|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
अष्टाविंशोध्यायः ॥
सतीयात्रावर्णनम्
ब्रह्मोवाच
यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः । तस्मिन्नैवान्तरे देवो पर्वते गन्धमादने ॥ १ ॥ धारागृहे वितानेन सखीभिः परिवारिता । दाक्षायणी महाक्रीडाश्चकार विविधाः सती ॥ २ ॥ क्रीडासक्ता तदा देवी ददर्शाथ मुदा सती । दक्षयज्ञे प्रयान्तीं तां रोहिण्याऽपृच्छ्य सत्वरम् ॥ ३ ॥ दृष्ट्वा सीमन्तया भूतां विजयां प्राह सा सती । स्वसखीं प्रवरां प्राणप्रियां सा हि हितावहाम् ॥ ४ ॥ सत्युवाच हे सखीप्रवरे प्राणप्रिये त्वं विजये मम । क्व गमिष्यति चन्द्रोऽयं रोहिणीं पृच्छ सत्वरम् ॥ ५ ॥ ब्रह्मोवाच तथोक्ता विजया सत्या गत्वा तत्सन्निधौ द्रुतम् । क्व गच्छसीति पप्रच्छ शशिनं तं यथोचितम् ॥ ६ ॥ विजयोक्तमथाकर्ण्य स्वयात्रां पूर्वमादरात् । कथितं तेन तत्सर्वं दक्षयज्ञोत्सवादिक म् ॥ ७ ॥ तच्छ्रुत्वा विजया देवीं त्वरिता जातसम्भ्रमा । कथयामास तत्सर्वं यदुक्तं शशिना सतीम् ॥ ८ ॥ तच्छ्रुत्वा कालिका देवी विस्मिताभूत्सती तदा । विमृश्य कारणं तत्राऽज्ञात्वा चेतस्यचिन्तयत् ॥ ९ ॥ दक्षः पिता मे माता च वीरिणी नो कुतः सती । आह्वानं न करोति स्म विस्मृता मां प्रियां सुताम् ॥ १० ॥ पृच्छेयं शंकरं तत्र कारणं सर्वमादरात् । चिन्तयित्वेति सासीद्वै तत्र गन्तुं सुनिश्चया ॥ ११ ॥ अथ दाक्षायणी देवी विजयां प्रवरां सखीम् । स्थापयित्वा द्रुतं तत्र समगच्छच्छिवान्तिकम् ॥ १२ ॥ ददर्श तं सभामध्ये संस्थितं बहुभिर्गणैः । नन्द्यादिभिर्महावीरैः प्रवरैर्यूथयूथपैः ॥ १३ ॥ दृष्ट्वा तं प्रभुमीशानं स्वपतिं साथ दक्षजा । प्रष्टुं तत्कारणं शीघ्रं प्राप शंकरसंनिधिम् ॥ १४ ॥ शिवेन स्थापिता स्वाङ्के प्रीतियुक्तेन स्वप्रिया । प्रमोदिता वचोभिःसा बहुमानपुरःसरम् ॥ १५ ॥ अथ शम्भुर्महालीलः सर्वेशः सुखदः सताम् । सतीमुवाच त्वरितं गणमध्यस्थ आदरात् ॥ १६ ॥ शम्भुरुवाच किमर्थमागताऽत्र त्वं सभामध्ये सविस्मया । कारणं तस्य सुप्रीत्या शीघ्रं वद सुमध्यमे ॥ १७ ॥ ब्रह्मोवाच एवमुक्ता तदा तेन महेशेन मुनीश्वर । साञ्जलिः सुप्रणम्याशु सत्युवाच प्रभुं शिवा ॥ १८ ॥ सत्युवाच पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् । तत्रोत्सवो महानस्ति समवेताः सुरर्षयः ॥ १९ ॥ पितुर्मम महायज्ञे कस्मात्तव न रोचते । गमनं देवदेवेश तत्सर्वं कथय प्रभो ॥ २० ॥ सुहृदामेष वै धर्मःसुहृद्भिः सह सङ्गतिः । कुर्वन्ति यन्महादेव सुहृदः प्रीतिवर्द्धिनीम् ॥ २१ ॥ तस्मात्सर्वप्रयत्नेन मयागच्छ सह प्रभो । यज्ञवाटं पितुर्मेद्य स्वामिन् प्रार्थनया मम ॥ २२ ॥
