|
॥ श्रीगणेशाय नमः श्रीगौरीशंकराभ्यां नमः ॥
॥ श्रीशिवमहापुराणम् ॥ ॥ द्वितीया रुद्रसंहितायां द्वितीयः सतीखण्डे
एकोनविंशोऽध्यायः ॥
शिवलीलावर्णनम्
ब्रह्मोवाच
कृत्वा दक्षः सुतादानं यौतकं विविधं ददौ । हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम् ॥ १ ॥ अथ शम्भुमुपागत्य समुत्थाय कृताञ्जलिः । सार्द्धं कमलया चेदमुवाच गरुडध्वजः ॥ २ ॥ विष्णुरुवाच देवदेव महादेव करुणासागर प्रभो । त्वं पिता जगतां तात सती माताखिलस्य च ॥ ३ ॥ युवां लीलावतारौ द्वे सतां क्षेमाय सर्वदा । खलानां निग्रहार्थाय श्रुतिरेषा सनातनी ॥ ४ ॥ स्निग्धनीलाञ्जनश्यामशोभया शोभसे हर । दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया ॥ ५ ॥ देवानां वा नृणां रक्षां कुरु सत्याऽनया सताम् । संसारसारिणां शम्भो मङ्गलं सर्वदा तथा ॥ ६ ॥ य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाथवा भवेत् । तं हन्याः सर्वभूतेश विज्ञप्तिरिति मे प्रभो ॥ ७ ॥ ब्रह्मोवाच इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः । एवमस्त्विति सर्वज्ञः प्रोवाच मधुसूदनम् ॥ ८ ॥ स्वस्थानं हरिरागत्य स्थित आसीन्मुनीश्वर । उत्सवं कारयामास जुगोप चरितं च तत् ॥ ९ ॥ अहं देवीं समागत्य गृह्योक्तविधिनाऽखिलम् । अग्निकार्यं यथोद्दिष्टमकार्षं च सुविस्तरम् ॥ १० ॥ ततः शिवा शिवश्चैव यथाविधि प्रहृष्टवत् । अग्नेः प्रदक्षिणं चक्रे मदाचार्यद्विजाज्ञया ॥ ११ ॥ तदा महोत्सवस्तत्राद्भुतोभूद्द्विजसत्तम । सर्वेषां सुखदं वाद्यं गीतनृत्यपुरःसरम् ॥ १२ ॥ तदानीमद्भुतं तत्र चरितं समभूदति । सुविस्मयकरं तात तच्छृणु त्वं वदामि ते ॥ १३ ॥ दुर्ज्ञेया शाम्भवी माया तया संमोहितं जगत् । सचराचरमत्यन्तं सदेवासुरमानुषम् ॥ १४ ॥ योऽहं शम्भुं मोहयितुं पुरेच्छं कपटेन ह । मां च तं शङ्करस्तात मोहयामास लीलया ॥ १५ ॥ इच्छेत्परापकारं यः स तस्यैव भवेद्ध्रुवम् । इति मत्वाऽपकारं नो कुर्यादन्यस्य पूरुषः ॥ १६ ॥ प्रदक्षिणां प्रकुर्वन्त्या वह्नेः सत्याः पदद्वयम् । आविर्बभूव वसनात्तदद्राक्षमहं मुने ॥ १७ ॥ मदनाविष्टचेताश्च भूत्वाङ्गानि व्यलोकयम् । अहं सत्या द्विजश्रेष्ठ शिवमायाविमोहितः ॥ १८ ॥ यथा यथाहं रम्याणि व्यैक्षमङ्गानि कौतुकात् । सत्या बभूव संहृष्टः कामार्तो हि तथा तथा ॥ १९ ॥ अहमेवं तथा दृष्ट्वा दक्षजां च पतिव्रताम् । स्मराविष्टमना वक्त्रं द्रष्टुकामोभवं मुने ॥ २० ॥ न शम्भोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितम् । न च सा लज्जयाविष्टा करोति प्रगटं मुखम् ॥ २१ ॥ ततस्तद्दर्शनार्थाय सदुपायं विचारयन् । धूम्रघोरेण कामार्तोऽकार्षं तच्च ततः परम् ॥ २२ ॥ आर्द्रेन्धनानि भूरीणि क्षिप्त्वा तत्र विभावसौ । स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भवस्तथा ॥ २३ ॥ प्रादुर्भूतस्ततो धूमो भूयांस्तत्र समन्ततः । तादृग् येन तमोभूतं वेदीभूमिविनिर्मितम् ॥ २४ ॥ ततो धूमाकुले नेत्रे महेशः परमेश्वरः । हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः ॥ २५ ॥ ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रमहं मुने । अवेक्षं किल कामार्तः प्रहृष्टेनान्तरात्मना ॥ २६ ॥ मुहुर्मुहुरहं तात पश्यामि स्म सतीमुखम् । अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः ॥ २७ ॥ मम रेतः प्रचस्कन्द ततस्तद्वीक्षणाद्द्रुतम् । चतुर्बिन्दुमितं भूमौ तुषारचयसंनिभम् ॥ २८ ॥ ततोहं शङ्कितो मौनी तत्क्षणं विस्मितो मुने । आच्छादये स्म तद्रेतो यथा कश्चिद्बुबोध न ॥ २९ ॥ अथ तद्भगवाञ्छम्भुर्ज्ञात्वा दिव्येन चक्षुषा । रेतोवस्कन्दनात्तस्य कोपादेतदुवाच ह ॥ ३० ॥ रुद्र उवाच किमेतद्विहितं पाप त्वया कर्म विगर्हितम् । विवाहे मम कान्ताया वक्त्रं दृष्टं न रागतः ॥ ३१ ॥ त्वं वेत्सि शङ्करेणैतत्कर्म ज्ञातं न किञ्चन । त्रैलोक्येऽपि न मेऽज्ञातं गूढं तस्मात्कथं विधे ॥ ३२ ॥ यत्किञ्चित्त्रिषु लोकेषु जङ्गमं स्थावरं तथा । तस्याहं मध्यगो मूढ तैलं यद्वत्तिलान्तिगम् ॥ ३३ ॥ ब्रह्मोवाच इत्युक्त्वा प्रिय विष्णुर्मां तदा विष्णुवचः स्मरन् । इयेष हन्तुं ब्रह्माणं शूलमुद्यम्य शङ्करः ॥ ३४ ॥ शम्भुनोद्यमिते शूले मां च हन्तुं द्विजोत्तम । मरीचिप्रमुखास्ते वै हाहाकारं च चक्रिरे ॥ ३५ ॥ ततो देवगणाः सर्वे मुनयश्चाखिलास्तथा । तुष्टुवुः शङ्करं तत्र प्रज्वलन्तं भयातुराः ॥ ३६ ॥ देवा ऊचुः देव देव महादेव शरणागतवत्सल । ब्रह्माणं रक्ष रक्षेश कृपां कुरु महेश्वर ॥ ३७ ॥ जगत्पिता महेश त्वं जगन्माता सती मता । हरिब्रह्मादयः सर्वे तव दासाःसुरप्रभो ॥ ३८ ॥ अद्भुताकृतिलीलस्त्वं तव मायाद्भुता प्रभो । तया विमोहितं सर्वं विना त्वद्भक्तिमीश्वर ॥ ३९ ॥ ब्रह्मोवाच इत्थं बहुतरं दीना निर्जरा मुनयश्च ते । तुष्टुवुर्देवदेवेशं क्रोधाविष्टं महेश्वरम् ॥ ४० ॥
दक्षो मैवं मैवमिति पाणिमुद्यम्य शङ्कितः । वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ॥ ४१ ॥ अथाग्रे सङ्गतं वीक्ष्य तदा दक्षं महेश्वरः । प्रत्युवाचाप्रियमिदं संस्मरन्प्रार्थनां हरेः ॥ ४२ ॥ महेश्वर उवाच विष्णुना मेऽतिभक्तेन यदिदानीमुदीरितम् । मयाप्यङ्गीकृतं कर्तुं तदिहैव प्रजापते ॥ ४३ ॥ सतीं यः साभिलाषः सन् वीक्षेत वध तं प्रभो । इति विष्णुवचः सत्यं विधिं हत्वा करोम्यहम् ॥ ४४ ॥ साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् । अभवत्त्यक्तरेतास्तु ततो हन्मि कृतागसम् ॥ ४५ ॥ ब्रह्मोवाच इत्युक्तवति देवेश महेशे क्रोधसङ्कुले । चकम्पिरे जनाः सर्वे सदेवमुनिमानुषाः ॥ ४६ ॥ हाहाकारो महानासीदौदासीन्यं च सर्वशः । अभूवं विकलोऽतीव तदाहं तद्विमोहितः ॥ ४७ ॥ अथ विष्णुर्महेशातिप्रियकार्यविचक्षणः । तमेवंवादिनं रुद्रं तुष्टाव प्रणतःसुधीः ॥ ४८ ॥ स्तुत्वा च विविधैः स्तोत्रैः शङ्करं भक्तवत्सलम् । इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरःसरः ॥ ४९ ॥ विष्णुरुवाच विधिं न जहि भूतेश स्रष्टारं जगतां प्रभुम् । अयं शरणगस्तेऽद्य शरणागतवत्सलः ॥ ५० ॥ अहं तेऽतिप्रियो भक्तो भक्तराज इतीरितः । विज्ञप्तिं हृदि मे मत्वा कृपां कुरु ममोपरि ॥ ५१ ॥ अन्यच्च शृणु मे नाथ वचनं हेतुगर्भितम् । तन्मनुष्व महेशान कृपां कृत्वा ममोपरि ॥ ५२ ॥ प्रजाः स्रष्टुमयं शम्भो प्रादुर्भूतश्चतुर्मुखः । अस्मिन् हते प्रजास्रष्टा नास्त्यन्यः प्राकृतोऽधुना ॥ ५३ ॥ सृष्टिस्थित्यन्तकर्माणि करिष्यामः पुनः पुनः । त्रयो देवा वयं नाथ शिवरूप त्वदाज्ञया ॥ ५४ ॥ एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति । तस्मान्न वध्यो भवता सृष्टिकृल्लयकृद्विभो ॥ ५५ ॥ अनेनैव सती कन्या दक्षस्य च शिवा विभो । सदुपायेन वै भार्या भवदर्थे प्रकल्पिता ॥ ५६ ॥ ब्रह्मोवाच इत्याकर्ण्य महेशस्तु विज्ञप्तिं विष्णुना कृताम् । प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः ॥ ५७ ॥ महेश उवाच देव देव रमेशान विष्णो मत्प्राणवल्लभ । न निवारय मां तात वधादस्य खलस्त्वयम् ॥ ५८ ॥ पूरयिष्यामि विज्ञप्तिं पूर्वान्तेङ्गीकृतां मया । महापापकरं दुष्टं हन्म्येनं चतुराननम् ॥ ५९ ॥ अहमेव प्रजाः स्रक्ष्ये सर्वाः स्थिरचरा अपि । अन्यं स्रक्ष्ये सृष्टिकरमथवाऽहं स्वतेजसा ॥ ६० ॥ हत्वैनं विधिमेवाहं स्वपणं पूरयन् कृतम् । स्रष्टारमेकं स्रक्ष्यामि न निवारय मर्श माम् ॥ ६१ ॥ ब्रह्मोवाच इति तस्य वचः श्रुत्वा गिरीशस्याह चाच्युतः । स्मितप्रभिन्नहृदयः पुनर्मैवमितीरयन् ॥ ६२ ॥ अच्युत उवाच प्रतिज्ञापूरणं योग्यं परस्मिन्पुरुषेस्ति वै । विचारयस्व वध्येश भवत्यात्मनि न प्रभो ॥ ६३ ॥ त्रयो देवा वयं शम्भो त्वदात्मानः परा नहि । एकरूपा न भिन्नाश्च तत्त्वतः सुविचारय ॥ ६४ ॥ ततस्तद्वचनं श्रुत्वा विष्णोःस्वातिप्रियस्य सः । शम्भुरूचे पुनस्तं वै ख्यापयन्नात्मनो गतिम् ॥ ६५ ॥ शम्भुरुवाच हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम । लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ॥ ६६ ॥ ब्रह्मोवाच इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा । इदमूचे महादेवं तोषयन् गरुडध्वजः ॥ ६७ ॥ विष्णुरुवाच न ब्रह्मा भवतो भिन्नो न त्वं तस्मात्सदाशिव । न वाहं भवतो भिन्नो न मत्त्वं परमेश्वर ॥ ६८ ॥ सर्वं जानासि सर्वज्ञ परमेश सदाशिव । मन्मुखादखिलात्सर्वं संश्रावयितुमिच्छसि ॥ ६९ ॥ त्वदाज्ञया वदामीश शृण्वन्तु निखिलाः सुराः । मुनयश्चापरे शैवं तत्त्वं सन्धार्य स्वं मनः ॥ ७० ॥ प्रधानस्याऽप्रधानस्य भागाभागस्य रूपिणः । ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः ॥ ७१ ॥ कस्त्वं कोहं च को ब्रह्मा तवैव परमात्मनः । अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणम् ॥ ७२ ॥ चिन्तयस्वात्मनात्मानं स्वलीलाधृतविग्रहः । एकस्त्वं ब्रह्म सगुणो ह्यंशभूता वयं त्रयः ॥ ७३ ॥ शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः । अङ्गानि ते तथेशस्य तस्य भगत्रयं हर ॥ ७४ ॥ यज्ज्योतिरभ्रं स्वपुरं पुराणं कूटस्थमव्यक्तमनन्तरूपम् । नित्यं च दीर्घादिविशेषणाद्यै- र्हीनं शिवस्त्वं तत एव सर्वम् ॥ ७५ ॥ ब्रह्मोवाच एतच्छ्रुत्वा वचस्तस्य महादेवो मुनीश्वर ॥ बभूव सुप्रसन्नश्च न जघान स मां ततः ॥ ७६ ॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सतीविवाहशिवलीलावर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥ श्रीगौरीशंकरार्पणमस्तु |