|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
षड्विंशोऽध्यायः ॥
शिवसतीवियोगः
ब्रह्मोवाच
पुराभवच्च सर्वेषामध्वरो विधिना महान् । प्रयागे समवेतानां मुनीनां च महात्मनाम् ॥ १ ॥ तत्र सिद्धाः समाख्याताः सनकाद्याः सुरर्षयः । सप्रजापतयो देवा ज्ञानिनो ब्रह्मदर्शिनः ॥ २ ॥ अहं समागतस्तत्र परिवारसमन्वितः । निगमैरागमैर्युक्तो मूर्तिमद्भिर्महाप्रभैः ॥ ३ ॥ समाजोऽभूद्विचित्रो हि तेषामुत्सवसंयुतः । ज्ञानवादोऽभवत्तत्र नानाशास्त्र समुद्भवः ॥ ४ ॥ तस्मिन्नवसरे रुद्रः सभवानीगणः प्रभुः । त्रिलोकहितकृत्स्वामी तत्रागात्सूतिकृन्मुने ॥ ५ ॥ दृष्ट्वा शिवं सुराः सर्वे सिद्धाश्च मुनयस्तथा । अनमंस्तं प्रभुं भक्त्या तुष्टुवुश्च तथा ह्यहम् ॥ ६ ॥ तस्थुः शिवाज्ञया सर्वे यथास्थानं मुदान्विताः । प्रभुदर्शनसन्तुष्टा वर्णयन्तो निजं विधिम् ॥ ७ ॥ तस्मिन्नवसरे दक्षः प्रजापतिपतिः प्रभुः । आगमत्तत्र सुप्रीतः सुवर्चस्वी यदृच्छया ॥ ८ ॥ मां प्रणम्य स दक्षो हि न्युष्टस्तत्र मदाज्ञया । ब्रह्माण्डाधिपतिर्मान्यो मानी तत्त्वबहिर्मुखः ॥ ९ ॥ स्तुतिभिः प्रणिपातैश्च दक्षः सर्वैः सुरर्षिभिः । पूजितो वरतेजस्वी करौ बध्वा विनम्रकैः ॥ १० ॥ नानाविहारकृन्नाथः स्वतन्त्र परमोतिकृत् । नानामत्तं तदा दक्षं स्वासनस्थो महेश्वरः ॥ ११ ॥ दृष्टाऽऽनतं हरं तत्र स मे पुत्रोऽप्रसन्नधीः । अकुपत्सहसा रुद्रे तदा दक्षः प्रजापतिः ॥ १२ ॥ क्रूरदृष्ट्या महागर्वो दृष्ट्वा रुद्रं महाप्रभुम् । सर्वान्संश्रावयन्नुच्चैरवोचज्ज्ञानवर्जितः ॥ १३ ॥ दक्षौवाच एते हि सर्वे च सुरासुरा भृशं नमन्ति मां विप्रवरास्तथर्षयः । कथं ह्यसौ दुर्जनवन्महामना त्वभूत्तु यः प्रेतपिशाचसंवृतः ॥ १४ ॥ श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना । लुप्तक्रियो भूतपिशाचसेवितो मत्तोऽविधो नीतिविदूषकःसदा ॥ १५ ॥ पाखण्डिनं दुर्जनपापशीलं दृष्ट्वा द्विजं प्रोद्धतनिन्दकञ्च । वध्वां सदासक्तरतिप्रवीणं तस्मादमुं शप्तुमहं प्रवृत्तः ॥ १६ ॥ ब्रह्मोवाच इत्येवमुक्त्वा स महाखलस्तदा रुषान्वितो रुद्रमिदं ह्यवोचत् । शृण्वन्त्वमी विप्रवरास्तथा सुरा वध्यं हि मे चार्हथ कर्तुमेतम् ॥ १७ ॥ दक्ष उवाच रुद्रो ह्ययं यज्ञबहिष्कृतो मे वर्णेष्वतीतोऽथ विवर्णरूपः । देवैर्न भागं लभतां सहैव श्मशानवासी कुलजन्महीनः ॥ १८ ॥ ब्रह्मोवाच इति दक्षोक्तमाकर्ण्य भृग्वाद्या बहवो जनाः । अगर्हयन् दुष्टसत्त्वं रुद्रं मत्त्वामरैः समम् ॥ १९ ॥ नन्दी निशम्य तद्वाक्यं लालाक्षोऽतिरुषान्वितः । अब्रवीत्त्वरितं दक्षं शापं दातुमना गणः ॥ २० ॥ नन्दीश्वर उवाच रे रे शठ महा मूढ दक्ष दुष्टमते त्वया । यज्ञबाह्यो हि मे स्वामी महेशो हि कृतः कथम् ॥ २१ ॥ यस्य स्मरणमात्रेण भवन्ति सफला मखाः । तीर्थानि च पवित्राणि सोऽयं शप्तो हरः कथम् ॥ २२ ॥ वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते । वृथोपहसितश्चैवादुष्टो रुद्रो महा प्रभुः ॥ २३ ॥ येनेदं पाल्यते विश्वं सृष्टमन्ते विनाशितम् । शप्तोयं स कथं रुद्रो महेशो ब्राह्मणाधम ॥ २४ ॥ एवं निर्भत्सितस्तेन नन्दिना हि प्रजापतिः । नन्दिनं च शशापाथ दक्षो रोषसमन्वितः ॥ २५ ॥
दक्ष उवाच यूयं सर्वे रुद्रगणा वेदबाह्या भवन्तु वै । वेदमार्गपरित्यक्तास्तथा त्यक्ता महर्षिभिः ॥ २६ ॥ पाखण्डवादनिरताः शिष्टाचारबहिष्कृताः । मदिरापाननिरता जटा भस्मास्थिधारिणः ॥ २७ ॥ ब्रह्मोवाच इति शप्तास्तथा तेन दक्षेण शिवकिङ्कराः । तच्छ्रुत्वातिरुषाविष्टोभवन्नन्दी शिवप्रियः ॥ २८ ॥ प्रत्युवाच द्रुतं पक्षं गर्वितं तं महाखलम् । शिलादतनयो नन्दी तेजस्वी शिववल्लभः ॥ २९ ॥ नन्दीश्वर उवाच रे दक्ष शठ दुर्बुद्धे वृथैव शिवकिङ्कराः । शप्तास्ते ब्रह्मचापल्याच्छिवतत्त्वमजानता ॥ ३० ॥ भृग्वाद्यैर्दुष्टचित्तैश्च मूढैःस उपहासितः । महाप्रभुर्महेशानो ब्राह्मणत्वादहंमते ॥ ३१ ॥ ये रुद्रविमुखाश्चात्र ब्राह्मणास्त्वादृशाः खलाः । रुद्रतेजःप्रभावत्वात्तेषां शापं ददाम्यहम् ॥ ३२ ॥ वेदवादरता यूयं वेदतत्त्वबहिर्मुखाः । भवन्तु सततं विप्रा नान्यदस्तीति वादिनः ॥ ३३ ॥ कामात्मानः स्वर्गपराः क्रोधलोभमदान्विताः । भवन्तु सततं विप्रा भिक्षुका निरपत्रपाः ॥ ३४ ॥ वेदमार्गं पुरस्कृत्य ब्राह्मणाः शूद्रयाजिनः । दरिद्रा वै भविष्यन्ति प्रतिग्रहरताः सदा ॥ ३५ ॥ असत्प्रतिग्रहाश्चैव सर्वे निरयगामिनः । भविष्यन्ति सदा दक्ष केचिद्वै ब्रह्मराक्षसाः ॥ ३६ ॥ यः शिवं सुरसामान्यमुद्दिश्य परमेश्वरम् । द्रुह्यत्यजो दुष्टमतिस्तत्त्वतो विमुखो भवेत् ॥ ३७ ॥ कूटधर्मेषु गेहेषु सदा ग्राम्यसुखेच्छया । कर्मतन्त्रं वितनुता वेदवादं च शाश्वतम् ॥ ३८ ॥ विनष्टानन्दकमुखो विस्मृतात्मगतिः पशुः । भ्रष्टकर्मानयरतो दक्षो वस्तमुखोऽचिरात् ॥ ३९ ॥ शप्तास्ते कोपिना तत्र नन्दिना ब्राह्मणा यदा । हाहाकारो महानासीच्छप्तो दक्षेण चेश्वरः ॥ ४० ॥ तदाकर्ण्यामहत्यन्तमनिन्दं तं मुहुर्मुहुः । भृग्वादीनपि विप्रांश्च वेदसृट् शिव तत्त्ववित् ॥ ४१ ॥ ईश्वरोपि वचः श्रुत्वा नन्दिनः प्रहसन्निव । उवाच मधुरं वाक्यं बोधयंस्तं सदाशिवः ॥ ४२ ॥ सदाशिव उवाच शृणु नन्दिन् महाप्राज्ञ न कर्तुं क्रोधमर्हसि । वृथा शप्तं ब्रह्मकुलं मत्वा शप्तं च मां भ्रमात् ॥ ४३ ॥ वेदो मन्त्राक्षरमयः साक्षात्सूक्तमयो भृशम् । सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम् ॥ ४४ ॥ तस्मादात्मविदो नित्यं त्वं मा शप रुषान्वितः । शप्या न वेदाः केनापि दुर्द्धियाऽपि कदाचन ॥ ४५ ॥ अहं शप्तो न चेदानीं तत्त्वतो बोद्धुमर्हसि । शान्तो भव महाधीमन् सनकादिविबोधकः ॥ ४६ ॥ यज्ञोऽहं यज्ञकर्माहं यज्ञाङ्गानि च सर्वशः । यज्ञात्मा यज्ञनिरतो यज्ञबाह्योऽहमेव वै ॥ ४७ ॥ कोयं कस्त्वमिमे के हि सर्वोहमपि तत्त्वतः । इति बुद्ध्या हि विमृश वृथा शप्तास्त्वया द्विजाः ॥ ४८ ॥ तत्त्वज्ञानेन निर्हृत्य प्रपञ्चरचनो भव । बुधःस्वस्थो महाबुद्धे नन्दिन् क्रोधादिवर्जितः ॥ ४९ ॥ ब्रह्मोवाच एवं प्रबोधितस्तेन शम्भुना नन्दिकेश्वरः । विवेकपरमो भूत्वा शान्तोऽभूत्क्रोधवर्जितः ॥ ५० ॥ शिवोऽपि तं प्रबोध्याशु स्वगणं प्राणवल्लभम् । सगणःस ययौ तस्मात्स्वस्थानं प्रमुदान्वितः ॥ ५१ ॥ दक्षोऽपि स रुषाऽऽविष्टस्तैर्द्विजैः परिवारितः । स्वस्थानं च ययौ चित्ते शिवद्रो हपरायणः ॥ ५२ ॥ रुद्रं तदानीं परिशप्यमानं संस्मृत्य दक्षः परया रुषान्वितः । श्रद्धां विहायैव स मूढबुद्धि- र्निन्दापरोऽभूच्छिवपूजकानाम् ॥ ५३ ॥ इत्युक्तो दक्षदुर्बुद्धिः शम्भुना परमात्मना । परां दुर्धिषणां तस्य शृणु तात वदाम्यहम् ॥ ५४ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीयखण्डे सत्युपाख्याने शिवेन दक्षविरोधो नाम षड्विंशोऽध्यायः ॥ २६ ॥ श्रीगौरीशंकरार्पणमस्तु |