|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
एकविंशोऽध्यायः ॥
सतीशिवक्रीडावर्णनम्
नारद उवाच
समीचीनं वचस्तात सर्वज्ञस्य तवाऽनघ । महाद्भुतं श्रुतं नो वै चरितं शिवयोः शुभम् ॥ १ ॥ विवाहश्च श्रुतःसम्यक् सर्वमोहापहारकः । परमज्ञानसम्पन्नो मङ्गलालय उत्तमः ॥ २ ॥ भूय एव विवित्सा मे चरितं शिवयोः शुभम् । तद्वर्णय महाप्राज्ञ कृपां कृत्वाऽतुलामरम् ॥ ३ ॥ ब्रह्मोवाच सम्यक्कारुणिकस्यैव मुने ते विचिकित्सितम् । यदहं नोदितः सौम्य शिवलीलानुवर्णने ॥ ४ ॥ विवाह्य दक्षजां देवीं सतीं त्रैलोक्यमातरम् । गत्वा स्वधाम सुप्रीत्या यदकार्षीन्निबोध मे ॥ ५ ॥ ततो हरःस स्वगणः स्वस्थानं प्राप्य मोदनम । देवर्षे तत्र वृषभादवातरदतिप्रियात् ॥ ६ ॥ यथायोग्यं निजस्थानं प्रविश्य स सतीसखः । मुमुदेऽतीव देवर्षे भवाचारकरः शिवः ॥ ७ ॥ ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् । स्वीयान्निर्यापयामास नन्द्यादीन् गिरिकन्दरात् ॥ ८ ॥ उवाच चैतांस्तान् सर्वान्नन्द्यादीनतिसूनृतम् । लौकिकीं रीतिमाश्रित्य करुणासागरः प्रभुः ॥ ९ ॥ महेश उवाच यदाहं च स्मराम्यत्र स्मरणादरमानसाः । समागमिष्यथ तदा मत्पार्श्वे मे गणा द्रुतम् ॥ १० ॥ इत्युक्ते वामदेवेन नद्याद्याः स्वगणाश्च ते । महावेगा महावीरा नानास्थानेषु संययुः ॥ ११ ॥ ईश्वरोपि तया सार्द्धं तेषु यातेषु विभ्रमी । दाक्षायण्या समं रेमे रहस्ये मुदितो भृशम् ॥ १२ ॥ कदाचिद्वन्यपुष्पाणि समाहृत्य मनोहराम् । मालां विधाय सत्यास्तु हारस्थाने स योजयत् ॥ ३ ॥ कदाचिद्दर्पणे चैव वीक्षतीमात्मनः सतीम् । अनुगम्य हरो वक्त्रम् स्वीयमप्यवलोकयत् ॥ १४ ॥ कदाचित्कुण्डलं तस्या उल्लास्योल्लास्य सङ्गतः । बध्नाति मोचयत्येव सा स्वयं मार्जयत्यपि ॥ १५ ॥ सरागौ चरणावस्याः पावकेनोज्ज्वलेन च । निसर्गरक्तौ कुरुते पूर्णरागौ वृषध्वजः ॥ १६ ॥ उच्चैरपि यदाख्येयमन्येषां पुरतो बहु । तत् कर्णे कथयत्यस्या हरो द्रष्टुं तदाननम् ॥ १७ ॥ न दूरमपि गन्ताऽसौ समागत्य प्रयत्नतः । अनुबध्नाति नामाक्षी पृष्ठदेशेऽन्यमानसाम् ॥ १८ ॥ अन्तर्हितस्तु तत्रैव मायया वृषभध्वजः । तामालिलिङ्ग भीत्या स्वं चकिता व्याकुलाऽभवत् ॥ १९ ॥ सौवर्णपद्मकलिकातुल्ये तस्या कुचद्वये । चकार भ्रमराकारं मृगनाभिविशेषकम् ॥ २० ॥ हारमस्याः कुचयुगाद्वियोज्य सहसा हरः । न्ययोजयच्च तत्रैव स्वकरस्पर्शनं मुहुः ॥ २१ ॥ अङ्गदान्वलयानूर्मीन्विश्लेष्य च पुनः पुनः । तत्स्थानात्पुनरेवासौ तत्स्थाने प्रत्ययोजयत् ॥ २२ ॥ कालिकेति समायाति सवर्णा ते सखी त्विमाम् । यास्यत्वस्यास्तथेक्षन्त्याः प्रोत्तुङ्गौ साहसं कुचौ ॥ २३ ॥ कदाचिन्मदनोन्मातचेतनः प्रमथाधिपः । चकार नर्म शर्माणि तथाकृत्प्रियया मुदा ॥ २४ ॥
