॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥

॥ श्रीशिवमहापुराणम् ॥

॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे

द्वाविंशोऽध्यायः ॥

शिवाशिवविहारवर्णनम्


ब्रह्मोवाच
कदाचिदथ दक्षस्य तनया जलदागमे ।
कैलासक्ष्माभृतः प्राह प्रस्थस्थं वृषभध्वजम् ॥ १ ॥
सत्युवाच
देव देव महादेव शम्भो मत्प्राणवल्लभ ।
शृणु मे वचनं नाथ श्रुत्वा तत्कुरु मानद ॥ २ ॥
घनागमोऽयं सम्प्राप्तः कालः परमदुःसहः ।
अनेकवर्णमेघौघः सङ्‌गीताम्बरदिक्चयाः ॥ ३ ॥
विवान्ति वाता हृदयं हारयन्तीत वेगिनः ।
कदम्बरजसा धौताः पाथोबिन्दुविकर्षणाः ॥ ४ ॥
मेघानां गर्जितैरुच्चैर्धारासारं विमुञ्चताम् ।
विद्युत्पताकिनां तीव्रैः क्षुब्धं स्यात्कस्य नो मनः ॥ ५ ॥
न सूर्यो दृश्यते नापि मेघच्छन्नो निशापतिः ।
दिवापि रात्रिवद्‌भाति विरहिव्यसनाकरः ॥ ६ ॥
मेघा नैकत्र तिष्ठन्तो ध्वनन्त पवनेरिताः ।
पतन्त इव लोकानां दृश्यन्ते मूर्ध्नि शङ्‌कर ॥ ७ ॥
वाताहता महावृक्षा नर्तन्त इव चाम्बरे ।
दृश्यन्ते हर भीरूणां त्रासदाः कामुकेप्सिता ॥ ८ ॥
स्निग्धनीलाञ्जनस्याशु सदिवौघस्य पृष्ठतः ।
बलाकराजी वात्युच्चैर्यमुनापृष्ठफेनवत् ॥ ९ ॥
क्षपायामीश वलयो दृश्यन्ते करभाश्रिताः ।
अम्बुधाविव सन्दीप्तपावको वडवामुखः ॥ १० ॥
प्रारोहन्तीह सस्यानि मन्दरे प्राङ्‌गणेष्वपि ।
किमन्यत्र विरूपाक्ष सस्योद्‌भूतिः वदाम्यहम् ॥ ११ ॥
श्यामलै राजतै रक्तैर्विशदोऽयं हिमाचलः ।
मन्दराश्रयमेघौघः पत्रैर्दुग्धाम्बुधिर्यथा ॥ १२ ॥
असमश्रीश्च कुटिलं भेजे यस्याथ किंशुकान् ।
उच्चावचान् कलौ लक्ष्मीर्गन्ता सन्त्यज्य सज्जनान् ॥ १३ ॥
मन्दराचलमेघानां शब्देन हृषिता मुहुः ।
केकायन्ते प्रतिवनं सततं पृष्ठसूचकम् ॥ १४ ॥
मेघोत्सुकानां मधुरश्चातकानां मनोहरः ।
धारासारशरैस्तापं पेतुः प्रतिपथोद्‌गतम् ॥ १५ ॥
मेघानां पश्य मद्देहे दुर्नयं करकोत्करैः ।
ये छादयन्त्यनुगते मयूरांश्चातकांस्तथा ॥ १६ ॥
शिखिसारङ्‌गयोर्दृष्ट्‍वा मित्रादपि पराभवम् ।
हर्षं गच्छन्ति गिरिशं विदूरमपि मानसम् ॥ १७ ॥
एतस्मिन्विषमे काले नीलं काकाश्चकोरकाः ।
कुर्वन्ति त्वां विना गेहान् कथं शान्तिमवाप्स्यसि ॥ १८ ॥
महतीवाद्य नो भीतिर्मा मेघोत्था पिनाकधृक् ।
यतस्व यस्माद्वासाय माचिरं वचनान्मम ॥ १९ ॥
कैलासे वा हिमाद्रौ वा महाकाश्यामथ क्षितौ ।
तत्रोपयोग्यं संवासं कुरु त्वं वृषभध्वज ॥ २० ॥
ब्रह्मोवाच
एवमुक्तस्तया शम्भुर्दाक्षायण्या तथाऽसकृत् ।
सञ्जहास च शीर्षस्थचन्द्ररश्मिस्मितालयम् ॥ २१ ॥
अथोवाच सतीं देवीं स्मिताभिन्नौष्ठसम्पुटः ।
महात्मा सर्वतत्त्वज्ञस्तोषयन्परमेश्वरः ॥ २२ ॥
ईश्वरः उवाच
यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे ।
मेघास्तत्र न गन्तारः कदाचिदपि मत्प्रिये ॥ २३ ॥
मेघा नितम्बपर्यन्तं सञ्चरन्ति महीभृतः ।
