|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
सप्तविंशोऽध्यायः ॥
दक्षयज्ञारम्भः
ब्रह्मोवाच
एकदा तु मुने तेन यज्ञः प्रारम्भितो महान् । तत्राहूतास्तदा सर्वे दीक्षितेन सुरर्षयः ॥ १ ॥ महर्षयोऽखिलास्तत्र निर्जराश्च समागताः । यद्यज्ञकरणार्थं हि शिवमायाविमोहिताः ॥ २ ॥ अगस्त्यः कश्यपोऽत्रिश्च वामदेवस्तथा भृगुः । दधीचिर्भगवान् व्यासो भारद्वाजोऽथ गौतमः ॥ ३ ॥ पैलः पराशरो गर्गो भार्गवः ककुभः सितः । सुमन्तुत्रिककङ्काश्च वैशम्पायन एव च ॥ ४ ॥ एते चान्ये च बहवो मुनयो हर्षिता ययु । मम पुत्रस्य दक्षस्य सदाराः ससुता मखम् ॥ ५ ॥ तथा सर्वे सुरगणा लोकपाला महोदयाः । तथोपनिर्जराः सर्वे स्वोपकारबलान्विताः ॥ ६ ॥ सत्यलोकात्समानीतो नुतोऽहं विश्वकारकः । ससुतः सपरीवारो मूर्तवेदादिसंयुतः ॥ ७ ॥ वैकुण्ठाच्च तथा विष्णुः सम्प्रार्थ्य विविधादरात् । सपार्षदपरीवारः समानीतो मखं प्रति ॥ ८ ॥ एवमन्ये समायाता दक्षयज्ञं विमोहिताः । सत्कृतास्तेन दक्षेन सर्वे ते हि दुरात्मना ॥ ९ ॥ भवनानि महार्हाणि सुप्रभाणि महान्ति च । त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ॥ १० ॥ तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च संस्थिताः । सन्मानिता अराजंस्ते सकला विष्णुना मया ॥ ११ ॥ वर्त्तमाने महायज्ञे तीर्थे कनखले तदा । ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः ॥ १२ ॥ अधिष्ठाता स्वयं विष्णुःसह सर्वमरुद्गणैः । अहं तत्राऽभवं ब्रह्मा त्रयीविधिनिदर्शकः ॥ १३ ॥ तथैव सरवे दिक्पाला द्वारपालाश्च रक्षकाः । सायुधाःसपरीवाराः कुतूहलकराःसदा ॥ १४ ॥ उपतस्थे स्वयं यज्ञः सुरूपस्तस्य चाध्वरे । सर्वे महामुनिश्रेष्ठाः स्वयं वेदधराऽभवन् ॥ १५ ॥ तनूनपादपि निजं चक्रे रूपं सहस्रशः । हविषा ग्रहणायाशु तस्मिन् यज्ञे महोत्सवे ॥ १६ ॥ अष्टाशीतिसहस्राणि जुह्वति सह ऋत्विजः । उद्गातारश्चतुःषष्टि सहस्राणि सुरर्षयः ॥ १७ ॥ अध्वर्यवोऽऽथ होतारस्तावन्तो नारदादयः । सप्तर्षयः समा गाथाः कुर्वन्ति स्म पृथक्पृथक् ॥ १८ ॥ गन्धर्वविद्याधरसिद्धसङ्घा- नादित्यसङ्घान् सगणान् सयज्ञान् । सङ्ख्यावरान्नागचरान् समस्तान् वव्रे स दक्षो हि महाध्वरे स्वे ॥ १९ ॥ द्विजर्षिराजर्षिसुरर्षिसङ्घा नृपाःसमित्राः सचिवाःस सैन्याः । वसुप्रमुख्या गणदेवताश्च सर्वे वृतास्तेन मखोपवेत्त्राः ॥ २० ॥ दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः । भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ॥ २१ ॥ तस्मिन् यज्ञे वृतः शम्भुर्न दक्षेण दुरात्मना । कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ॥ २२ ॥ कपालिभार्येति सती दयिता स्वसुतापि च । नाहूता यज्ञविषये दक्षेणागुणदर्शिना ॥ २३ ॥ एवं प्रवर्तमाने हि दक्षयज्ञे महोत्सवे । स्वकार्यलग्नास्तत्रासन् सर्वे तेऽध्वरसंमताः ॥ २४ ॥ एतस्मिन्नन्तरे तत्रादृष्ट्वा वै शंकरं प्रभुम् । प्रोद्विग्नमानसः शैवो दधीचो वाक्यमब्रवीत् ॥ २५ ॥ दधीच उवाच सर्वे शृणुत मद्वाक्यं देवर्षिप्रमुखा मुदा । कस्मान्नैवागतः शम्भुरस्मिन् यज्ञे महोत्सवे ॥ २६ ॥ एते सुरेशा मुनयो महत्तराः सलोकपालाश्च समागता हि । तथापि यज्ञस्तु न शोभते भृशं पिनाकिना तेन महात्मना विना ॥ २७ ॥ येनैव सर्वाण्यपि मंगलानि भवन्ति शंसन्ति महाविपश्चितः । सोऽसौ न दृष्टोऽत्र पुमान् पुराणो वृषध्वजो नीलगलः परेशः ॥ २८ ॥
