|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
विंशोऽध्यायः ॥
सतीविवाहोत्सव
नारद उवाच
ब्रह्मन् विधे महाभाग शिवभक्त वरप्रभो । श्रावितं चरितं शम्भोरद्भुतं मङ्गलायनम् ॥ १ ॥ ततः किमभवत्तात कथ्यतां शशिमौलिना । सत्याश्च चरितं दिव्यं सर्वाघौघविनाशनम् । २ ॥ ब्रह्मोवाच निवृत्ते शङ्करे चास्मद्वधाद्भक्तानुकम्पिनि । अभवन्निर्भयाः सर्वे सुखिनस्तु प्रसन्नकाः ॥ ३ ॥ नतस्कन्धाः साञ्जलयः प्रणेमुर्निखिलाश्च ते । तुष्टुवुः शङ्करं भक्त्या चक्रुर्जयरवं मुदा ॥ ४ ॥ एतस्मिन्नेव कालेऽहं प्रसन्नो निर्भयो मुने । अस्तवं शङ्करं भक्त्या विविधैश्च शुभैः स्तवैः ॥ ५ ॥ ततस्तुष्टमनाः शम्भुर्बहुलीलाकरः प्रभुः । मुने मां समुवाचेदं सर्वेषां शृण्वतां तदा ॥ ६ ॥ रुद्र उवाच ब्रह्मन् तात प्रसन्नोहं निर्भयस्त्वं भवाधुना । स्वशीर्षं स्पृश हस्तेन मदाज्ञां कुर्वसंशयम् ॥ ७ ॥ ब्रह्मोवाच इत्याकर्ण्य वचः शम्भोर्बहुलीलाकृतः प्रभोः । स्पृशन् स्वं कं तथा भूत्वा प्रणामं वृषभध्वजम् ॥ ८ ॥ यावदेवमहं स्वं कं स्पृशामि निजपाणिना । तावत्तत्र स्थितं सद्यः तद्रूपवृषवाहनम् ॥ ९ ॥ ततो लज्जापरीताङ्गः स्थितश्चाहमधोमुखः । इन्द्राद्यैरमरैः सर्वैः सुदृष्टः सर्वतः स्थितैः ॥ १० ॥ अथाहं लज्जयाऽविष्टः प्रणिपत्य महेश्वरम् । प्रावोचं संस्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति ॥ ११ ॥ अस्य पापस्य शुध्यर्थं प्रायश्चित्तं वद प्रभो । निग्रहं च तथा न्यायं येन पापं प्रयातु मे ॥ १२ ॥ इत्युक्तस्तु मया शम्भुरुवाच प्रणतं हि माम् । सुप्रसन्नतरो भूत्वा सर्वेशो भक्तवत्सलः ॥ १३ ॥ शम्भुरुवाच अनेनैव स्वरूपेण मदधिष्ठितकेन हि । तपः कुरु प्रसन्नात्मा मदाराधनतत्परः ॥ १४ ॥ ख्यातिं यास्यसि सर्वत्र नाम्ना रुद्रशिरः क्षितौ । साधकः सर्वकृत्यानां तेजोभाजां द्विजन्मनाम् ॥ १५ ॥ मनुष्याणामिदं कृत्यं यस्माद्वीर्य्यं त्वयाऽधुना । तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले ॥ १६ ॥ यस्त्वां चानेन रूपेण दृष्ट्वा कौ विचरिष्यति । किमेतद्ब्रह्मणो मूर्ध्नि वदन्निति पुरान्तकः ॥ १७ ॥ ततस्ते चेष्टितं सर्वं कौतुकाच्छ्रोष्यतीति यः । परदारकृतात्त्यागान्मुक्तिं सद्यः स यास्यति ॥ १८ ॥ यथा यथा जनश्चैतत्कृत्यन्ते कीर्तयिष्यति । तथा तथा विशुद्धिस्ते पापस्यास्य भविष्यति ॥ १९ ॥ एतदेव हि ते ब्रह्मन् प्रायश्चित्तं मयेरितम् । जनहास्यकरं लोके तव गर्हाकरं परम् ॥ २० ॥ एतच्च तव वीर्यं हि पतितं वेदिमध्यगम् । कामार्तस्य मया दृष्टं नैतद्धार्यं भविष्यति ॥ २१ ॥ चतुर्बिन्दुमितं रेतः पतितं यत्क्षितौ तव । तन्मितास्तोयदा व्योम्नि भवेयुः प्रलयङ्कराः ॥ २२ ॥ एतस्मिन्नन्तरे तत्र देवर्षीणां पुरो द्रुतम् । तद्रेतसः समभवंस्तन्मिताश्च बलाहका ॥ २३ ॥ संवर्तकस्तथाऽऽवर्त्तः पुष्करो द्रोण एव च । एते चतुर्विधास्तात महामेघा लयङ्कराः ॥ २४ ॥ गर्जन्तश्चाथ मुचन्तस्तोयानीषच्छिवेच्छया । फेलुर्व्योम्नि मुनिश्रेष्ठ तोयदास्ते कदारवाः ॥ २५ ॥ तैस्तु सञ्छादिते व्योम्नि सुगर्जद्भिश्च शङ्करः । प्रशान् दाक्षायणी देवी भृशं शान्तोऽभवद्द्रुतम् ॥ २६ ॥ अथ चाहं वीतभयः शङ्करस्या ज्ञया तदा । शेषं वैवाहिकं कर्म समाप्तिमनयं मुने ॥ २७ ॥ पपात पुष्पवृष्टिश्च शिवाशिवशिरस्कयोः । सर्वत्र च मुनिश्रेष्ठ मुदा देवगणोज्झिता ॥ २८ ॥ वाद्यमानेषु वाद्येषु गायमानेषु तेषु च । पठत्सु विप्रवर्येषु वेदान् भक्त्यान् वितेषु च ॥ २९ ॥ रम्भादिषु पुरन्ध्रीषु नृत्यमानासु सादरम् । महोत्सवो महानासीद्देवपत्नीषु नारद ॥ ३० ॥ अथ कर्मवितानेशः प्रसन्नः परमेश्वरः । प्राह मां प्राञ्जलिं प्रीत्या लौकिकीं गतिमाश्रितः ॥ ३१ ॥
ईश्वर उवाच हे ब्रह्मन् सुकृतं कर्म सर्वं वैवाहिकं च यत् । प्रसन्नोस्मि त्वमाचार्यो दद्यां ते दक्षिणां च काम् ॥ ३२ ॥ याचस्व तां सुरज्येष्ठ यद्यपि स्यात्सुदुर्लभा । ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम ॥ ३३ ॥ ब्रह्मोवाच इत्याकर्ण्य वचः सोहं शङ्करस्य कृताञ्जलिः । मुनेऽवोचं विनीतात्मा प्रणम्येशं मुहुर्मुहुः ॥ ३४ ॥ यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि । तत्कुरु त्वं महेशान सुप्रीत्या यद्वदाम्यहम् ॥ ३५ ॥ अनेनैव तु रूपेण वेद्यामस्यां महेश्वर । त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये ॥ ३६ ॥ येनास्य संनिधौ कृत्वा स्वाश्रमं शशिशेखर । तपः कुर्यां विनाशाय स्वपापस्यास्य शङ्कर ॥ ३७ ॥ चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते । सूर्यवारे च यो भक्त्या वीक्षेत भुवि मानवः ॥ ३८ ॥ तदैव तस्य पापानि प्रयान्तु हर सङ्क्षयम् । वर्द्धतां विपुलं पुण्यं रोगा नश्यन्तु सर्वशः ॥ ३९ ॥ या नारी दुर्भगा वन्ध्या काणा रूपविवर्जिता । सापि त्वद्दर्शनादेव निर्दोषा सम्भवेद्ध्रुवम् ॥ ४० ॥ ब्रह्मोवाच इत्याकर्ण्य वचो मे हि स्वात्मसर्वसुखावहम् । तथाऽस्त्विति शिवः प्राह सुप्रसन्नेन चेतसा ॥ ४१ ॥ शिव उवाच हिताय सर्वलोकस्य वेद्यां तस्यां व्यवस्थितः । स्थास्यामि सहितः पत्न्या सत्या त्वद्वचनाद्विधे ॥ ४२ ॥ ब्रह्मोवाच इत्युक्त्वा भगवांस्तत्र सभार्यो वृषभध्वजः । उवाच वेदिमध्यस्थो मूर्तिं कृत्वांशरूपिणीम् ॥ ४३ ॥ ततो दक्षं समामंत्र्य शङ्करः परमेश्वरः । पत्न्या सत्या गन्तुमना अभूत्स्वजनवत्सलः ॥ ४४ ॥ एतस्मिन्नन्तरे दक्षो विनयावनतः सुधीः । साञ्जलिर्नतकः प्रीत्या तुष्टाव वृषभध्वजम् ॥ ४५ ॥ विष्ण्वादयः सुराः सर्वे मुनयश्च गणास्तदा । नत्वा संस्तूय विविधं चक्रुर्जयरवं मुदा ॥ ४६ ॥ आरोप्य वृषभे शम्भुः सतीं दक्षाज्ञया मुदा । जगाम हिमवत्प्रस्थं वृषभस्थः स्वयं प्रभुः ॥ ४७ ॥ अथ सा शङ्कराभ्यासे सुदती चारुहासिनी । विरेजे वृषभस्था वै चन्द्रान्ते कालिका यथा ॥ ४८ ॥ विष्ण्वादयःसुराःसर्वे मरीच्याद्यास्तथर्षयः । दक्षोपि मोहितश्चासीत्तथान्ये निश्चला जनाः ॥ ४९ ॥ केचिद्वाद्यान्वादयन्तो गायन्तः सुस्वरं परे । शिवं शिवयशः शुद्धमनुजग्मुः शिवं मुदा ॥ ५० ॥ मध्यमार्गाद्विसृष्टो हि दक्षः प्रीत्याथ शम्भुना । वधाम प्राप सगणः शम्भुः प्रेमसमाकुलः ॥ ५१ ॥ विसृष्टा अपि विष्ण्वाद्याः शम्भुना पुनरेव ते । अनुजग्मुः शिवं भक्त्या सुराः परमया मुदा ॥ ५२ ॥ तैः सर्वैः सगणैः शम्भुः सत्या च स्वस्त्रिया युतः । प्राप स्वं धाम संहृष्टो हिमवद्गिरिशोभितम् ॥ ५३ ॥ तत्र गत्वाऽखिलान्देवान्मुनीनपि परांस्तथा । मुदा विसर्जयामास बहु सम्मान्य सादरम् ॥ ५४ ॥ शम्भुमाभाष्य ते सर्वे विष्ण्वाद्या मुदितानना । स्वंस्वं धाम ययुर्नत्वा स्तुत्वा च मुनयः सुराः ॥ ५५ ॥ शिवोऽपि मुदितोत्यर्थं स्वपत्न्या दक्षकन्यया । हिमवत्प्रस्थसंस्थो हि विजहार भवानुगः ॥ ५६ ॥ ततः स शङ्करः सत्या सगणः सूतिकृन्मुने । प्राप स्वं धाम संहृष्टः कैलासं पर्वतोत्तमम् ॥ ५७ ॥ एतद्वः सर्वमाख्यातं यथा तस्य पुराऽभवत् । विवाहो वृषयानस्य मनुस्वायम्भुवान्तरे ॥ ५८ ॥ विवाहसमये यज्ञे प्रारम्भे वा शृणोति यः । एतदाख्यानमव्यग्रः सम्पूज्य वृषभध्वजम् ॥ ५९ ॥ तस्याविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत् । शुभाख्यमपरं कर्म निर्विघ्नं सर्वदा भवेत् ॥ ६० ॥ कन्या च सुखसौभाग्यशीलाचारगुणान्विता । साध्वी स्यात्पुत्रिणी प्रीत्या श्रुत्वाख्यानमिदं शुभम् ॥ ६१ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सती विवाहवर्णनं नाम विंशोऽध्यायः ॥ २० ॥ श्रीगौरीशंकरार्पणमस्तु |