सदा प्रालेयसानोस्तु वर्षास्वपि मनोहरे ॥ २४ ॥
कैलासस्य तथा देवि पादगाः प्रायशो घनाः ।
सञ्चरन्ति न गच्छन्ति तत ऊर्ध्वं कदाचन ॥ २५ ॥
सुमेरोर्वा गिरेरूर्ध्वं न गच्छन्ति बलाहकाः ।
जम्बूमूलं समासाद्य पुष्करावर्तकादयः ॥ २६ ॥
इत्युक्तेषु गिरीन्द्रेषु यस्योपरि भवेद्धि ते ।
मनोरुचिर्निवासाय तमाचक्ष्व द्रुतं हि मे ॥ २७ ॥
स्वेच्छाविहारैस्तव कौतुकानि
     सुवर्णपक्षानिलवृन्दवृन्दैः ।
शब्दोत्तरङ्‌गैर्मधुरस्वनैस्तै-
     र्मुदोपगेयानि गिरौ हिमोत्थे ॥ २८ ॥
सिद्धाङ्‌गनास्ते रचितासना भुवं
     काङ्‍क्षन्ति चैवोपहृतं सकौतुकम् ।
स्वेच्छाविहारे मणिकुट्टिमे गिरौ
     कुर्वन्ति चेष्यन्ति फलादिदानकैः ॥ २९ ॥
फणीन्द्रकन्या गिरिकन्यकाश्च
     या नागकन्याश्च तुरङ्‌गमुख्याः ।
सर्वास्तु तास्ते सततं सहायतां
     समाचरिष्यन्त्यनुमोदविभ्रमैः ॥ ३० ॥
रूपं तदेवमतुलं वदनं सुचारु
     दृष्ट्‍वाङ्‌गना निजवपुर्निजकान्तिसह्यम् ।
हेला निजे वपुषि रूपगणेषु नित्यं
     कर्तार इत्यनिमिषेक्षणचारुरूपाः ॥ ३१ ॥
या मेनका पर्वतराजजाया
     रूपैर्गुणैः ख्यातवती त्रिलोके ।
सा चापि ते तत्र मनोनुमोदं
     नित्यं करिष्यत्यनुनाथनाद्यैः ॥ ३२ ॥
पुरस्थवर्गैर्गिरिराजवन्द्यैः
     प्रीतिं विचिन्वद्‌भिरुदाररूपा ।
शिक्षा सदा ते खलु शोचितापि
     कार्याऽन्वहं प्रीतियुता गुणाद्यैः ॥ ३३ ॥
विचित्रैः कोकिलालापामोदैः कुञ्जगणावृतम् ।
सदा वसन्तप्रभवं गन्तुमिच्छसि किं प्रिये ॥ ३४ ॥
नानाबहुजलापूर्णसरः शीतसमावृतम् ।
पद्मिनीशतशोयुक्तमचलेन्द्रं हिमालयम् ॥ ३५ ॥
सर्वकामप्रदैर्वृक्षैः शाद्वलैः कल्पसञ्ज्ञकैः ।
सक्षणं पश्य कुसुमान्यथाश्वकरिगोव्रजम् ॥ ३६ ॥
प्रशान्तश्वापदगणं मुनिभिर्यतिभिर्वृतम् ।
देवालयं महामाये नानामृगगणैर्युतम् ॥ ३७ ॥
स्फाटिकैः स्वर्णवप्राद्यै राजतैश्च विराजितम् ।
मानसादिसरोरङ्‌गैरभितः परिशोभितम् ॥ ३८ ॥
हिरण्मयै रत्ननालैः पङ्‌कजैर्मुकुलैर्वृतम् ।
शिशुमारैस्तथासङ्‌ख्यैः कच्छपैर्मकरैः करैः ॥ ३९ ॥
निषेवितं मञ्जुलैश्च तथा नीलोत्पलादिभिः ।
देवेशि तस्मान्मुक्तैश्च सर्वगन्धैश्च कुङ्‌कुमैः ॥ ४० ॥
लसद्‌गन्धजलैः शुभ्रैरापूर्णैः स्वच्छकान्तिभिः ।
शाद्वलैस्तरुणैस्तुङ्‌गैस्तीरस्थैरुपशोभितम् ॥ ४१ ॥
नृत्यद्‌भिरिव शाखोटैर्वर्जयन्तं स्वसम्भवम् ।
कामदेवैः सारसैश्च मत्तचक्राङ्‌गशोभितैः ॥ ४२ ॥
मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः ।
शब्दायमानं च मुदा कामोद्दीपनकारकम् ॥ ४३ ॥
वासवस्य कुबेरस्य यमस्य वरुणस्य च ।
अग्नेः कोणपराजस्य मारुतस्य परस्य च ॥ ४४ ॥
पुरीभिः शोभिशिखरं मेरोरुच्चैः सुरालयम् ।
रम्भाशचीमेनकादिरम्भोरुगणसेवितम् ॥ ४५ ॥
किं त्वमिच्छसि सर्वेषां पर्वतानां हि भूभृताम् ।
सारभूते महारम्ये संविहर्तुं महागिरौ ॥ ४६ ॥
