॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

पञ्चविंशोऽध्यायः ॥

शिवसतीवियोगः


राम उवाच
एकदा हि पुरा देवि शम्भुः परमसूतिकृत् ।
विश्वकर्माणमाहूय स्वलोके परतः परे ॥ १ ॥
तेन स्वधेनुशालायां कारयामास विस्तृतम् ।
रम्यं च भवनं सम्यक् तत्र सिंहासनं वरम् ॥ २ ॥
तत्र छत्रं महादिव्यं सर्वदाऽद्‌भुतमुत्तमम् ।
कारयामास विघ्नार्थं शङ्‌करो विश्वकर्मणा ॥ ३ ॥
शक्रादीनां जुहावाशु समस्तान् देवतागणान् ।
सिद्धगन्धर्वनागादीनुपदेशांश्च कृत्स्नशः ॥ ४ ॥
देवान् सर्वानागमांश्च विधिपुत्रान्मुनीनपि ।
देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः ॥ ५ ॥
देवानां च तथर्षीणां सिद्धानां फणिनामपि ।
आनयन् मङ्‌गलकराः कन्याः षोडश षोडश ॥ ६ ॥
वीणामृदङ्‌गप्रमुखवाद्यान्नानाविधान् मुने ।
उत्सवं कारयामास वादयित्वा सुगायनैः ॥ ७ ॥
राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैः
प्रत्यक्षतीर्थपाथोभिः पञ्चकुम्भांश्च पूरितान् । ८ ॥
तथान्यां संविधा दिव्या आनयत्स्वगणैस्तदा ।
ब्रह्मघोषं महारावं कारयामास शङ्‌करः ॥ ९ ॥
अथो हरिं समाहूय वैकुण्ठात्प्रीतमानसः ।
तद्‌भक्त्या पूर्णया देवि मोदतिस्म महेश्वरः ॥ १० ॥
सुमुहूर्ते महादेवस्तत्र सिंहासने वरे ।
उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः ॥ ११ ॥
आबद्धरम्यमुकुटं कृतकौतुकमङ्‌गलम् ।
अभ्यषिञ्चन्महेशस्तु स्वयं ब्रह्माण्डमण्डपे ॥ १२ ॥
दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत् ।
ततस्तुष्टाव तं शम्भुः स्वतन्त्रो भक्तवत्सलः ॥ १३ ॥
ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम् ।
व्यापयन्स्वं वराधीनं स्वतन्त्रो भक्तवत्सलः ॥ १४ ॥
महेश उवाच
अतः प्रभृति लोकेश मन्निदेशादयं हरिः ।
मम वन्द्यः स्वयं विष्णुर्जातःसर्वः शृणोति हि ॥ १५ ॥
सर्वैर्देवादिभिस्तात प्रणमत्वममुं हरिम् ।
वर्णयन्तु हरिं वेदा ममैते मामिवाज्ञया ॥ १६ ।
राम उवाच
इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम् ।
विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः ॥ १७ ॥
ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा ।
मुनिसिद्धादिभिश्चैवं वन्दितोभूद्धरिस्तदा ॥ १८ ॥
ततो महेशो हरयेऽशंसद्दिविषदां तदा ।
महावरान् सुप्रसन्नो धृतवान्भक्तवत्सलः ॥ १९ ॥
महेश उवाच
त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया ।
दाता धर्मार्थकामानां शास्ता दुर्णयकारिणाम् ॥ २० ॥
जगदीशो जगत्पूज्यो महाबलपराक्रमः ।
अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि ॥ २१ ॥
शक्तित्रयं गृहाण त्वमिच्छादिप्रापितं मया ।
नानालीलाप्रभावत्वं स्वतन्त्रत्वं भवत्रये ॥ २२ ॥
