|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
चतुर्विंशोऽध्यायः ॥
रामपरीक्षावर्णनम्
नारद उवाच
ब्रह्मन् विधे प्रजानाथ महाप्राज्ञ कृपाकर । श्रावितं शङ्करयशःसतीशङ्करयोः शुभम् ॥ १ ॥ इदानीं ब्रूहि सत्प्रीत्या परं तद्यश उत्तमम् । किमकार्ष्टां हि तत्स्थौ वै चरितं दम्पती शिवौ ॥ २ ॥ ब्रह्मोवाच सतीशिवचरित्रं च शृणु मे प्रेमतो मुने । लौकिकीं गतिमाश्रित्य चिक्रीडाते सदान्वहम् ॥ ३ ॥ ततः सती महादेवी वियोगमलभन्मुने । स्वपतेः शङ्करस्येति वदन्त्येके सुबुद्धयः ॥ ४ ॥ वागर्थाविव सम्पृक्तौ शक्तीशौ सर्वदा चितौ । कथं घटेत च तयोर्वियोगस्तत्त्वतो मुने ॥ ५ ॥ लीलारुचित्वादथवा सङ्घटेताऽखिलं च तत् । कुरुते यद्यदीशौ च सतीशौ भवरीतिगौ ॥ ६ ॥ सा त्यक्ता दक्षजा दृष्ट्वा पतिना जनकाध्वरे । शम्भोरनादरात्तत्र देहं तत्याज सङ्गता ॥ ७ ॥ पुनर्हिमालये सैवाविर्भूता नामतः सती । पार्वतीति शिवं प्राप तप्त्वा भूरि विवाहतः ॥ ८ ॥ सूत उवाच इत्याकर्ण्य वचस्तस्य ब्रह्मणः स तु नारदः । पप्रच्छ च विधातारं शिवाशिवमहद्यशः ॥ ९ ॥ नारद उवाच विष्णुशिष्य महाभाग विधे मे वद विस्तरात् । शिवाशिवचरित्रं तद्भवाचार परानुगम् ॥ १० ॥ किमर्थं शङ्करो जायां तत्याज प्राणतः प्रियाम् । तस्मादाचक्ष्व मे तात विचित्रमिति मन्महे ॥ ११ ॥ कुतोऽध्वरजपुत्रस्यानादरोभूच्छिवस्य ते । कथं तत्याज सा देहं गत्वा तत्र पितुः क्रतौ ॥ १२ ॥ ततः किमभवत्तत्र किमकार्षीन्महेश्वरः । तत्सर्वं मे समाचक्ष्व श्रद्धायुक् तच्छ्रुतावहम् ॥ १३ ॥ ब्रह्मोवाच शृणु तात परप्रीत्या मुनिभिः सह नारद । सुतवर्य महाप्राज्ञ चरितं शशिमौलिनः ॥ १४ ॥ नमस्कृत्य महेशानं हर्यादिसुरसेवितम् । परब्रह्म प्रवक्ष्यामि तच्चरित्रं महाद्भुतम् ॥ १५ ॥ सर्वेयं शिवलीला हि बहुलीलाकरः प्रभुः । स्वतन्त्रो निर्विकारी च सती सापि हि तद्विधा ॥ १६ ॥ अन्यथा कः समर्थो हि तत्कर्मकरणे मुने । परमात्मा परब्रह्म स एव परमेश्वरः ॥ १७ ॥ यं सदा भजते श्रीशोऽहं चापि सकलाः सुराः । मुनयश्च महात्मानः सिद्धाश्च सनकादयः ॥ १८ ॥ शेषः सदा यशो यस्य मुदा गायति नित्यशः । पारं न लभते तात स प्रभुः शङ्करः शिवः ॥ १९ ॥ तस्यैव लीलया सर्वोऽयमिति तत्त्वविभ्रमः । तत्र दोषो न कस्यापि सर्वव्यापी स प्रेरकः ॥ २० ॥ एकस्मिन्समये रुद्रः सत्या त्रिभुवने भवः । वृषमारुह्य पर्याटद्रसां लीलाविशारदः ॥ २१ ॥ आगत्य दण्डकारण्यं पर्यटन् सागराम्बराम् । दर्शयंस्तत्रगां शोभां सत्यै सत्यपणः प्रभुः ॥ २२ ॥ तत्र रामं ददर्शासौ लक्ष्मणेनान्वितं हरः । अन्विष्यन्तं प्रियां सीतां रावणेन हृतां छलात् ॥ २३ ॥ हा सीतेति प्रोच्चरन्तं विरहाविष्टमानसम् । यतस्ततश्च पश्यन्तं रुदन्तं हि मुहुर्मुहुः ॥ २४ ॥ समिच्छन्तं च तत्प्राप्तिं पृच्छन्तं तद्गतिं हृदा । कुजादिभ्यो नष्टधियमत्रपं शोकविह्वलम् ॥ २५ ॥ सूर्यवंशोद्भवं वीरं भूपं दशरथात्मजम् । भरताग्रजमानन्दरहितं विगतप्रभम् ॥ २६ ॥ पूर्णकामों वराधीनं प्राणमत्स्म मुदा हरः । रामं भ्रमन्तं विपिने सलक्ष्मणमुदारधीः ॥ २७ ॥ जयेत्युक्त्वाऽन्यतो गच्छन्नदात्तस्मै स्वदर्शनम् । रामाय विपिने तस्मिन् शङ्करो भक्तवत्सलः ॥ २८ ॥ इतीदृशीं सतीं दृष्ट्वा शिवलीलां विमोहनीम् । सुविस्मिता शिवं प्राह शिवमायाविमोहिता ॥ २९ ॥ सत्युवाच देव देव परब्रह्म सर्वेश परमेश्वर । सेवन्ते त्वां सदा सर्वे हरिब्रह्मादयःसुराः ॥ ३० ॥ त्वं प्रणम्यो हि सर्वेषां सेव्यो ध्येयश्च सर्वदा । वेदान्तवेद्यो यत्नेन निर्विकारी परप्रभुः ॥ ३१ ॥
काविमौ पुरुषौ नाथ विरहव्याकुलाकृती । विचरन्तौ वने क्लिष्टौ दीनौ वीरौ धनुर्धरौ ॥ ३२ ॥ तयोर्ज्येष्ठं कञ्जश्यामं दृष्ट्वा वै केन हेतुना । मुदितः सुप्रसन्नात्माऽभवो भक्त इवाधुना ॥ ३३ ॥ इति मे संशयं स्वामिञ्शङ्कर श्रोतुमर्हसि । सेव्यस्य सेवके नैव घटते प्रणतिः प्रभो ॥ ३४ ॥ ब्रह्मोवाच आदिशक्तिः सती देवी शिवा सा परमेश्वरी । शिवमायावशीभूत्वा पप्रच्छेत्थं शिवं प्रभुम् ॥ ३५ ॥ तदाकर्ण्य वचःसत्याः शङ्करः परमेश्वरः । तदा विहस्य स प्राह सतीं लीलाविशारदः ॥ ३६ परमेश्वर उवाच शृणु देवि सति प्रीत्या यथार्थं वच्मि नच्छलम् । वरदानप्रभावात्तु प्रणामं चैवमादरात् ॥ ३७ ॥ रामलक्ष्मणनामानौ भ्रातरौ वीरसम्मतौ । सूर्यवंशोद्भवौ देवि प्राज्ञौ दशरथात्मजौ ॥ ३८ ॥ गौरवर्णौ लघुर्बन्धुः शेषेशो लक्ष्मणाभिधः । ज्येष्ठो रामाभिधो विष्णुः पूर्णांशो निरुपद्रवः ॥ ३९ ॥ अवतीर्णं क्षितौ साधुरक्षणाय भवाय नः । इत्युक्त्वा विररामाऽसौ शम्भुस्मृतिकरः प्रभुः ॥ ४० ॥ श्रुत्वाऽपीत्थं वचः शम्भोर्न विशश्वास तन्मनः । शिवमाया बलवती सैव त्रैलोक्यमोहिनी ॥ ४१ ॥ अविश्वस्तं मनो ज्ञात्वा तस्याः शम्भुः सनातनः । अवोचद्वचनं चेति प्रभुलीलाविशारदः ॥ ४२ ॥ शिव उवाच शृणु मद्वचनं देवि न विश्वसिति चेन्मनः । तव रामपरिक्षां हि कुरु तत्र स्वया धिया ॥ ४३ ॥ विनश्यति यथा मोहस्तत्कुरु त्वं सति प्रिये । गत्वा तत्र स्थितस्तावद्वटे भव परीक्षिका ॥ ४४ ॥ ब्रह्मोवाच शिवाज्ञया सती तत्र गत्वाऽचिन्तयदीश्वरी । कुर्यां परीक्षां च कथं रामस्य वनचारिणः ॥ ४५ ॥ सीतारूपमहं धृत्वा गच्छेयं रामसन्निधौ । यदि रामो हरिः सर्वं विज्ञास्यति न चान्यथा ॥ ४६ ॥ इत्थं विचार्य सीता सा भूत्वा रामसमीपतः । आगमत्तत्परीक्षार्थं सती मोहपरायणा ॥ ४७ ॥ सीतारूपां सतीं दृष्ट्वा जपन्नाम शिवेति च । विहस्य तत्प्रविज्ञाय नत्वाऽवोचद्रघूद्वहः ॥ ४८ ॥ राम उवाच प्रेमतस्त्वं सति ब्रूहि क्व शम्भुस्ते नमो गतः । एकाकी विपिने कस्मादागता पतिना विना ॥ ४९ ॥ त्यक्त्वा स्वरूपं कस्मात्ते धृतं रूपमिदं सति । ब्रूहि तत्कारणं देवि कृपां कृत्वा ममोपरि ॥ ५० ॥ ब्रह्मोवाच इति रामवचः श्रुत्वा चकिताऽऽसीत्सती तदा । स्मृत्वा शिवोक्तं मत्वा चावितथं लज्जिता भृशम् ॥ ५१ ॥ रामं विज्ञाय विष्णुं तं स्वरूपं संविधाय च । स्मृत्वा शिवपदं चित्ते सत्युवाच प्रसन्नधीः ॥ ५२ ॥ शिवो मया गणैश्चैव पर्यटन् वसुधां प्रभुः । इहागच्छच्च विपिने स्वतन्त्रः परमेश्वरः ॥ ५३ ॥ अपश्यदत्र स त्वां हि सीतान्वेषणतत्परम् । सलक्ष्मणं विरहिणं सीतया श्लिष्टमानसम् ॥ ५४ ॥ नत्वा त्वां सगतो मूले वटस्य स्थित एव हि । प्रशंसन् महिमानं ते वैष्णवं परमं मुदा ॥ ५५ ॥ चतुर्भुजं हरिं त्वां नो दृष्ट्वैव मुदितोऽभवत् । यथेदं रूपममलं पश्यन्नानन्दमाप्तवान् ॥ ५६ ॥ तच्छ्रुत्वा वचनं शम्भौर्भ्रममानीय चेतसि । तदाज्ञया परीक्षा ते कृतवत्यस्मि राघव ॥ ५७ ॥ ज्ञातं मे राम विष्णुस्त्वं दृष्टा ते प्रभुताऽखिला । निःसशंया तदापि त्वं शृणु तच्च महामते ॥ ५८ ॥ कथं प्रणम्यस्त्वं तस्य सत्यं ब्रूहि ममाग्रतः । कुरु निःसंशयां त्वं मां शमलं प्राप्नुहि द्रुतम् ॥ ५९ ॥ ब्रह्मोवाच इत्याकर्ण्य वचस्तस्या रामश्चोत्फुल्ललोचनः । अस्मरत्स्वं प्रभुं शम्भुं प्रेमाभूद्धृदि चाधिकम् ॥ ६० ॥ सती विनाज्ञया शम्भुसमीपं नागमन्मुने । संवर्ण्य महिमानं च प्रावोचद्राघवः सतीम् ॥ ६१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे रामपरीक्षावर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ श्रीगौरीशंकरार्पणमस्तु |