आहृत्य पद्मपुष्पाणि रम्यपुष्पाणि शङ्करः । सर्वाङ्गेषु करोति स्म पुष्पाभरणमादरात् ॥ २५ ॥ गिरिकुञ्जेषु रम्येषु सत्या सह महेश्वरः । विजहार समस्तेषु प्रियया भक्तवत्सलः ॥ २६ ॥ तया विना स्म नो याति नास्थितो न स्म चेष्टते । तया विना क्षणमपि शर्म लेभे न शङ्करः ॥ २७ ॥ विहृत्य सुचिरं कालं कैलासगिरिकुञ्जरे । अगमद्धिमवत्प्रस्थं सस्मार स्वेच्छया स्मरन् ॥ २८ ॥ तस्मिन्प्रविष्टे कामे तु वसन्तः शङ्करान्तिके । वितस्तार निजं भावं हार्दं विज्ञाय यत्प्रभो ॥ २९ ॥ सर्वे च पुष्पिता वृक्षा लताश्चान्याश्च पुष्पिताः। अम्भांसि फुल्लपद्मानि पद्माः सभ्रमरास्तथा । ३० ॥ प्रविष्टे तत्र सदृतौ ववौ समलयो मरुत् । सुगन्धिगन्धपुष्पेण मोदकश्च सुगन्धियुक् ॥ ३१ ॥ सन्ध्यार्द्रचन्द्रसङ्काशाः पलाशाश्च विरेजिरे । कामास्त्रवत्सुमनसः प्रमोदात्पादपाधरः ॥ ३२ ॥ बभुः पङ्कजपुष्पाणि सरःसु सङ्कलाञ्जनान् । संमोहयितुमुद्युक्ता सुमुखी वायुदेवता ॥ ३३ ॥ नागकेशरवृक्षाश्च स्वर्णवर्णैः प्रसूनकैः । बभुर्मदनकेत्वाम्रा मनोज्ञाः शङ्करान्तिके ॥ ३४ ॥ लवङ्गवल्ली सुरभिगन्धेनोद्वास्य मारुतम् । मोहयामास चेतांसि भृशं कामिजने पुरा ॥ ३५ ॥ चारुचर्चितभृङ्ग्गौघाः सुस्वराश्चूतशालिनः । बभुर्मदनबाणौघपर्यङ्कमदनावृताः ॥ ३६ ॥ अम्भांसि मलहीनानि रेजुः फुल्लकुशाशयाः । मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमम् ॥ ३७ ॥ तुषाराःसूर्यरश्मीनां सङ्गमादगमन् बहिः । प्रमत्वानीक्ष्यतेक्षाश्च सलिलीहृदयास्तदा ॥ ३८ ॥ प्रसन्नाःसह चन्द्रेण निर्निशारास्तदाऽभवन् । विभावर्यः प्रियेणैवं कामिन्यस्तु मनोहराः ॥ ३९ ॥ तस्मिन्काले महादेवः सह सत्या धरोत्तमे । रेमे स सुचिरं छन्दं निकुञ्जेषु नदीषु च ॥ ४० ॥ तथा तेन समं रेजे तदा दाक्षायिणि मुने । यथा हरः क्षणमपि शान्तिमाप तया विना ॥ ४१ ॥ सम्भोगविषये देवी सती तस्य मनः प्रिया । विशतीव हरस्याङ्गे पाययन्निव तद्रसम् ॥ ४२ ॥ तस्या कुसुममालाभिर्भूषयन्सकलां तनुम् । स्वहस्तरचिताभिस्तु नवशर्माकरोच्च सः ॥ ४३ ॥ आलापैर्वीक्षितैर्हास्यैस्तथा सम्भाषणैर्हरः । तस्यादिदेश गिरिजां शंसतीवात्मसंविदम् ॥ ४४ ॥ तद्वक्त्रचन्द्रपीयूषपानस्थिरतनुर्हरः । नानावैशेषिकीं तन्वीमवस्थां स कदाचन ॥ ४५ ॥ तद्वक्त्राम्बुजवासेन तत्सौन्दर्य्यैश्च नर्मभिः । गुणैरिव महादन्ती बद्धो नान्यविचेष्टितः ॥ ४६ ॥ इति हिमगिरिकुञ्जप्रस्थभागे दरीषु प्रतिदिनमभिरेमे दक्षपुत्र्या महेशः । क्रतुभुजपरिमाणैः क्रीडतस्तस्य जाता दश दश च सुरर्षे वत्सराः पञ्च चान्ये ॥ ४७ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीशिवक्रीडावर्णनं नामैकविंशोध्यायः ॥ २१ ॥ श्रीगौरीशंकरार्पणमस्तु |