त्वद्‍द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ।
त्वद्‌भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ॥ २३ ॥
मायां चापि गृहाणेमां दुष्प्रणोद्यां सुरादिभिः ।
यया संमोहितं विश्वमचिद्‌रूपं भविष्यति ॥ २४ ॥
मम बाहुर्मदीयस्तं दक्षिणोऽसौ विधिर्हरे ।
अस्यापि हि विधेः पाता जनितापि भविष्यसि ॥ २५ ॥
हृदयं मम यो रुद्रः स एवाहं न संशयः ।
पूज्यस्तव सदा सोऽपि ब्रह्मादीनामपि ध्रुवम् ॥ २६ ॥
अत्र स्थित्वा जगत्सर्वं पालय त्वं विशेषतः ।
नानावतारभेदैश्च सदा नानोतिकर्तृभिः ॥ २७ ॥
मम लोके तदेवं वै स्थानं च परमर्द्धिमत् ।
गोलोक इति विख्यातं भविष्यति महोज्ज्वलम् ॥ २८ ॥
भविष्यन्ति हरे ये तेऽवतारा भुवि रक्षकाः ।
मद्‌भक्तास्तान् ध्रुवं प्रीताः पश्यन्तिस्म निजाद्वरात् ॥ २९ ॥
राम उवाच
अखण्डैश्वर्यमासाद्य हरेरित्थं हरःस्वयम् ।
कैलासे स्वगणैस्तस्मिन् स्वैरं क्रीडत्युमापतिः ॥ ३० ॥
तदाप्रभृति लक्ष्मीशो गोपवेषोऽभवत्तथा ।
अयासीत्तत्र सुप्रीत्या गोपगोपोगवां पतिः ॥ ३१ ॥
सोऽपि विष्णुः प्रसन्नात्मा जुगोप निखिलं जगत् ।
नानावतारसन्धर्ताऽवनकर्ता शिवाज्ञया ॥ ३२ ॥
इदानीं स चतुर्द्धात्रावातरच्छङ्‌कराज्ञया ।
रामोहं तत्र भरतो लक्ष्मणः शत्रुहेति च ॥ ३३ ॥
अथ पित्राज्ञया देवि ससीतालक्ष्मणः सति ।
आगतोहं वने चाद्य दुःखितौ दैवतोऽभवम् ॥ ३४ ॥
निशाचरेण मे जाया हृता सीतेति केनचित् ।
अन्वेष्यामि प्रियां चात्र विरही बन्धुना वने ॥ ३५ ॥
दर्शनं ते यदि प्राप्तं सर्वथा कुशलं मम ।
भविष्यति न सन्देहो मातस्ते कृपया सति ॥ ३६ ॥
सीताप्राप्तिवरं देवि भविष्यति न संशयः ।
तं हत्वा दुःखदं पापं राक्षसं त्वदनुग्रहात् ॥ ३७ ॥
महद्‌भाग्यं ममाद्यैव यद्यकार्ष्टां कृपां युवाम् ।
यस्मिन् सकरुणौ स्यातां स धन्यः पुरुषो वरः ॥ ३८ ॥
इत्थमाभाष्य बहुधा सुप्रणम्य सतीं शिवाम् ।
तदाज्ञया वने तस्मिन् विचचार रघूद्वहः ॥ ३९ ॥
अथाकर्ण्य सती वाक्यं रामस्य प्रयतात्मनः ।
हृष्टाऽभूत्सा प्रशंसन्तं शिवभक्तिरतं हृदि ॥ ४० ॥
स्मृत्वा स्वकर्म मनसाऽकार्षीच्छोकं सुविस्तरम् ।
प्रत्यगच्छदुदासीना विवर्णा शिवसन्निधौ ॥ ४१ ॥
पथि साचिन्तयद् देवी सञ्चलन्ती पुनः पुनः ।
नाङ्‌गीकृतं शिवोक्तं मे रामं प्रति कुधीः कृता ॥ ४२ ॥
किमुत्तरमहं दास्ये गत्वा शङ्‌करसन्निधौ ।
इति सञ्चिन्त्य बहुधा पश्चात्तापोऽभवत्तदा ॥ ४३ ॥
गत्वा शम्भुसमीपं च प्रणनाम शिवं हृदा ।
विषण्णवदना शोकव्याकुला विगतप्रभा ॥ ४४ ॥
अथ तां दुःखितां दृष्ट्‍वा पप्रच्छ कुशलं हरः ।
प्रोवाच वचनं प्रीत्या तत्परीक्षा कृता कथम् ॥ ४५ ॥
श्रुत्वा शिववचो नाहं किमपि प्रणतानना ।
सती शोकविषण्णा सा तस्थौ तत्र समीपतः ॥ ४६ ॥
अथ ध्यात्वा महेशस्तु बुबोध चरितं हृदा ।