अमंगलान्येव च मंगलानि भवन्ति येनाधिगतानि दक्षः । त्रिपञ्चकेनाप्यथ मंगलानि भवन्ति सद्यः परतः पुराणि ॥ २९ ॥ तस्मात्त्वयैव कर्तव्यमाह्वानं परमेशितुः । त्वरितं ब्रह्मणा वापि विष्णुना प्रभुविष्णुना ॥ ३० ॥ इन्द्रेण लोकपालैश्च द्विजैः सिद्धैः सहाधुना । सर्वथाऽऽनयनीयोऽसौ शंकरो यज्ञपूर्त्तये ॥ ३१ ॥ सर्वैर्भवद्भिर्गन्तव्यं यत्र देवो महेश्वरः । दाक्षायण्या समं शम्भुमानयध्वं त्वरान्विताः ॥ ३२ ॥ तेन सर्वं पवित्रं स्याच्छम्भुना परमात्मना । अत्रागतेन देवेशाः साम्बेन परमात्मना ॥ ३३ ॥ यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् । तस्मात्सर्वप्रयत्नेन ह्यानेतव्यो वृषध्वजः ॥ ३४ ॥ समागते शंकरेऽत्र पावनो हि भवेन्मखः । भविष्यत्यन्यथाऽपूर्णः सत्यमेतद्ब्रवीम्यहम् ॥ ३५ ॥ ब्रह्मोवाच तस्य तद्वचनं श्रुत्वा दक्षो रोषसमन्वितः । उवाच त्वरितं मूढः प्रहसन्निव दुष्टधीः ॥ ३६ ॥ मूलं विष्णुर्देवतानां यत्र धर्मः सनातनः । समानीतो मया सम्यक् किमूनं यज्ञकर्मणि ॥ ३७ ॥ यस्मिन्वेदाश्च यज्ञाश्च कर्माणि विविधानि च । प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः ॥ ३८ ॥ सत्यलोकात्समायातो ब्रह्मा लोकपितामहः । वेदैःसोपनिषद्भिश्च विविधैरागमैः सह ॥ ३९ ॥ तथा सुरगणैः साकमागतःसुरराट् स्वयम् । तथा यूयं समायाता ऋषयो वीतकल्मषाः ॥ ४० ॥ ये ये यज्ञोचिताः शान्ताः पात्रभूताः समागताः । वेदवेदार्थतत्त्वज्ञाः सर्वे यूयं दृढव्रताः ॥ ४१ ॥ अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम् । कन्या दत्ता मया विप्र ब्रह्मणा नोदितेन हि ॥ ४२ ॥ हरोऽकुलीनोऽसौ विप्र पितृमातृविवर्जितः । भूतप्रेतपिशाचानां पतिरेको दुरत्ययः ॥ ४३ ॥ आत्मसम्भावितो मूढ स्तब्धो मौनी समत्सरः । कर्मण्यस्मिन्न योग्योऽसौ नानीतो हि मयाऽधुना ॥ ४४ ॥ तस्मात्त्वयेदृशं वाक्यं पुनर्वाच्यं न हि क्वचित् । सर्वेर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान् ॥ ४५ ॥ ब्रह्मोवाच एतच्छ्रुत्वा वचस्तस्य दधीचो वाक्यमब्रवीत् । सर्वेषां शृण्वतां देवमुनीनां सारसंयुतम् ॥ ४६ ॥ दधीच उवाच अयज्ञोऽयं महाजातो विना तेन शिवेन हि । विनाशोऽपि विशेषेण ह्यत्र ते हि भविष्यति ॥ ४७ ॥ एवमुक्त्वा दधीचोऽसावेक एव विनिर्गतः । यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ ॥ ४८ ॥ ततोन्ये शाङ्करा ये च मुख्याः शिवमतानुगाः । निर्ययुः स्वाश्रमान् सद्यः शापं दत्त्वा तथैव च ॥ ४९ ॥ मुनौ विनिर्गते तस्मिन् मखादन्येषु दुष्टधीः । शिवद्रोही मुनीन् दक्षः प्रहसन्निदमब्रवीत् ॥ ५० ॥ दक्ष उवाच गतः शिवप्रियो विप्रो दधीचो नाम नामतः । अन्ये तथाविधा ये च गतास्ते मम चाध्वरात् ॥ ५१ ॥ एतच्छुभतरं जातं संमतं मे हि सर्वथा । सत्यं ब्रवीमि देवेश सुराश्च मुनयस्तथा ॥ ५२ ॥ विनष्टचित्ता मन्दाश्च मिथ्यावादरताः खलाः । वेदबाह्या दुराचारास्त्याज्यास्ते मखकर्मणि ॥ ५३ ॥ वेदवादरता यूयं सर्वे विष्णुपुरोगमाः । यज्ञं मे सफलं विप्राः सुराः कुर्वन्तु माऽचिरम् ॥ ५४ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्य शिवमायाविमोहिताः । यन्मखे देवयजनं चक्रुःसर्वे सुरर्षयः ॥ ५५ ॥ इति तन्मखशापो हि वर्णितो मे मुनीश्वर । यज्ञविध्वंसयोगोऽपि प्रोच्यते शृणु सादरम् ॥ ५६ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे यज्ञप्रारम्भो नाम सप्तविंशोऽध्यायः ॥ २७ ॥ श्रीगौरीशंकरार्पणमस्तु |