रुध्यन्नतिमहाबलाः ॥ १६ ॥
हाहाकारमकुर्वंस्ते धिग् धिग् नो नेति वादिनः ।
उच्चैःसर्वेऽसकृद्वीराः शंकरस्य गणाधिपाः ॥ १७ ॥ हाहाकारेण महता व्याप्तमासीद्दिगन्तरम् । सर्वे प्रापन् भयं देवा मुनयोऽन्येपि ते स्थिताः ॥ १८ ॥ गणाः संमन्त्र्य ते सर्वेऽभूवन् क्रुद्धा उदायुधाः । कुर्वन्तः प्रलयं वाद्यैः शस्त्रैर्व्याप्तं दिगन्तरम् ॥ १९ ॥ शस्त्रैरघ्नन्निजाङ्गानि केचित्तत्र शुचाकुलाः । शिरोमुखानि देवर्षे सुतीक्ष्णैः प्राणनाशिभिः ॥ २० ॥ इत्थं ते विलयं प्राप्ता दाक्षायण्या समं तदा । गणायुते द्वे च तदा तदद्भुतमिवाभवत् ॥ २१ ॥ गणा नाशाऽवशिष्टा ये शंकरस्य महात्मनः । दक्षं तं क्रोधितं हन्तुमुदतिष्ठन्नुदायुधाः ॥ २२ ॥ तेषामापततां वेगं निशम्य भगवान् भृगुः । यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहोन्मुने ॥ २३ ॥ हूयमाने च भृगुणा समुत्पेतुर्महासुराः । ऋभवो नाम प्रबला वीरास्तत्र सहस्रशः ॥ २४ ॥ तैरलातायुधैस्तत्र प्रमथानां मुनीश्वर । अभूद्युद्धं सुविकटं शृण्वतां रोमहर्षणम् ॥ २५ ॥ ऋभुभिस्तैर्महावीरैर्हन्यमानाः समन्ततः । अयत्नयानाः प्रमथा उशद्भिर्ब्रह्मतेजसा ॥ २६ ॥ एवं शिवगणास्ते वै हता विद्राविता द्रुतम् । शिवेच्छया महाशक्त्या तदद्भुतमिवाऽभवत् ॥ २७ ॥ तद्दृष्ट्वा ऋषयो देवाः शक्राद्याः समरुद्गणाः । विश्वेश्विनौ लोकपालास्तूष्णीम्भूतास्तदाऽभवन् ॥ २८ ॥ केचिद्विष्णुं प्रभुं तत्र प्रार्थयन्तः समन्ततः । उद्विग्ना मन्त्रयन्तश्च विघ्नाभावं मुहुर्मुहुः ॥ २९ ॥ सुविचार्योदर्कफलं महोद्विग्नाःसुबुद्धयः । सुरविष्ण्वादयोभूवनस्तन्नाशाद्रावणान्मुहुः ॥ ३० ॥ एवम्भूतस्तदा यज्ञो विघ्नो जातो दुरात्मनः । ब्रह्मबन्धोश्च दक्षस्य शंकरद्रोहिणो मुने ॥ ३१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने सतीदेहत्यागोपद्रववर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥ श्रीगौरीशंकरार्पणमस्तु |