|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
त्रयोविंशोऽध्यायः ॥
भक्तिप्रभाववर्णनम्
ब्रह्मोवाच
एवं कृत्वा विहारं वै शङ्करेण च सा सती । सन्तुष्टा साभवच्चाति विरागा समजायत ॥ १ ॥ एकस्मिन्दिवसे देवी सती रहसि सङ्गता । शिवं प्रणम्य सद्भक्त्या न्यस्योच्चैः सुकृताञ्जलिः ॥ २ ॥ सुप्रसन्नं प्रभुं नत्वा सा दक्षतनया सती । उवाच साञ्जलिर्भक्त्या विनयावनता ततः ॥ ३ ॥ सत्युवाच देवदेव महादेव करुणासागर प्रभो । दीनोद्धर महायोगिन् कृपां कुरु ममोपरि ॥ ४ ॥ त्वं परः पुरुषःस्वामी रजःसत्त्वतमः परः । निर्गुणः सगुणः साक्षी निर्विकारी महाप्रभुः ॥ ५ ॥ धन्याहं ते प्रिया जाता कामिनी सुविहारिणी । जातस्त्वं मे पतिः स्वामिन्भक्तिवात्सल्यतो हर ॥ ६ ॥ कृतो बहुसमा नाथ विहारः परमस्त्वया । सन्तुष्टाहं महेशान निवृत्तं मे मनस्ततः ॥ ७ ॥ ज्ञातुमिच्छामि देवेश परं तत्त्वं सुखावहम् । यं न संसारदुःखाद्वै तरेज्जीवोऽञ्जसा हर ॥ ८ ॥ यत्कृत्वा विषयी जीवः स लभेत्परमं पदम् । संसारी न भवेन्नाथ तत्त्वं वद कृपां कुरु ॥ ९ ॥ ब्रह्मोवाच इत्यपृच्छत्स्म सद्भक्त्या शङ्करं सा सती मुने । आदिशक्तिर्महेशानी जीवोद्धाराय केवलम् ॥ १० ॥ आकर्ण्य तच्छिवः स्वामी स्वेच्छयोपात्तविग्रहः । अवोचत्परमप्रीतःसतीं योगविरक्तधीः ॥ ११ ॥ शिव उवाच शृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि । परं तत्त्वं तदेवानुशयी मुक्तो भवेद्यतः ॥ १२ ॥ परतत्त्वं विजानीहि विज्ञानं परमेश्वरी । द्वितीयं स्मरणं यत्र नाहं ब्रह्मेति शुद्धधीः ॥ १३ ॥ तद्दुर्लभं त्रिलोकेस्मिंस्तज्ज्ञाता विरलः प्रिये । यादृशो यः स दासोऽहं ब्रह्मसाक्षात्परात्परः ॥ १४ ॥ तन्माता मम भक्तिश्च भुक्तिमुक्तिफलप्रदा । सुलभा मत्प्रसादाद्धि नवधा सा प्रकीर्तिता ॥ १५ ॥ भक्तौ ज्ञाने न भेदो हि तत्कर्तुः सर्वदा सुखम् । विज्ञानं न भवत्येव सति भक्तिविरोधिनः ॥ १६ ॥ भक्त्याधीनः सदाहं वै तत्प्रभावाद्गृहेष्वपि । नीचानां जातिहीनानां यामि देवि न संशयः ॥ १७ ॥ सा भक्तिर्द्विविधा देवि सगुणा निर्गुणा मता । वैधी स्वाभाविकी या या वरा सा त्ववरा स्मृता ॥ १८ ॥ नैष्ठिक्यनैष्ठिकी भेदाद्द्विविधे द्विविधे हि ते । षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता ॥ १९ ॥ विहिताविहिताभेदात्तामनेकां विदुर्बुधाः । तयोर्बहुविधत्वाच्च तत्त्वं त्वन्यत्र वर्णितम् ॥ २० ॥ ते नवाङ्गे उभे ज्ञेये वर्णिते मुनिभिः प्रिये । वर्णयामि नवाङ्गानि प्रेमतः शृणु दक्षजे ॥ २१ ॥ श्रवणं कीर्तनं चैव स्मरणं सेवनं तथा । दास्यं तथाऽर्चनं देवि वन्दनं मम सर्वदा ॥ २२ ॥ सख्यमात्मार्पणं चेति नवाङ्गानि विदुर्बुधाः । उपाङ्गानि शिवे तस्या बहूनि कथितानि वै ॥ २३ ॥ शृणु देवि नवाङ्गानां लक्षणानि पृथक् पृथक् । मम भक्तेर्मनो दत्त्वा भक्ति मुक्तिप्रदानि हि ॥ २४ ॥ कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्मुदा । स्थिरासनेन तत्पानं यत्तच्छ्रवणमुच्यते ॥ २५ ॥ हृदाकाशेन सम्पश्यन् जन्मकर्माणि वै मम । प्रीत्योच्चोच्चारणं तेषामेतत्कीर्तनमुच्यते ॥ २६ ॥ व्यापकं देवि मां दृष्ट्वा नित्यं सर्वत्र सर्वदा । निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २७ ॥ अरुणोदयमारभ्य सेवाकालेऽञ्चिता हृदा । वाक्पाणिपादैस्तस्यार्चा सेवनं तदुदाहृतम् ॥ २८ ॥
सदा सेव्यानुकूल्येन सेवनं तद्धि गोगणैः । हृदयामृतभोगेन प्रियं दास्यमुदाहृतम् ॥ २९ ॥ सदा भृत्यनुकूल्येन विधिना मे परात्मने । अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ॥ ३० ॥ मन्त्रोच्चारणध्यानाभ्यां मनसा वचसा क्रमात् । यदष्टाङ्गेन भूस्पर्शं तद्वै वन्दनमुच्यते ॥ ३१ ॥ मङ्गलामङ्गलं यद्यत्करोतीतीश्वरो हि मे । सर्वं तन्मङ्गलायेति विश्वासः सख्यलक्षणम् ॥ ३२ ॥ कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम् । निर्वाहाय च शून्यत्वं यत्तदात्मसमर्पणम् ॥ ३३ ॥ नवाङ्गानीति मद्भक्तेर्भुक्तिमुक्तिप्रदानि च । मम प्रियाणि चातीव ज्ञानोत्पत्तिकराणि च ॥ ३४ ॥ उपाङ्गानि च मद्भक्तेर्बहूनि कथितानि वै । बिल्वादिसेवनादीनि समूह्यानि विचारतः ॥ ३५ ॥ इत्थं साङ्गोपाङ्गभक्तिर्मम सर्वोत्तमा प्रिये । ज्ञानवैराग्यजननी मुक्तिदासी विराजते ॥ ३६ ॥ सर्वकर्मफलोत्पत्तिः सर्वदा त्वत्समप्रिया । यच्चित्ते सा स्थिता नित्यं सर्वदा सोति मत्प्रियः ॥ ३७ ॥ त्रैलोक्ये भक्तिसदृशः पन्था नास्ति सुखावहः । चतुर्युगेषु देवेशि कलौ तु सुविशेषतः ॥ ३८ ॥ कलौ तु ज्ञानवैरागो वृद्धरूपौ निरुत्सवौ । ग्राहकाभावतो देवि जातौ जर्जरतामति ॥ ३९ ॥ कलौ प्रत्यक्षफलदा भक्तिः सर्वयुगेष्वपि । तत्प्रभावादहं नित्यं तद्वशो नात्र संशयः ॥ ४० ॥ यो भक्तिमान्पुमाँल्लोके सदाहं तत्सहायकृत् । विघ्नहर्ता रिपुस्तस्य दण्ड्यो नात्र च संशयः ॥ ४१ ॥ भक्तहेतोरहं देवि कालं क्रोधपरिप्लुतः । अदहं वह्निना नेत्रभवेन निजरक्षकः ॥ ४२ ॥ भक्तहेतोरहं देवि रव्युपर्यभवं किल । अतिक्रोधान्वितः शूलं गृहीत्वाऽन्वजयं पुरा । ४३ ॥ भक्तहेतोरहं देवि रावणं सगणं क्रुधा । त्यजति स्म कृतो नैव पक्षपातो हि तस्य वै ॥ ४४ ॥ भक्तहेतोरहं देवि व्यासं हि कुमतिग्रहम् । काश्या न्यसारयं क्रोधाद्दण्डयित्वा च नन्दिना ॥ ४५ ॥ किं बहूक्तेन देवेशि भक्त्याधीनः सदा ह्यहम् । तत्कर्तुः पुरुषस्यातिवशगो नात्र संशयः ॥ ४६ ॥ ब्रह्मोवाच इत्थमाकर्ण्य भक्तेस्तु महत्त्वं दक्षजा सती । जहर्षातीव मनसि प्रणनाम शिवं मुदा ॥ ४७ ॥ पुनः पप्रच्छ सद्भक्त्या तत्काण्डविषयं मुने । शास्त्रं सुखकरं लोके जीवोद्धारपरायणम् ॥ ४८ ॥ सयन्त्रमन्त्रशास्त्रं च तन्माहात्म्यं विशेषतः । अन्यानि धर्मवस्तूनि जीवोद्धारकराणि हि ॥ ४९ ॥ शङ्करोपि तदाकर्ण्य सतीं प्रश्नं प्रहृष्टधीः । वर्णयामास सुप्रीत्या जीवोद्धाराय कृत्स्नशः ॥ ५० ॥ तत्र शास्त्रं सयन्त्रं हि सपञ्चाङ्गं महेश्वरः । बभाषे महिमानं च तत्तद्दैववरस्य वै ॥ ५१ ॥ सेतिहासकथां तेषां भक्तमाहात्म्यमेव च । सवर्णाश्रमधर्मांश्च नृपधर्मान् मुनीश्वर ॥ ५२ ॥ सुतस्त्रीधर्ममाहात्म्यं वर्णाश्रममनश्वरम् । वैद्यशास्त्रं तथा ज्योतिःशास्त्रं जीवसुखावहम् ॥ ५३ ॥ सामुद्रिकं परं शास्त्रमन्यच्छास्त्राणि भूरिशः । कृपां कृत्वा महेशानो वर्णयामास तत्त्वतः ॥ ५४ ॥ इत्थं त्रिलोकसुखदौ सर्वज्ञौ च सतीशिवौ । लोकोपकारकरणौ धृतसद्गुणविग्रहौ ॥ ५५ ॥ चिक्रीडाते बहुविधे कैलासे हिमवद्गिरौ । अन्यस्थलेषु च तदा परब्रह्मस्वरूपिणौ ॥ ५६ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे भक्तिप्रभाववर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ श्रीगौरीशंकरार्पणमस्तु |