ब्रह्मोवाच
तस्यास्तद्वचनं श्रुत्वा सत्या देवो महेश्वरः । दक्ष वागिषुहृद्विद्धो बभाषे सूनृतं वचः ॥ २३ ॥ महेश्वर उवाच दक्षस्तव पिता देवी मम द्रोही विशेषतः ॥ २४ ॥ यस्य ये मानिनःसर्वे ससुरर्षिमुखाः परे । ते मूढा यजनं प्राप्ताः पितुस्ते ज्ञानवर्जिताः ॥ २५ ॥ अनाहूताश्च ये देवी गच्छन्ति परमन्दिरम् । अवमानं प्राप्नुवन्ति मरणादधिकं तथा ॥ २६ ॥ परालयं गतोऽपीन्द्रो लघुर्भवति तद्विधः । का कथा च परेषां वै रीढा यात्रा हि तद्विधा ॥ २७ ॥ तस्मात् त्वया मया चापि दक्षस्य यजनं प्रति । न गन्तव्यं विशेषेण सत्यमुक्तं मया प्रियं ॥ २८ ॥ तथारिभिर्न व्यथते ह्यर्दितोऽपि शरैर्जनः । स्वानां दुरुक्तिभिर्मर्म ताडितः स यथा मतः ॥ २९ ॥ विद्यादिभिर्गुणैः षड्भिरसदन्यैः सतां स्मृतौ । हतायां भूयसां धाम न पश्यन्ति खलाः प्रिये ॥ ३० ॥ ब्रह्मोवाच एवमुक्ता सती तेन महेशेन महात्मना । उवाच रोषसंयुक्ता शिवं वाक्यविदां वरम् ॥ ३१ ॥ सत्युवाच यज्ञःस्यात्सफलो येन स त्वं शम्भोऽखिलेश्वर । अनाहूतोऽसि तेनाद्य पित्रा मे दुष्टकारिणा ॥ ३२ ॥ तत्सर्वं ज्ञातुमिच्छामि भव भावं दुरात्मनः । सुरर्षीणां च सर्वेषामागतानां दुरात्मनाम् ॥ ३३ ॥ तस्माच्चाद्यैव गच्छामि स्वपितुर्यजनं प्रभो । अनुज्ञां देहि मे नाथ तत्र गन्तुं महेश्वर ॥ ३४ ॥ ब्रह्मोवाच इत्युक्तौ भगवान् रुद्रस्तया देव्या शिवः स्वयम् । विज्ञाताखिलदृक् द्रष्टा सतीं सूतिकरोऽब्रवीत् ॥ ३५ ॥ शिव उवाच यद्येवं ते रुचिर्देवि तत्र गन्तुमवश्यकम् । सुव्रते वचनान्मे त्वं गच्छ शीघ्रं पितुर्मखम् ॥ ३६ ॥ एतं नन्दिनमारुह्य वृषभं सज्जमादरात् । महाराजोपचाराणि कृत्वा बहुगुणान्विता ॥ ३७ ॥ भूषितं वृषमारोहेत्युक्ता रुद्रेण सा सती । सुभूषिता सती युक्ता ह्यगमत्पितुमन्दिरम् ॥ ३८ ॥ महाराजोपचाराणि दत्तानि परमात्मना । सुच्छत्रचामरादीनि सद्वस्त्राभरणानि च ॥ ३९ ॥ गणाः षष्टिसहस्राणि रौद्रा जग्मुः शिवाज्ञया । कुतूहलयुताः प्रीता महोत्सवसमन्विताः ॥ ४० ॥ तदोत्सवो महानासीद्यजने तत्र सर्वतः । सत्याः शिवप्रियायास्तु वामदेवगणैः कृतः ॥ ४१ ॥ कुतूहलं गणाश्चक्रुः शिवयोर्यश उज्जगुः । बालान्तः पुप्लुवुः प्रीत्या महावीराः शिवप्रियाः ॥ ४२ ॥ सर्वथाऽऽसीन्महाशोभा गमने जागदम्बिके । सुखारावःसम्बभूव पूरितं भुवनत्रयम् ॥ ४३ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीयात्रावर्णनं नामाष्टाविंशोध्यायः ॥ २८ ॥ श्रीगौरीशंकरार्पणमस्तु |