तत्र देवी सखियुता साप्सरोगणमण्डिता ।
नित्यं करिष्यति शची तव योग्यां सहायताम् ॥ ४७ ॥
अथवा मम कैलासे पर्वतेन्द्रे सदाश्रये ।
स्थानमिच्छसि वित्तेशपुरीपरिविराजिते ॥ ४८ ॥
गङ्‌गाजलौघप्रयते पूर्णचन्द्रसमप्रभे ।
दरीषु सानुषु सदा ब्रह्मकन्याभ्युदीरिते ॥ ४९ ॥
नानामृगगणैर्युक्ते पद्माकरशतावृते ।
सर्वैर्गुणैश्च सद्वस्तु सुमेरोरपि सुन्दरि ॥ ५० ॥
स्थानेष्वेतेषु यत्रापि तवान्तःकरणे स्पृहा ।
तं द्रुतं मे समाचक्ष्व वासकर्तास्मि तत्र ते ॥ ५१ ॥
ब्रह्मोवाच
इतीरिते शङ्‌करेण तदा दाक्षायणी शनैः ।
इदमाह महादेवं लक्षणं स्वप्रकाशनम् ॥ ५२ ॥
सत्युवाच
हिमाद्रावेव वसतुमहमिच्छे त्वया सह ।
न चिरात्कुरु संवासं तस्मिन्नेव महागिरौ ॥ ५३ ॥
ब्रह्मोवाच
अथ तद्वाक्यमाकर्ण्य हरः परममोहितः ।
हिमाद्रिशिखरं तुङ्‌गं दाक्षायण्या समं ययौ ॥ ५४ ॥
सिद्धाङ्‌गनागणयुतमगम्यं चैव पक्षिभिः ।
अगमच्छिखरं रम्यं सरसीवनराजितम् ॥ ५५ ॥
विचित्ररूपैः कमलैः शिखरं रत्नकर्बुरम् ।
बालार्कसदृशं शम्भुराससाद सतीसख ॥ ५६ ॥
स्फटिकाभ्रमये तस्मिन् शादवलद्रुमराजिते ।
विचित्रपुष्पावलिभिः सरसोभिश्च संयुते ॥ ५७ ॥
प्रफुल्लतरुशाखाग्रं गुञ्जद्‌भ्रमरसेवितम् ।
पङ्‌केरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा ॥ ५८ ॥
शोभितं चक्रवाकाद्यैः कादम्बैर्हंससङ्‌कुलैः ।
प्रमत्तसारसैः क्रौञ्चैर्नीलस्कन्धैश्च शब्दितैः ॥ ५९ ॥
पुंस्कोकिलानां निनदैर्मधुरैर्गणसेवितैः ।
तुरङ्‌गवदनैः सिद्धैरप्सरोभिश्च गुच्छकैः ॥ ६० ॥
विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम् ।
पुरन्ध्रीभिः पार्वतीभिः कन्याभिरभिसङ्‌गतम् ॥ ६१ ॥
विपञ्चीतान्त्रिकामत्तमृदङ्‌गपटहस्वनैः ।
नृत्यद्‌भिरप्सरोभिश्च कौतुकोत्थैश्च शोभितम् ॥ ६२ ॥
देविकाभिर्दीर्घिकाभिर्गन्धिभिः सुसमावृतम् ।
प्रफुल्लकुसुमैर्नित्यं सकुञ्जैरुपशोभितम् ॥ ६३ ॥
शैलराजपुराभ्यर्णे शिखरे वृषभध्वजः ।
सह सत्या चिरं रेमे एवम्भूतेषु शोभनम् ॥ ६४ ॥
तस्मिन्स्वर्गसमे स्थाने दिव्यमानेन शङ्‌करः ।
दशवर्षसहस्राणि रेमे सत्या समं मुदा ॥ ६५ ॥
स कदाचित्ततः स्थानादन्यद्याति स्थलं हरः ।
कदाचिन्मेरुशिखरं देवी देववृतं सदा ॥ ६६ ॥
द्वीपान्नाना तथोद्यानवनानि वसुधातलम् ।
गत्वागत्वा पुनस्तत्राभ्येत्य रेमे सतीसुखम् ॥ ६७ ॥
न जज्ञे स दिवा रात्रौ न ब्रह्मणि तपःसमम् ।
सत्यां हि मनसा शम्भुः प्रीतिमेव चकार ह ॥ ६८ ॥
एवं महादेवमुखं सत्यपश्यत्स्म सर्वदा ।
महादेवोऽपि सर्वत्र सदाऽद्राक्षीत्सतीमुखम् ॥ ६९ ॥
एवमन्योन्यसंसर्गादनुरागमहीरुहम् ।
वर्द्धयामासतुः कालीशिवौ भावाम्बुसेचनैः ॥ ७० ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये
सतीखण्डे शिवाशिवविहारवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥



श्रीगौरीशंकरार्पणमस्तु


GO TOP