दक्षजाया महायोगी नानालीलाविशारदः ॥ ४७ ॥
सस्मार स्वपणं पूर्वं यत्कृतं हरिकोपतः ।
तत्प्रार्थितोथ रुद्रोऽसौ मर्यादा प्रतिपालकः ॥ ४८ ॥
विषादोऽभूत्प्रभोस्तत्र मनस्येवमुवाच ह ।
धर्मवक्ता धर्मकर्त्ता धर्मावनकरः सदा ॥ ४९ ॥
शिव उवाच
कुर्यां चेद्दक्षजायां हि स्नेहं पूर्वं यथा महान् ।
नश्येन्मम पणः शुद्धो लोकलीलानुसारिणः ॥ ५० ॥
ब्रह्मोवाच
इत्थं विचार्य बहुधा हृदा तामत्यजत्सतीम् ।
पणं न नाशयामास वेदधर्मप्रपालकः ॥ ५१ ॥
ततो विहाय मनसा सतीं तां परमेश्वरः ।
जगाम स्वगिरिं भेदं जगावद्धा स हि प्रभुः ॥ ५२ ॥
चलन्तं पथि तं व्योमवाण्युवाच महेश्वरम् ।
सर्वान् संश्रावयंस्तत्र दक्षजां च विशेषतः ॥ ५३ ॥
व्योमवाण्युवाच
धन्यस्त्वं परमेशान त्वत्समोऽद्य तथा पणः ।
न कोप्यन्यस्त्रिलोकेऽस्मिन् महायोगी महाप्रभुः ॥ ५४ ॥
ब्रह्मोवाच
श्रुत्वा व्योमवचो देवी शिवं पप्रच्छ विप्रभा ।
कं पणं कृतवान्नाथ ब्रूहि मे परमेश्वर ॥ ५५ ॥
इति पृष्टोपि गिरिशः सत्या हितकरः प्रभुः ।
नोद्वाहं स्वं पणं तस्यै यद्धर्यग्रेऽकरोत्पुरा ॥ ५६ ॥
तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम् ।
सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने ॥ ५७ ॥
ततोऽतीव शुशोचाशु बुध्वा सा त्यागमात्मनः ।
शम्भुना दक्षजा तस्मान्निःश्वसन्ती मुहुर्मुहुः ॥ ५८ ॥
शिवस्तस्याः समाज्ञाय गुप्तं चक्रे मनोभवम् ।
सत्ये पणं स्वकीयं हि कथा बह्वीर्वदन् प्रभुः ॥ ५९ ॥
सत्या प्राप स कैलासं कथयन् विविधाः कथा ।
वरे स्थित्वा निजं रूपं दधौ योगी समाधिभृत् ॥ ६० ॥
तत्र तस्थौ सतीधाम्नि महाविषण्णमानसा ।
न बुबोध चरित्रं तत्कश्चिच्च शिवयोर्मुने ॥ ६१ ॥
महान्कालो व्यतीयाय तयोरित्थं महामुने ।
स्वोपात्तदेहयोः प्रभ्वोर्लोकलीलानुसारिणोः ॥ ६२ ॥
ध्यानं तत्याज गिरिशस्ततः स परमोतिकृत् ।
तज्ज्ञात्वा जगदम्बा हि सती तत्राजगाम सा ॥ ६३ ॥
ननामाथ शिवं देवी हृदयेन विदूयता ।
आसनं दत्तवाञ्शम्भुः स्वसन्मुख उदारधीः ॥ ६४ ॥
कथयामास सुप्रीत्या कथा बह्वीर्मनोरमाः ।
निः शोका कृतवान् सद्यो लीलां कृत्वा च तादृशीम् ॥ ६५ ॥
पूर्ववत्सा सुखं लेभे तत्याज स्वपणं न सः ।
नेत्याश्चर्यं शिवे तात मन्तव्यं परमेश्वरे ॥ ६६ ॥
इत्थं शिवाशिवकथां वदन्ति मुनयो मुने ।
किल केचिदविद्वांसो वियोगश्च कथं तयोः ॥ ६७ ॥
शिवाशिवचरित्रं को जानाति परमार्थतः ।
स्वेच्छया क्रीडतस्तौ हि चरितं कुरुतःसदा ॥ ६८ ॥
वागर्थाविव सम्पृक्तौ सदा खलु सतीशिवौ ।
तयोर्वियोगःसम्भाव्यःसम्भवेदिच्छया तयोः ॥ ६९ ॥
इति श्रीशिवमहापुराणे द्द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे सतीवियोगो नाम पञ्चविंशोऽध्यायः ॥ २५ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP